दण्डधर
daṇḍadharaपुं · masc.In 12 kośas: 12 synonym verses, 2 as a meaning of another word.
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.
धर्मराजः पितृपतिः समवर्ती परेतराट् ।कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ ५८ ॥कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ।
अनुष्टुप्
genderपुंmasc.
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
भसितं भस्म भूतिः स्यादग्न्युत्पात उपाहितः ।यमः पितृपतिर्दण्डनाथो दण्डधरो हरिः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कारुर्जैवातृकः शुष्मा दवो वनहुताशनः ।यमः कालो दण्डधरः श्राद्धदेवोत्तरोद्यमः ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
दण्डाद्यामधारधरश्चित्रगुप्तश्च पार्परः ।अर्कपर्यायपुत्रार्थः कीनाशो मृत्युरित्यपि ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
genderपुंmasc.doubtful
श्राद्धदेवो दण्डधरो धर्मश्च महिषध्वजः ।यमराट् जीवितेशश्च दण्डधारोऽपि कीर्त्तितः ॥ १४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderपुंmasc.
रोहिणीप्रमुखाः सन्ति विद्यादेव्यस्तु षोडश ।यमः प्रेतपतिर्दण्डधरः कालोऽन्तकोऽर्कजः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
धर्मराजो महासत्यः शमनो महिषध्वजः ।कीनाशो वै कृतान्तश्च हरिर्दण्डधरस्तथा ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
औडुम्बरो दण्डधरो दण्डधारः परेतराट् ।कीलाशो यमुनाभ्राता दध्नो महिषवाहनः ॥
अनुष्टुप्
genderपुंmasc.
वैवस्वतो दण्डधरः कालिन्दीसोदरोऽन्तकः ।पुरी संयमनी तस्या धूमोर्णा तु सधर्मिणी ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
भासतं भस्म भूतिः स्यादग्न्युत्पात उपाहितः ।यमः पितृपतिर्दण्डधरो महिषवाहनः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
दण्डधर as a meaning in nānārtha verses
- कोषकल्पतरु यमध्वाङ्क्षे दण्डधरे यमोऽपि यमजे स्यात्संयमे तादृशः । शारीरेऽपि च नित्यकर्मणि भवेत्स्यादानुपूर्व्यां क्रमः । शक्तौ कल्पपदक्षिपो(?)रथ भवेत्क्षौमं दुकूलेऽस्त्रिया- मट्टे स्यादतसीकृते च वसने क्षेमं पुनर्न स्त्रियाम् ॥ ५८ ॥ Koṣakalpataru 6.25.58
- शब्दरत्नावली दण्डधारदण्डयात्रा दिग्विजये संयानवरयात्रयोः । दण्डधारः शवपतौ यमे दण्डधरेऽपि च ॥ Śabdaratnāvalī 7.27.125