कीनाश
kīnāśaपुं · masc.In 16 kośas: 22 synonym verses, 11 as a nānārtha head word, 5 as a meaning of another word.
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः ।कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्घ्रिहर्यन्तकधर्मराजाः ॥ १८४ ॥यमराजः श्राद्धदेवः शमनो महिषध्वजः ।कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥ १८५ ॥
उपजातिः
genderपुंmasc.
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ ।रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ॥ १८७ ॥क्रव्यात्कर्बुरनैरृतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः ।जलयादःपतिपाशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥ १८८ ॥
metre not recognised
genderपुंmasc.
महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः ।महामना महात्मा च कृपणस्तु मितंपचः ॥ ३६७ ॥कीनाशस्तद्धनक्षुद्रकदर्यदृढमुष्टयः ।किंपचानो दयालुस्तु कृपालुः करुणापरः ॥ ३६८ ॥सूरतोऽथ दया शूकः कारुण्यं करुणा घृणा ।कृपानुकम्पानुक्रोशो हिंस्रे शरारुघातुकौ ॥ ३६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
genderविadj.
शमनः समवर्ती च प्रेतपतिः पितृपतिश्च कीनाशः ।वैवस्वतः कृतान्तः कालिन्दीसोदरः कालः ॥ ७१ ॥
आर्या
genderपुंmasc.
कदर्यहीनकीनाशकिम्पचानमितम्पचाः ।कृपणक्षुल्लकक्लीवक्षुद्रा एकार्थवाचकाः ॥ ३४७ ॥
अनुष्टुप्
genderविadj.
स्याद्धूर्तो वञ्चकः पापः क्षुद्रो वञ्चूक इत्यपि ।कीनाशश्च कदर्यः स्यात्किंपचानो मितम्पचः ॥ ८९ ॥
अनुष्टुप्
genderविadj.
दण्डाद्यामधारधरश्चित्रगुप्तश्च पार्परः ।अर्कपर्यायपुत्रार्थः कीनाशो मृत्युरित्यपि ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
genderपुंmasc.
कीनाशश्च पलाशश्च नृचक्षा यातुरस्त्रियाम् ।क्लीबे भूतं च रक्षश्च पुं वा नैरृतनिरृती ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderपुंmasc.
कीनाशः शमनो यमः पितृपतिः कालः कृतान्तोऽन्तकःधूमोर्णारम[15b]णो विशीर्णचरणो वैवस्वतो धर्मराट् ।कालिन्दीसहजो दिनेशतनुजो मृत्युर्हरिः प्रेतराट्स्यात्सांज्ञायनिरन्तकृच्च समवर्त्ती दक्षिणाशापतिः ॥ १४३ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
[159b]दृढमुष्टिस्तद्धनश्च कीनाशोऽपि वराकवत् ।गृध्नुस्तु गर्धनो लुब्ध-तृष्णक्-तर्षित-लिप्सवः ॥ २२ ॥
अनुष्टुप्
genderविadj.
रहोऽनुरहसोपांशु रहस्यं च भिनत्ति कः ।कीनाशः कृपणो लुब्धो गृध्नुर्दीनोऽभिलाषुकः ॥ १७५ ॥
अनुष्टुप्
genderपुंmasc.
नैर्ऋतः कर्बुरः क्रव्यात्कीनाशनिकसात्मजाः ।रात्रिंचरः पुण्यजनो नृचक्षाश्च निशाचरः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
प्रदिग्विदिक्त्वपदिशं दिग्भवे दिश्यमिष्यते ।तिर्यग्दिगीश्वरा इन्द्रवह्निकीनाशनैर्ऋताः ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
कृपणः किंपचनोऽपि कदर्यस्तद्धनः पुनः ।बद्धमुष्टिस्तथा क्षुद्रः कीनाशे च मितंपचः ॥ ३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
genderपुंmasc.
क्षुद्रे त्वकल्कनः शुण्डी वी(व्र?)तदम्भश्च मत्सरी ।कालिङ्गः परपिण्डादः कीनाशः परबाधकः ॥ ६७३ ॥
अनुष्टुप्
genderविadj.
यमराजः पितृपतिर्मृत्युर्दक्षिणदिक्पतिः ।कीनाशो यमुनाभ्राता दण्डभृन्माहिषध्वजः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
धर्मराजो महासत्यः शमनो महिषध्वजः ।कीनाशो वै कृतान्तश्च हरिर्दण्डधरस्तथा ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
राक्षस आक्षरो रक्षः कीनाशः कौणपस्तथा ॥ २११ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कीनाशो दृढमुष्टिश्च क्षुद्रस्तथैव तद्धनः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
genderविadj.
पितृपतिकृतान्तशमनप्रेताधिपधर्मराजयमराजाः ।कालयममहिषवाहनसमवर्तिश्राद्धदेवकीनाशाः ॥ ११३ ॥
गीतिः
genderपुंmasc.
कालः कृतान्तः शमनः कीनाशो दक्षिणाधिपः ।धर्मराजः पुराणान्तः कालकुन्थो विशीर्णपात् ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
कीनाशः पीतहरितो हरितो नीलपीतलः ।कृष्णवर्ग्याः पुनर्धूम्रधूमलौ कृष्णलोहिते ॥ २१ ॥
अनुष्टुप्
genderविadj.
उपांशुघातिन्यपि ना वराकेपरोपमो ना वरुणे सुखाशः ।स्याच्छोभनाशे तिनिशे च राज्ञःपिङ्गाश उक्तो झषपल्लि[82a]भर्त्रोः ॥
उपेन्द्रवज्राmetre not read in every linenearly उपेन्द्रवज्रा: pāda 1, syllable 1 स्या (wrong syllable); pāda 2, syllable 1 पि (wrong syllable)
doubtful
स्त्री विद्युति किरीटी तु नार्जुने त्रिः समौलिके ।कीनाशोऽग्नौ यमे पीतहरिते मिश्रवर्णके ॥ ४८६ ॥
अनुष्टुप्
पीतप्रधाने पुंसि स्याद् राक्षसे तु द्वयोस्त्रि तु ।कदर्यानार्यभृतककृतघ्नेषु कृषीवले ॥ ४८७ ॥
अनुष्टुप्
doubtful
पूर्वोक्तवर्णवद्द्रव्येऽप्याममासांशकेऽप्यथ ।क्ली करञ्जफलस्यैकबीजे मधुरभेषजे ॥ ४८८ ॥
अनुष्टुप्
doubtful
कीनाशः शमने क्षुद्रे कर्षकोपांशुधातिनोः ।कुलिशोऽस्त्री वज्रे स्यान्मीनभेदे भवेत्पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्त्री (syllables merged)
कदर्ये त्रिषु कीनाशः कुष्यध्यक्षे यमे नरि ।काके च करिगण्डे च करटः कुहरं रते ॥ २०६६ ॥
अनुष्टुप्
कीनाश as a meaning in nānārtha verses
- कोषकल्पतरु दण्डयामकान्ते चानुपमो विशेष्यसदृशः स्त्री सुप्रतीकस्त्रियां अभ्यर्णे च हतौ विरोधरणयोरभ्युद्गमेऽभ्यागमः । जीर्णे भुक्तसमुज्झिते च गदितो ना यातयामस्तथा कीनाशे दिवसे घटोद्भवमुनौ स्याद्दण्डयामोऽपि च ॥ ९३ ॥ Koṣakalpataru 6.25.93
- कोषकल्पतरु कर्मकरकर्मकरः कीनाशे वेतनवृत्तौ तथा भृत्ये । मूर्वायामपि बिम्ब्यां स्त्रियामथारुष्करं षण्ढे ॥ ९० ॥ Koṣakalpataru 6.27.90
- शब्दरत्नावली पार्परपदारः स्यात्पादधूल्यां पादालिन्दे च पुंस्ययम् । पटीरं तितउतुङ्गमूलके दारवारिदे ॥ वेणुसारे वातिके च चन्दनेऽपि निगद्यते । पार्परः पुंसि कीनाशे राजलक्षणि सिक्थके ॥ Śabdaratnāvalī 7.27.86
- शब्दरत्नाकर यममुख्यद्वाराभ्युपायेषु ताम्रे च वदने मुखम् । यमो यमलकीनाशसंयमेषु नियन्त्रणे ॥ १९८२ ॥ Śabdaratnākara 4.1.1982
- त्रिकाण्डशेष यमयमः संयमकीनाशयुग्मजेष्वथ राघवे । रामः पशौ भार्गवे च रूक्मं लोहसुवर्णयोः ॥ ३०२ ॥ Trikāṇḍaśeṣa 3.3.302