कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

महिषध्वज

mahiṣadhvajaपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.185 · p. 11
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.77 · p. 15
आषाढनिलयो धर्मराजो रागविलोचनः ।धूमोर्नावल्लभः शम्भुः कृष्णाङ्गो महिषध्वजः ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.47 · p. 385
अथ स्याच्छ्राद्धदेवार्थो यमः कालोऽन्तको हरिः ।कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.144 · p. 22
श्राद्धदेवो दण्डधरो धर्मश्च महिषध्वजः ।यमराट् जीवितेशश्च दण्डधारोऽपि कीर्त्तितः ॥ १४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.80 · p. 15
दक्षिणाशापतिः पितृपतिर्मृत्युहरी पुनः ।यमराजः कृतान्तश्च शीर्णाङ्घ्रिमहिषध्वजौ ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.208 · p. 28
धर्मराजो महासत्यः शमनो महिषध्वजः ।कीनाशो वै कृतान्तश्च हरिर्दण्डधरस्तथा ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.140 · p. 10
यमः पितृपतिर्धर्मो धर्मराजश्च धर्मराट् ।जीवितेशः श्राद्धदेवः कृतान्तो महिषध्वजः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.70 · p. 13
अग्निवाहस्तरीः स्वाहा त्वऽग्नायी दहनप्रिया ।जीवितेशो यमः शीर्णपादश्च महिषध्वजः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.