महोदरी
mahodarīस्त्री · fem.In 5 kośas: 4 synonym verses, 1 as a nānārtha head word, 3 as a meaning of another word.
संक्रान्तिध्रुवतारकेषु गदिता मन्दाथ मन्दाकिनीमृद्वीषूडुषु राक्षसी तु कथिता क्रूरेषु घोराः पुनः ।स्यादुग्रेषु महोदरीषु चरभे ध्वाङ्क्षी त्वसौ क्षिप्रभेमिश्रेषूडुषु मिश्रितेषु गदितास्ताः सप्तभेदा बुधैः ॥ ११२ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कष्ठिका समराह्वा च समाङ्गा च महोदरी ।महाबलायां बलिका पुष्पिका पीतपुष्पिका ॥ २६१ ॥
अनुष्टुप्
genderस्त्रीfem.
कुटन्नटं दाशपुरं गोनर्दं जलमुस्तके ।केवर्तीमुस्तकं गुन्द्रा दरारोहा महोदरी ॥ ६७५ ॥
अनुष्टुप्
genderस्त्रीfem.
कैवर्ती मुस्तकेत्वासौ गुन्द्रायां भद्रमुस्तकः ।महोदरी वरारोहा नादेयी वलयो वरम् ॥ १९९ ॥
अनुष्टुप्
genderस्त्रीfem.
तालसंज्ञद्रुमेऽत्रापि समासादिकमुन्नयेत् ।महोदरी तु स्त्री मुस्तभेदे नादेयिकाह्वये ॥ ४६८ ॥
अनुष्टुप्
meaningsनादेयिका
महोदरी as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप नादेयीनदीभवादौ स्त्री तु स्यान्नादेयी जलवेतसे । कर्कर्यां भूमिजम्ब्वां च महोदर्याख्यमुस्तके ॥ १००७ ॥ Nānārthārṇavasaṃkṣepa 4.1007
- नानार्थार्णवसंक्षेप वरारोहावरस्त्रियां वरारोहा महोदर्याख्यमुस्तके । मल्लिकाया विशेषे च देवमल्लीति विश्रुते ॥ ४९ ॥ Nānārthārṇavasaṃkṣepa 6.49
- नानार्थार्णवसंक्षेप वरारोहामल्लिकाया विशेषे च देवमल्लीति विश्रुते । महोदरीसमाख्ये च मुस्ताभेदेऽत्र पूर्ववत् ॥ ५३७ ॥ Nānārthārṇavasaṃkṣepa 6.537