कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भुवःस्कन्धः · नभःस्थदेवप्रकाण्डः (1/2)

स्पर्शनः कः समीरो यः स्पर्शनो मारुतो नभः ।वायुस्ततो मातरिश्वा हरिरात्मा वहश्च वाः ॥ १ ॥
2.3.1 · p. 379
अनुष्टुप्
सृदाकुः पञ्चलक्ष्मा च विश्वप्सा अजिरः पुनः ।धारावलीरौ खश्वासः क्षिपणुश्च जगद्बलः ॥ २ ॥
2.3.2 · p. 380
अनुष्टुप्
धूलिध्वजो बलदेवो महाबलमलिम्लुचौ ।चञ्चलश्चपलः प्राणः संहर्षः प्रवहो वहः ॥ ३ ॥
2.3.3 · p. 380
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
पृषदश्वो गन्धवहो जगत्प्राणः समीरणः ।सदागतिर्गन्धवाहो निःपावश्चाशुगोऽनिलः ॥ ४ ॥
2.3.4 · p. 380
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
शुचिर्नभस्वत्पवनपवमानप्रभञ्जनाः ।वाहो मरुल्लोहघनः पश्चिमोत्तरदिक्पतिः ॥ ५ ॥
2.3.5 · p. 380
अनुष्टुप्
श्वसनः श्वसिनो वातिश्चलश्चापि जगत् जगत् ।महतः पृषताश्वोपि शरयुर्मेघकारकः ॥ ६ ॥
2.3.6 · p. 380
अनुष्टुप्
शीतलो जलकान्तारो मेघारिः सृमरोऽपि च ।पृश्न्याकुलश्च वातूलो वातगुल्मः प्रकम्पनः ॥ ७ ॥
2.3.7 · p. 380
अनुष्टुप्
अपि वातो महावायुर्निदाघसमयानिले ।चारार्थाद्वायुपर्यायो झञ्झा प्रावृड्भवेऽनिले ॥ ८ ॥
2.3.8 · p. 380
अनुष्टुप्
दाक्षिणात्यस्तु वासन्तः स चोक्तः मलयोत्तरः ।आः सङ्गिनी च वाताली स्याद्वात्या वातमण्डली ॥ ९ ॥
2.3.9 · p. 380
अनुष्टुप्
वातोद्भवं तु वातूलं त्रिषु द्रव्ये गतेऽपरे ।प्राणादयो दशाङ्गस्थास्तत्तत्स्थानसमाश्रयाः ॥ १० ॥
2.3.10 · p. 380
अनुष्टुप्
प्राणो नासाग्रहृन्नाभिपादाङ्गुष्ठान्तगोचरः ।अपानः पृष्ठपृष्ठान्तपार्श्वमन्यागतिस्ततः ॥ ११ ॥
2.3.11 · p. 381
अनुष्टुप्
समानः संधिहृन्नाभीपूदानो हृच्छिरोऽन्तरा ।सर्वत्वग्वृत्तिको व्यानो नाग आकुञ्चनक्रियः ॥ १२ ॥
2.3.12 · p. 381
अनुष्टुप्
प्रसारणक्रियः कूर्मो वल्गनार्थो धनञ्जयः ।कृकरो धावने दक्षो न मुञ्चति मृतं वपुः ॥ १३ ॥
2.3.13 · p. 381
अनुष्टुप्
वहः स्यात्प्रोत्संविपरापरिभ्यश्च परो वहः ।एते वायुगणाः सप्त सप्तस्कन्धसमाश्रयाः ॥ १४ ॥
2.3.14 · p. 381
अनुष्टुप्
अन्तरिक्षस्य तत्रस्थाः पान्ति लोकांश्चतुर्विधान् ।एवमेकान्नपञ्चाशत्तरसी तु रयः स्यदः ॥ १५ ॥
2.3.15 · p. 381
अनुष्टुप्
जवोऽथ शीघ्रं त्वरिं लघु क्लीबेऽरमव्ययम् ।क्षिप्रं द्रुतं सत्वरं च चपलं तूर्णमाशु च ॥ १६ ॥
2.3.16 · p. 381
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 घ्रं (syllables merged)
सततेऽनारताश्रान्तसंतताविरतानिशम् ।नित्यानवरताजस्रमव्ययं स्याद्भरः पुमान् ॥ १७ ॥
2.3.17 · p. 381
अनुष्टुप्
अतेर्बलार्थमात्राः स्युर्भृशमुद्गाढनिर्भरे ।तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ॥ १८ ॥
2.3.18 · p. 381
अनुष्टुप्
क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां भेद्यगामि यत् ।इन्द्रो वृद्धश्रवा जिष्णुर्मेघार्थाद्वाहनार्थकः ॥ १९ ॥
2.3.19 · p. 381
अनुष्टुप्
ऐरावतोऽद्रिपर्यायभिन्मरुत्वांस्तुलोपि च ।अर्की विडौजा मघवा बैकुण्ठाण्डीरकौटिराः ॥ २० ॥
2.3.20 · p. 382
अनुष्टुप्
वृत्रो घनाघनः शक्रः सुनासीरः पुरंदरः ।पुरुहूतः प्रयागश्च वासवो हरिवाहनः ॥ २१ ॥
2.3.21 · p. 382
अनुष्टुप्
देवपर्यायतः श्रेष्ठपर्याय ऋषभध्वजः ।धाराङ्कुरो दुश्च्यवनः कौशिकश्चन्दिरस्तपः ॥ २२ ॥
2.3.22 · p. 382
अनुष्टुप्
पुलोमपाकनमुचिबलवृत्रनिषूदनः ।वास्तोः सुराणां प्राच्याश्च लोकानां च दिवः पतिः ॥ २३ ॥
2.3.23 · p. 382
अनुष्टुप्
शच्या अपि च जम्भारिपर्यायो माहिरो हरिः ।स्वराट् संक्रन्दनोऽनुग्रधन्वा पर्थज्ञ इत्ययम् ॥ २४ ॥
2.3.24 · p. 382
अनुष्टुप्
पामनेमिर्विडौजोऽपि वज्रपाण्यर्थ इत्यपि ।पूतक्रतुर्महेन्द्रश्च दल्मी वाणस्तुलोऽपि च ॥ २५ ॥
2.3.25 · p. 382
अनुष्टुप्
देवत्रिलोकीपर्यायराजार्थो मघवानपि ।प्राचीनबर्हिः सुत्रामा सूत्रामापि वृषः पुनः ॥ २६ ॥
2.3.26 · p. 382
अनुष्टुप्
शतक्रतोश्च पर्यायः सहस्रान्नयनस्य च ।स्यादृभुक्षास्तुराषाट् च तप आतङ्करावणौ ॥ २७ ॥
2.3.27 · p. 382
अनुष्टुप्
किणालातश्च हरिमान्वियुतो वज्रदक्षिणः ।देवदुन्दुभिपर्जन्यौ बाहुजज्ञोऽस्य तु प्रिया ॥ २८ ॥
2.3.28 · p. 382
अनुष्टुप्
पूतक्रतायी च शची स्यादिन्द्राणी शतावरी ।पुलोमतनयार्थापि गन्धोली जयवाहिनी ॥ २९ ॥
2.3.29 · p. 383
अनुष्टुप्
सहस्रपूर्णचन्द्राढ्या चारुरावा शची शचिः ।सचिः स्यात्तविषी चापि ताविषी तनयोऽस्य तु ॥ ३० ॥
2.3.30 · p. 383
अनुष्टुप्
जयो जयन्तो जयतो यागसन्तान इत्यपि ।देवसेना तस्य सुता जयन्ती च गुहप्रिया ॥ ३१ ॥
2.3.31 · p. 383
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
हयंकषो मातलिः स्यादिन्द्रपर्यायसारथिः ।वृषणाश्वावस्य हरी हय उच्चैःश्रवा बिलः ॥ ३२ ॥
2.3.32 · p. 383
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व (wrong syllable)
अप्युच्चैःश्रवसः सस्यात्सप्तवक्त्रार्थ इत्यपि ।मयूररोमसदृशाः सहस्रं हरयो हरेः ॥ ३३ ॥
2.3.33 · p. 383
अनुष्टुप्
विश्वौकसारा वृषभाऽमरा सुदर्शना न ना ।अमरावत्यपि पुरी वनं तु मिश्रका स्त्रियाम् ॥ ३४ ॥
2.3.34 · p. 383
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable); pāda 4, syllable 3 तु (wrong syllable)
षण् वृषण्वसु पारुष्यं नन्दनं कन्दसारकम् ।ऐरावणोऽस्त्रियामैरावतश्चापि सदामदः ॥ ३५ ॥
2.3.35 · p. 383
अनुष्टुप्
अभ्रपर्यायमातङ्गो भद्ररेणुः पुमानयम् ।चतुर्दन्तो हस्तिमल्लः सूर्यपर्यायसोदरः ॥ ३६ ॥
2.3.36 · p. 383
अनुष्टुप्
स्यात्सुदामा श्वेतगजोऽभ्रमुप्राणेश्वरार्थकः ।द्वाःस्थस्तु देवनन्दी स्यात्सरो नन्दीसरोऽस्य च ॥ ३७ ॥
2.3.37 · p. 383
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
वैजयन्तौ तु प्रासादध्वजौ वज्रोऽस्त्रियां पुनः ।गिरिकण्टकपर्यायः शतकोटिश्च गौः पुमान् ॥ ३८ ॥
2.3.38 · p. 384
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
शंवसंवौ स्वरुः सान्तं स्यात् स्त्रियामशनी शरुः ।पृदाकुर्ना ह्रादिनी स्त्री पविः पुंस्यविरित्यपि ॥ ३९ ॥
2.3.39 · p. 384
अनुष्टुप्
भिन्द्रो भिदिर्भिदूर्जम्भ इन्द्रार्थादायुधार्थकम् ।शतधारं शतारं चाभ्रोत्थं भिदिरमम्बुजम् ॥ ४० ॥
2.3.40 · p. 384
अनुष्टुप्
अस्त्रियां कुलिशं शम्बो दम्भोलिरशनिर्द्वयोः ।भेदिरं भेदिरशनी चाशनोऽपि पुमानयम् ॥ ४१ ॥
2.3.41 · p. 384
अनुष्टुप्
एकं वज्राशनिरपि केषांचन मते द्वयोः ।स्वरुर्दृग्भूर्विमानोऽस्त्री व्योमार्थाद्वाहनार्थकम् ॥ ४२ ॥
2.3.42 · p. 384
अनुष्टुप्
देववाहनपर्यायं मन्दारः पारिजातकः ।सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ४३ ॥
2.3.43 · p. 384
अनुष्टुप्
पञ्चैते देववृक्षार्था नासत्यावश्विनौ यमौ ।आश्विनौ वाडवेयौ तौ स्वर्वैद्यावश्विनीसुतौ ॥ ४४ ॥
2.3.44 · p. 384
अनुष्टुप्
तौ दस्रावपि नासत्यौ दस्रो नासत्य इत्यपि ।नासत्यदस्रावेकोक्त्या तौ च रासभवाहनौ ॥ ४५ ॥
2.3.45 · p. 384
अनुष्टुप्
गन्दान्तकौ यज्ञवहौ विश्वपर्यायकृत्तु सः ।अपि त्वष्टा विश्वकर्मा सुरपर्यायवर्द्धकिः ॥ ४६ ॥
2.3.46 · p. 384
अनुष्टुप्
अथ स्याच्छ्राद्धदेवार्थो यमः कालोऽन्तको हरिः ।कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥ ४७ ॥
2.3.47 · p. 385
अनुष्टुप्
दक्षिणाशापितृप्रेतधूमोर्णानां यमस्य च ।धर्मजावितयोरीशपर्यायः समवर्त्त्यपि ॥ ४८ ॥
2.3.48 · p. 385
अनुष्टुप्
दण्डाद्यामधारधरश्चित्रगुप्तश्च पार्परः ।अर्कपर्यायपुत्रार्थः कीनाशो मृत्युरित्यपि ॥ ४९ ॥
2.3.49 · p. 385
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
कालिन्दी सोदरः कर्मकर औदुम्बरश्च सः ।विश्वप्साः शमनो धर्मो यमनो दण्ड इत्यपि ॥ ५० ॥
2.3.50 · p. 385
अनुष्टुप्
महासत्यः पुराणान्तः कालकूटः पुनश्च सः ।अस्य प्रिया तु धूमोर्णा पुरी संयमनी पुनः ॥ ५१ ॥
2.3.51 · p. 385
अनुष्टुप्
दासौ चण्डमहाचण्डौ चित्रगुप्तोऽस्य लेखकः ।वैध्यतस्तु प्रतीहारः कालीची तु विचारभूः ॥ ५२ ॥
2.3.52 · p. 385
अनुष्टुप्
पञ्चिका दुर्गसन्धानी पितरस्तु पितामहाः ।स्वधाकव्यभुजश्चन्द्रगोलस्थाः पूर्वजा अपि ॥ ५३ ॥
2.3.53 · p. 385
अनुष्टुप्
न्यस्तशस्त्रा देवपूज्या एतेषां सप्तको गणः ।प्रभाकरा बर्हिषदोऽग्निष्वात्ताः कव्यभोजनाः ॥ ५४ ॥
2.3.54 · p. 385
अनुष्टुप्
उपहूता आज्यपाश्च सुकालिन इति क्रमात् ।अमूर्त्ताश्च समूर्ताश्च राक्षसस्तु खसात्मजः ॥ ५५ ॥
2.3.55 · p. 385
अनुष्टुप्
सन्ध्याबलो यातुधानो हनूषः शमनीषदः ।उद्वरस्तब्धसंभारपलप्रियकखासुताः ॥ ५६ ॥
2.3.56 · p. 386
अनुष्टुप्
रात्र्यर्थाद्बलपर्यायस्त्रिशिराश्च प्रवाहिकः ।रात्रिंचरो रात्रिचरः कर्बुरो निकषात्मजः ॥ ५७ ॥
2.3.57 · p. 386
अनुष्टुप्
कर्बूरः स्यात्पुण्यजनः क्रव्यात् क्षश्चापि नैरृतः ।विखुरः कोणपः शङ्कुरासरो रतविष्वणः ॥ ५८ ॥
2.3.58 · p. 386
अनुष्टुप्
कीनाशश्च पलाशश्च नृचक्षा यातुरस्त्रियाम् ।क्लीबे भूतं च रक्षश्च पुं वा नैरृतनिरृती ॥ ५९ ॥
2.3.59 · p. 386
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
पिशिताशनपैशाचौ पलादश्च पलादनः ।आशार आशिरोऽपि स्यादाशिरः कुणपोऽश्रपः ॥ ६० ॥
2.3.60 · p. 386
अनुष्टुप्
अस्रपः कर्वरोऽपि स्यात् क्रव्यादो जातुधानकः ।क्रव्याच्चापि पिशाचश्च कापिशेयोऽस्य मातरि ॥ ६१ ॥
2.3.61 · p. 386
अनुष्टुप्
निकषा नैकषेयी स्यात् स्त्रियः स्त्रीप्रत्ययार्थकाः ।धनदानुजपर्यायो रावणो राक्षसेश्वरः ॥ ६२ ॥
2.3.62 · p. 386
अनुष्टुप्
कैकसेयो वैश्रवणः पौलस्त्यः शंकराश्रयः ।दशभ्यश्च शिरःकण्ठमुखपर्याय इत्यपि ॥ ६३ ॥
2.3.63 · p. 386
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
लङ्कायाः पतिपर्यायो देवपर्यायवैर्यपि ।मर्त्यार्थारिः कुम्भकर्णविभीषणाग्रजार्थकः ॥ ६४ ॥
2.3.64 · p. 386
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
मन्दोदरी प्रिया त्वस्य मयपुत्री मनस्विनी ।इन्द्रजिन्मेघनादः स्याद्रावणिश्चाक्षपूर्वजः ॥ ६५ ॥
2.3.65 · p. 387
अनुष्टुप्
अमात्याः स्युः प्रहस्ताद्याः पुरी लङ्काऽस्य भग्न्यपि ।शूर्पणखा शूर्पणखी तालव्यादिरियं मता ॥ ६६ ॥
2.3.66 · p. 387
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 र्प (wrong syllable)
मारीचो मातुलोऽस्य स्याच्चन्द्रहासोऽसिरस्य च ।वरुणो जलकान्तारो मेघनादः पुरंजनः ॥ ६७ ॥
2.3.67 · p. 387
अनुष्टुप्
अब्धिपर्यायसद्मार्थः प्रचेता वश्च कुण्डली ।अब्यादःपश्चिमदिशापतिपर्यायपाशिनौ ॥ ६८ ॥
2.3.68 · p. 387
अनुष्टुप्
सुखाशोऽपि विलोमः स्याज्जम्बूको जम्बुकोऽपि च ।अप्युद्दामः संवृतः स्याद्दुन्दुभिस्तस्य तु प्रिया ॥ ६९ ॥
2.3.69 · p. 387
अनुष्टुप्
गौरीतल्ली काहली स्यादथ श्रीदः सितोदरः ।कुह एलविलो यक्षो नृधर्मा गुह्यकेश्वरः ॥ ७० ॥
2.3.70 · p. 387
अनुष्टुप्
शम्भुपर्यायमित्रार्थः पौलस्त्यो नरवाहनः ।एकपिङ्गो वैश्रवणः कुबेरो धनदश्च सः ॥ ७१ ॥
2.3.71 · p. 387
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
पिशाचकी राजराजो धनयक्षनिधीश्वरः ।इच्छावसूरत्नकरः सत्यसंगर इत्यपि ॥ ७२ ॥
2.3.72 · p. 387
अनुष्टुप्
वक्रनेत्रो रत्नगर्भो वसुश्चापि बको द्रुमः ।एककुण्डलपर्यायः सोमः पद्मार्थलाञ्छनः ॥ ७३ ॥
2.3.73 · p. 387
अनुष्टुप्
धनकेलिः सुप्रसन्नो महासूचः प्रमोदितः ।श्रेष्ठोऽथाप्यस्य तनयो नलकूवर इत्यपि ॥ ७४ ॥
2.3.74 · p. 388
अनुष्टुप्
द्वितीयस्तु मणिग्रीवो विमानं पुष्पकं पुनः ।पुष्यमस्यैव नगरी वसुसारा वसुप्रभा ॥ ७५ ॥
2.3.75 · p. 388
अनुष्टुप्
वस्वौकसाराऽप्यलका वनं चैत्ररथं पुनः ।मायुराजः सारथिः स्यात् कैलासः स्थानमप्यथ ॥ ७६ ॥
2.3.76 · p. 388
अनुष्टुप्
अथ यक्षो गुह्यकः स्याद्वरपर्यायवास्यपि ।स च पुण्यजनो राजा किंनरश्च मयुः पुमान् ॥ ७७ ॥
2.3.77 · p. 388
अनुष्टुप्
तुरङ्गार्थमुखार्थोऽथ निधिः स्त्री सेवधिः पुमान् ।शेवधिश्च कुनाभिश्च स्याद्वर्णकविरप्यथ ॥ ७८ ॥
2.3.78 · p. 388
अनुष्टुप्
ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः ।अजो मः प्रहसः शूली भोगः संजश्च शङ्करः ॥ ७९ ॥
2.3.79 · p. 388
अनुष्टुप्
व्योमपर्यायकेशार्थः पशुपर्यायतः पतिः ।घस्रो जयन्तो गिरिशो मृडो भीष्मो महेश्वरः ॥ ८० ॥
2.3.80 · p. 388
अनुष्टुप्
ईश्वरो हः शर्वगुह्यौ चन्द्रपर्यायशेखरः ।स्यान्नीलात्कालतः कण्ठपर्यायस्त्र्यम्बकार्थकः ॥ ८१ ॥
2.3.81 · p. 388
अनुष्टुप्
उर्गुरुः खण्डपरशुर्भूतेशः प्रमथाधिपः ।झोटिङ्गः शिशिरो बभ्रुः कटमर्दश्च रेवतः ॥ ८२ ॥
2.3.82 · p. 388
अनुष्टुप्
मृत्युञ्जयः कृत्तिवासा भालार्थाल्लाञ्छनार्थकः ।भालदृग्गोपतिर्हीरः पिङ्गदृग्वर्वढोऽव्ययः ॥ ८३ ॥
2.3.83 · p. 389
अनुष्टुप्
पिनाकी च कटाटङ्को जटाटीनो महानटः ।अद्रिधन्वा कपर्द्युग्रस्तमोहा नन्दिवर्धनः ॥ ८४ ॥
2.3.84 · p. 389
अनुष्टुप्
केदारश्चन्दिलो भीमो भैरवो गजदैत्यभित् ।शितिकण्ठो गुडाकेशः श्रीकण्ठः पांशुचन्दनः ॥ ८५ ॥
2.3.85 · p. 389
अनुष्टुप्
कटप्रूर्मिहिराणः स्याच्छिपिविष्टः कपालभृत् ।वामदेवो जगद्योनिरुड्डीशो धूर्जटिर्हरः ॥ ८६ ॥
2.3.86 · p. 389
अनुष्टुप्
महादेवः कङ्कटीकः कूटकृच्चाब्दवाहनः ।बहुरूपो देवमणिर्दिगम्बरवृषाकपी ॥ ८७ ॥
2.3.87 · p. 389
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दे (wrong syllable)
कृशानुरेतः पर्यायाः स्मरपर्यायशासनः ।हिरण्यवह्न्योः पर्यायरेताः स्यान्नीललोहितः ॥ ८८ ॥
2.3.88 · p. 389
अनुष्टुप्
भवो बुद्धः कृतकरोऽक्षत उत्सर्वतोमुखः ।सुप्रसादो महाकालः स्थाणू रुद्रश्च भौतिकः ॥ ८९ ॥
2.3.89 · p. 389
अनुष्टुप्
कालञ्जर उमार्थेभ्यः पत्यर्थस्त्रिपुरान्तकः ।नरास्थिमाल्यम्बरीषः कोपवाद्यपराजितः ॥ ९० ॥
2.3.90 · p. 389
अनुष्टुप्
गङ्गाधरोऽन्धकमखपर्यायरिपुवाचकः ।वृषपर्यायकेत्वर्थो वाहनार्थः खरुर्वरः ॥ ९१ ॥
2.3.91 · p. 389
अनुष्टुप्
शवरो मन्दरमणिर्विशालाक्षोऽग्निलोचनः ।स्यात्सिताङ्गश्च समहा महाङ्गीनो महाम्बुकः ॥ ९२ ॥
2.3.92 · p. 390
अनुष्टुप्
उन्मत्तवेशो वरदो भूमिकायो दशोत्तमः ।धूर्त्तकूटो महानादः सुभगोण्डैकलोचनः ॥ ९३ ॥
2.3.93 · p. 390
अनुष्टुप्
स्त्रीदेहार्द्धोऽहिपर्यङ्को जटापर्यायवानपि ।कोलो नरार्थादाधारो जयन्तश्चापराजितः ॥ ९४ ॥
2.3.94 · p. 390
अनुष्टुप्
दिशां प्रियतमो वृद्धो योगी धूम उलन्दकः ।समुद्राद्वाहनार्थश्च सन्ध्यापर्यायनाट्यपि ॥ ९५ ॥
2.3.95 · p. 390
अनुष्टुप्
अहिर्बुध्न्यो रेरिहाणो हिबुध्नः कपिशोऽञ्जनः ।भद्राक ऊर्ध्वरेताः स्याद्भगाली च कपाल्यपि ॥ ९६ ॥
2.3.96 · p. 390
अनुष्टुप्
श्मशानसद्मा गोपालः सर्वज्ञश्च विषान्तकः ।महेशः खण्डपरशुः शिपिविष्टश्च सर्वगः ॥ ९७ ॥
2.3.97 · p. 390
अनुष्टुप्
भर्गो भर्ग्यः खण्डपर्शुर्भरुः शङ्कुर्हरिः पुनः ।शंभूः सर्वोऽपि वामः स्याद्गिरिशो नटराडपि ॥ ९८ ॥
2.3.98 · p. 390
अनुष्टुप्
नाट्यप्रियोऽस्थिपर्यायधन्वर्थोऽपि ध्रुवः स च ।एकदृक्स्यात्पञ्चमुखपर्यायोऽपि महाव्रती ॥ ९९ ॥
2.3.99 · p. 390
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्प (wrong syllable)
कङ्कटीको गुह्यगुरुरर्द्धकालो दिशांप्रियः ।बहुरूपः सुप्रसादो नवशक्तिश्च कूटकृत् ॥ १०० ॥
2.3.100 · p. 390
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 गु (wrong syllable)
स्यादष्टमूर्त्तिपर्याय एकलिङ्गं च न द्वयोः ।कपर्दोऽस्य जटाजूटोऽस्त्रियां खट्वाङ्ग इत्यपि ॥ १०१ ॥
2.3.101 · p. 391
अनुष्टुप्
शूलोऽस्त्रियां पिनाकोऽपि त्रिशूलं त्रिशिखं च षण् ।अजगावं चाजगवमजकावं तदिष्यते ॥ १०२ ॥
2.3.102 · p. 391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
तदेवाजकवं प्रेतमञ्जरी स्त्री त्रिशूलकम् ।शवपांशुलकं चाथ कावं गावं कवं गवम् ॥ १०३ ॥
2.3.103 · p. 391
अनुष्टुप्
अजाद्धनुः स्यादप्येवं पिनाकोऽस्त्री ततोऽप्यथ ।प्रमथाः स्युः पारिषदाः पार्षदाः स्युर्गणाश्च ते ॥ १०४ ॥
2.3.104 · p. 391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
ब्राह्मी माहेश्वरी चैन्द्रा कौमारी वैष्णवी तथा ।वाराही चण्डी चामुण्डा मातरोऽष्टावतः पराः ॥ १०५ ॥
2.3.105 · p. 391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्डी (wrong syllable)
विभूतिर्भूतिरैश्वर्यमणिमा महिमा पुनः ।गरिमा लघिमा प्राप्तिः प्राकाम्यं चेशिताऽष्टधा ॥ १०६ ॥
2.3.106 · p. 391
अनुष्टुप्
भृङ्गिरीटिर्भृङ्गिरिटिर्भृङ्गी नाड्यस्थिविग्रहः ।भृङ्गिरीटः शलोऽपि स्याद्गणानामग्रणीश्च सः ॥ १०७ ॥
2.3.107 · p. 391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्भृ (wrong syllable)
वृषश्चापि शलो दक्षो महाभैरवभैरवौ ।महाकालः पुनर्वाणो लूनबाहुर्वृषाणकः ॥ १०८ ॥
2.3.108 · p. 391
अनुष्टुप्
वीरभद्रस्तु हीराजो हेलकस्तु कृतालकः ।अथ चण्डो महाचण्डः कुशाण्डी कङ्कणप्रियः ॥ १०९ ॥
2.3.109 · p. 391
अनुष्टुप्
यजनो मज्जनश्चापि छागमेषौ महाघसः ।महाकपाल आलातः सन्तापनविलापनौ ॥ ११० ॥
2.3.110 · p. 392
अनुष्टुप्
महाकपोलः पैलोऽजः श्वेतकर्णः खरस्तथा ।उल्कामाली महालम्भः श्वेतपादः खरांशुकः ॥ १११ ॥
2.3.111 · p. 392
अनुष्टुप्
गोपालो ग्रामणीर्मायुर्घण्टाकर्णकरन्धमौ ।कपाली कृतकी लिम्पः स्थूणः कर्णविकर्णकौ ॥ ११२ ॥
2.3.112 · p. 392
अनुष्टुप्
स्थूलकर्णो महाशीर्षो हस्तिकर्णः प्रतर्दनः ।व्यालजिह्वो धर्मधनः संहारः क्षेमकोऽपरः ॥ ११३ ॥
2.3.113 · p. 392
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
भीमको ग्रामकः स्विन्नो धीलण्डो मकराननः ।पिशिताशी महाकुण्डो नखारिरहिलोचनः ॥ ११४ ॥
2.3.114 · p. 392
अनुष्टुप्
क्षणकुन्थोऽप्रजातारिर्बकारिश्च शिवङ्करः ।विप्लावो लोमवेतालस्तामसः सुमहाकपिः ॥ ११५ ॥
2.3.115 · p. 392
अनुष्टुप्
उत्तुङ्गो हेमजम्बूकः कण्डानककलानकौ ।चर्मग्रीवो जलोन्मादो ज्वालावक्त्रो विहुण्डनः ॥ ११६ ॥
2.3.116 · p. 392
अनुष्टुप्
हृदयो वर्त्तुलः पाण्डुर्भुडिरित्येवमादयः ।नन्दिस्तु नन्दी शालङ्कायनिस्ताण्डवनालिकः ॥ ११७ ॥
2.3.117 · p. 392
अनुष्टुप्
तण्डुर्नन्दीश्वरः केलिकिलः कूष्माण्डको गणः ।मञ्जुवक्त्रो मञ्जुघोषो मञ्जुश्रीर्ज्ञानदर्पणः ॥ ११८ ॥
2.3.118 · p. 392
अनुष्टुप्
स्थिरचक्रो वज्रधरः कुमारोऽष्टारचक्रवान् ।नीलोपली महारञ्जी प्रज्ञाकायश्च वादिराट् ॥ ११९ ॥
2.3.119 · p. 393
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
धियां पतिश्च खड्गी च नीलशार्दूलवाहनः ।दण्डी बालव्रतः पञ्चवीरो वागीश्वरः शिखी ॥ १२० ॥
2.3.120 · p. 393
अनुष्टुप्