All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
चतुरक्षरकाण्डः (7/9)
एकभेदेऽथ ना झाटे शोथशत्रुरिति श्रुते ।क्लीबं तु रक्तपद्मे स्यात् समासाद्यत्र पूर्ववत् ॥ ४५५ ॥
6.455 · p. 65
अनुष्टुप्
महाकायो गजे द्वे स्यात् समासाद्यत्र पूर्ववत् ।महाग्रीवो द्वयोरुष्टे समासाद्यत्र पूर्ववत् ॥ ४५६ ॥
6.456 · p. 65
अनुष्टुप्
महामुखो द्वयोर्नक्रे समासाद्यत्र पूर्ववत् ।महाशल्को द्वयोर्मत्स्यभेद एत्थालसंज्ञके ॥ ४५७ ॥
6.457 · p. 65
अनुष्टुप्
स्त्रियां तु स्यान्महाशल्का देविकासंज्ञके भवेत् ।मातुलुङ्गप्रभेदे च समासाद्यत्र पूर्ववत् ॥ ४५८ ॥
6.458 · p. 65
अनुष्टुप्
महावेगः कपौ द्वे स्यात् समासाद्यत्र पूर्ववत् ।महानादो द्वयोः सिंहे गजे चात्रापि पूर्ववत् ॥ ४५९ ॥
6.459 · p. 65
अनुष्टुप्
महादंष्ट्रो द्वयोर्व्याघ्रभेदे चित्राङ्गसंज्ञके ।अत्रापि पूर्ववत् सादि महापक्षः पुनर्द्वयोः ॥ ४६० ॥
6.460 · p. 65
अनुष्टुप्
कारण्डवाख्यविहगे समासाद्यत्र पूर्ववत् ।महारसा तु स्त्री द्रोणपुष्पीसंज्ञौषधौ तथा ॥ ४६१ ॥
6.461 · p. 66
अनुष्टुप्
नीलीनाम्नि च ना त्विक्षौ खर्जूराख्ये च पादपे ।अत्रापि पूर्ववत् सादि माषपर्ण्यां महासहा ॥ ४६२ ॥
6.462 · p. 66
अनुष्टुप्
अम्लानसंज्ञझाटे च स्त्री समासादि पूर्ववत् ।महाफला स्त्री कूश्माण्डे महाजम्व्वां च पूर्ववत् ॥ ४६३ ॥
6.463 · p. 66
अनुष्टुप्
महाश्वेता स्त्रियां क्षीरविदार्यां या तु वल्लिका ।गिरिकर्णीति विख्याता नीलायां तत्र किं च सा ॥ ४६४ ॥
6.464 · p. 66
अनुष्टुप्
कण्टकिव्रततीभेदेऽप्यत्राप्यर्थादि पूर्ववत् ।महाबुसस्तु ना धान्ये हायनाख्ये यवे च ना ॥ ४६५ ॥
6.465 · p. 66
अनुष्टुप्
अत्रापि पूर्ववत् सादि महाकन्दं पुनर्नपि ।शुण्ठ्यां पुंशण्डयोस्तु स्याल्लशुनेऽर्थादि पूर्ववत् ॥ ४६६ ॥
6.466 · p. 66
अनुष्टुप्
महाजानी स्त्रियां पीते घोषसंज्ञे लतान्तरे ।अत्रापि पूर्ववत् सादि महापत्रः पुनः पुमान् ॥ ४६७ ॥
6.467 · p. 66
अनुष्टुप्
तालसंज्ञद्रुमेऽत्रापि समासादिकमुन्नयेत् ।महोदरी तु स्त्री मुस्तभेदे नादेयिकाह्वये ॥ ४६८ ॥
6.468 · p. 66
अनुष्टुप्
रावणस्य त्वमात्ये ना क्ली तूदररुजान्तरे ।अत्रापि पूर्ववत् सादि क्लीबे तु स्यान्महौषधम् ॥ ४६९ ॥
6.469 · p. 66
अनुष्टुप्
शुण्ठ्यामतिविषायां च लशुने चाथ पुन्नपोः ।औषधे महति स्यात् तु दशस्वपि पलण्डुषु ॥ ४७० ॥
6.470 · p. 66
अनुष्टुप्
अन्यस्मिन्नेव लशुनादेकत्राथ महाधनम् ।युद्धे क्ली पूर्ववत् सादि पुमांस्तु स्यान्महालयः ॥ ४७१ ॥
6.471 · p. 66
अनुष्टुप्
ईश्वरस्थानभेदे च विहारे परमात्मनि ।अत्रापि पूर्ववत् सादि न तु ना स्यान्महोदया ॥ ४७२ ॥
6.472 · p. 66
अनुष्टुप्
कन्याकुब्जाख्यनगरे कन्यायां तु स्त्रियामियम् ।प्रौढायां किञ्चिदत्रापि समासादिकमुन्नयेत् ॥ ४७३ ॥
6.473 · p. 67
अनुष्टुप्
महत्तरी तु स्त्री राज्ञो या वृद्धा परिचारिका ।आशीःस्वस्त्ययनाभिज्ञा तस्यां त्रिस्तु बृहत्तरे ॥ ४७४ ॥
6.474 · p. 67
अनुष्टुप्
पुमान् मधुरिकः प्रोक्तो जीवकाह्वयभेषजे ।शालेयाख्ये शीतशिवे स्त्रियां मधुरिका मता ॥ ४७५ ॥
6.475 · p. 67
अनुष्टुप्
मधूलकस्तु गिरिजे मधूकास्टयतरौ पुमान् ।मधूकपुष्पविहितसुरायां तु मधूलिका ॥ ४७६ ॥
6.476 · p. 67
अनुष्टुप्metre not read in every lineimpossible sibilant cluster: मधूकास्टयतरौnearly अनुष्टुप्
स्त्री मूर्वायां च कश्चित् तु ता यष्टिमधुकेऽभ्यधात् ।मधुच्छदस्तु ना वृक्षे विकङ्कत इति श्रुते ॥ ४७७ ॥
6.477 · p. 67
अनुष्टुप्
अत्रापि पूर्ववत् सादि स्त्रियां तु स्यान्मधुव्रता ।इत्याहुः श्वेतगुञ्जायां ना फलाध्यक्षपादपे ॥ ४७८ ॥
6.478 · p. 67
अनुष्टुप्
अत्रापि पूर्ववत् सादि पुल्लिँङ्गस्तु मयूरकः ।फणिर्जकविशेषे स्यात् सुगन्धौ यस्य चापरम् ॥ ४७९ ॥
6.479 · p. 67
अनुष्टुप्
मञ्जीरक इति प्राहुर्नामधेयं विचक्षणाः ।अपामार्गे च नप् तु स्यात् तुत्थाञ्जनमिति श्रुते ॥ ४८० ॥
6.480 · p. 67
अनुष्टुप्
अञ्जने मदमत्तस्तु धुर्धूरेऽस्त्री पुरे पुमान् ।मदेन मत्ते त्रि स्त्री तु मदयन्ती प्रकीर्तिता ॥ ४८१ ॥
6.481 · p. 67
अनुष्टुप्
मल्लिकायां त्रिषु त्वेष मदयन्तः प्रयोजके ।मद्रीत्यां (?) मण्डयन्तस्तु पुमानादर्श ओदने ॥ ४८२ ॥
6.482 · p. 67
अनुष्टुप्
त्रिस्तु प्रसाधके वित्तपालेऽप्यर्थमयेऽत्र च ।स्त्र्यर्थे स्यान्मण्डयन्तीति मण्डलाग्रः पुनर्नरि ॥ ४८३ ॥
6.483 · p. 67
अनुष्टुप्
खड्गे खड्गविशेषे तु यादवो(र ? ऽन्व)र्थनामतः ।अत्रापि पूर्ववत् सादि मस्तुलुङ्गस्तु पुन्नपोः ॥ ४८४ ॥
6.484 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिरःस्नेहे नपि त्वेतद् दधिमण्डेऽथ पुंसि सः ।मर्मरीकोऽनले शूरे द्वे तु श्येनेऽथ सा स्त्रियाम् ॥ ४८५ ॥
6.485 · p. 68
अनुष्टुप्
मनोजवाग्निजिह्वासु सप्तखेकत्र तत् पुनः ।पितृधर्मणि पुत्रे द्वे समासाद्यत्र पूर्ववत् ॥ ४८६ ॥
6.486 · p. 68
अनुष्टुप्
मनोहरा तु पिप्पल्यां स्त्री मनोहारिणि त्रिषु ।मदोत्कटस्तु द्वे पारावतसंज्ञविहङ्गमे ॥ ४८७ ॥
6.487 · p. 68
अनुष्टुप्
मदोत्कटा तु पार्वत्यां स्त्री चैत्ररथनामनि ।महेश्वरालये या स्याद् वास्तव्या तत्र तत् पुनः ॥ ४८८ ॥
6.488 · p. 68
अनुष्टुप्
मदोद्धते त्रिषु मदकलस्तु द्विरदे पुमान् ।मदोत्कटे समासादि पूर्ववत् स्याद्द्वयोः पुनः ॥ ४८९ ॥
6.489 · p. 68
अनुष्टुप्
मल्लिकाक्षः सितैर्नेत्रैर्युक्ते ज्ञेयस्तुरङ्गमे ।हंसे च चञ्चुचरणैर्मल्लिकैरुपलक्षिते ॥ ४९० ॥
6.490 · p. 68
अनुष्टुप्
मलिम्लुचस्तु पुंस्यक्तोऽधिकमासे मनीषिभिः ।गृहस्थेऽपञ्चयज्ञे च तस्करे तु त्रिषु स्मृतः ॥ ४९१ ॥
6.491 · p. 68
अनुष्टुप्
मशके शाबके च द्वे चातके रजकेऽपि च ।मञ्जुघोषाप्सरोभेदे समासाद्यत्र पूर्ववत् ॥ ४९२ ॥
6.492 · p. 68
अनुष्टुप्
मन्दसानस्तु नार्केऽग्नौ चन्द्रे जीवेऽप्यथ द्वयोः ।हंसे महीपतिस्तु स्यान्नृपे भव्याख्यपादपे ॥ ४९३ ॥
6.493 · p. 68
अनुष्टुप्
नात्रापि पूर्ववत् सादि महानर्मा पुनर्द्वयोः ।मर्त्यजात्यन्तरे चार्याक्षत्त्रजे सादि पूर्ववत् ॥ ४९४ ॥
6.494 · p. 68
अनुष्टुप्
महापक्षी पुनर्द्वे स्यादुलूके सादि पूर्ववत् ।मातामहस्तु ना मातुस्ताते मातुस्तु भूम्नि च ॥ ४९५ ॥
6.495 · p. 69
अनुष्टुप्
पूर्वजातेषु वंश्येषु स्यात् तु मातामही स्त्रियाम् ।मातुर्जनन्यामथ ना हारे षोडशयष्टिके ॥ ४९६ ॥
6.496 · p. 69
अनुष्टुप्
भवेन्माणवको द्वे तु बाले तत्र यदा स्त्रियाम् ।तदा माणविका गर्ह्यपुरुषेऽथ नृलिङ्गकः ॥ ४९७ ॥
6.497 · p. 69
अनुष्टुप्
मार्जालीयो भवेदङ्गशोधने धौतिदेशके ।ओतौ तु द्वे चारुणि त्रिर्मार्गशीर्षी पुनः स्त्रियाम् ॥ ४९८ ॥
6.498 · p. 69
अनुष्टुप्
मृगशीर्षभयुक्तायां पौर्णमास्यां पुमान् पुनः ।तद्युक्तमासे ना तु स्यान्मातुलुङ्गः सुविश्रुते ॥ ४९९ ॥
6.499 · p. 69
अनुष्टुप्
रुचकादिपदैर्गुल्मे फलार्थे स्त्री त्वमुष्य वै ।भेदेऽत्यम्लफले मातुलुङ्गी क्ली तु फले तयोः ॥ ५०० ॥
6.500 · p. 69
अनुष्टुप्
मित्रविन्दा स्त्रियामिष्टिविशेषे यज्चविश्रुते ।कृष्णप्रधानपत्नीनां सप्तानामेकयोषिति ॥ ५०१ ॥
6.501 · p. 69
अनुष्टुप्
पुल्लिँङ्गस्त्वृषिभेदेऽसौ कोहलस्य मुनेः सुते ।मुमुचानस्तु ना मेघे त्रि तु मोक्तरि केचन ॥ ५०२ ॥
6.502 · p. 69
अनुष्टुप्
मुमुक्षितरि तु स्मान्ये पुल्लिँङ्गस्तु मुनिप्रियः ।श्यामाके पूर्ववत् सादि मुचुकुन्दस्तु कुत्रचित् ॥ ५०३ ॥
6.503 · p. 69
अनुष्टुप्
पूर्वस्मिन् क्षत्त्रिये पुष्पवृक्षभेदेऽपि नप् पुनः ।तस्य प्रसूनयोरत्र लिङ्गाद्यं पूर्ववत् स्मरेत् ॥ ५०४ ॥
6.504 · p. 69
अनुष्टुप्
मृगशीर्षं पुनः क्लीबं नक्षत्रे सोमदेवते ।पूर्ववत् स्यात् समासादि द्वयोस्तु स्यान्मृगादनः ॥ ५०५ ॥
6.505 · p. 69
अनुष्टुप्
तरक्षौ पूर्ववत् सादि मृगाजीवः पुनर्द्वयोः ।तरक्षौ पूर्ववत् सादि मृदुरोमा शशे द्वयोः ॥ ५०६ ॥
6.506 · p. 69
अनुष्टुप्
अत्रापि पूर्ववत् सादि क्लीबे मृगशिरो भवेत् ।मृगशीर्षाख्यनक्षत्रे तत्र जाते त्रिषु स्मृतम् ॥ ५०७ ॥
6.507 · p. 70
अनुष्टुप्
अत्रापि पूर्ववत् सादि मेषशृङ्गस्तु पुन्नयोः ।विषभेदे स्त्री तु मेषशृङ्गी वृक्षान्तरे स्मृता ॥ ५०८ ॥
6.508 · p. 70
अनुष्टुप्
अत्रापि पूर्ववत् सादि म्लेच्छभोज्यः पुनः पुमान् ।गोधूमधान्ये लिङ्गं च समासोऽर्थश्च पूर्ववत् ॥ ५०९ ॥
6.509 · p. 70
अनुष्टुप्
मेघनादस्तु पुल्लिँङ्ग इन्द्रजित्तण्डुलीययोः ।मेघघोषेऽप्ययं तु स्यादाखुजात्यन्तरे द्वयोः ॥ ५१० ॥
6.510 · p. 70
अनुष्टुप्
द्वे तु मैथुनिकः म्याले स्यात् पाणिग्रहणे पुनः ।स्त्रीलिङ्गा स्यान्मैथुनिका त्रि तु मैथुनवत्यसौ ॥ ५११ ॥
6.511 · p. 70
अनुष्टुप्
अथो यवफलो वेणौ कुटजाख्यद्रुमे च ना ।अत्रापि पूर्ववत् सादि पुमांस्तु स्याद्यथासुखः ॥ ५१२ ॥
6.512 · p. 70
अनुष्टुप्
चन्द्रेऽत्र पूर्ववत् सादि यवनेष्टस्तु पुंस्ययम् ।पलाण्डुभेदेषु दशखेकभेदेऽत्र पूर्ववत् ॥ ५१३ ॥
6.513 · p. 70
अनुष्टुप्
युयुधानस्तु कस्मिंश्चिद् राज्ञि पुंसि त्रिषु त्वयम् ।ज्ञेयः साहसिके योद्धर्यन्येऽन्ये तु युयुत्सके ॥ ५१४ ॥
6.514 · p. 70
अनुष्टुप्
युगन्धरस्तु नृनपोर्ज्ञेयः स्यन्दनकूवरे ।पुम्भूम्नि तु क्वचित् साल्वावयवे स्यात् स्त्रियां पुनः ॥ ५१५ ॥
6.515 · p. 70
अनुष्टुप्
रक्तदन्तीति पार्वत्यां समासाद्यत्र पूर्ववत् ।रक्तपुष्पस्तु ना कोविदारेऽप्यसनपादपे ॥ ५१६ ॥
6.516 · p. 70
अनुष्टुप्
अत्रापि पूर्ववत् साद्यमथ रक्तफला स्त्रियाम् ।बिम्बीसंज्ञलताजातौ समासाद्यत्र पूर्ववत् ॥ ५१७ ॥
6.517 · p. 70
अनुष्टुप्
रक्तशीर्षस्तु निर्यासे श्रीपिष्टाख्ये पुमानथ ।पूर्ववत् स्यात् समासादि रक्तपुष्पी पुनः स्त्रियाम् ॥ ५१८ ॥
6.518 · p. 70
अनुष्टुप्
ब्राह्मणीसंज्ञके कीटभेदे साद्यत्र पूर्ववत् ।वर्धकौ रथकारस्त्रिर्मर्त्यजात्यन्तरे द्वयोः ॥ ५१९ ॥
6.519 · p. 71
अनुष्टुप्
जाते करण्यां माहिष्यात समासाद्यत्र पूर्ववत् ।रङ्गाजीवश्चित्रकरे त्रिः समासादि पूर्ववत् ॥ ५२० ॥
6.520 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रत्नगर्भा तु भूमौ स्त्री ना तु वैश्रवणे मतः ।पूर्ववत् स्यात् समासादि द्वयोस्तु स्याद्रजस्वलः ॥ ५२१ ॥
6.521 · p. 71
अनुष्टुप्
महिषे स्यादुदक्यायां स्त्रियामेव रजस्वला ।रजस्वति तु तत् त्रि स्याद् रजःपूता तु सा स्त्रियाम् ॥ ५२२ ॥
6.522 · p. 71
अनुष्टुप्
सुरस्यां पूर्ववत् सादि रक्तदृष्टिः पुनर्द्वयोः ।पारावते समासादि पूर्ववन्नृनपोः पुनः ॥ ५२३ ॥
6.523 · p. 71
अनुष्टुप्
राजादनः फलाध्यक्षसंज्ञके पादपान्तरे ।ना पलाशद्रुमे क्ली तु प्रियालाह्वयपादपे ॥ ५२४ ॥
6.524 · p. 71
अनुष्टुप्
पूर्ववत् साद्यथो राजपुत्री स्त्री मूषिकान्तरे ।चुच्छुन्दरीति विख्याते मालत्यामपि केचन ॥ ५२५ ॥
6.525 · p. 71
अनुष्टुप्
तिक्तालाब्वां च लिङ्गादि पूर्ववद्द्वे तु राक्षसे ।भवेद्रात्रिचरस्त्रिस्तु रात्रिचारिणि तत्र च ॥ ५२६ ॥
6.526 · p. 71
अनुष्टुप्
स्त्र्यर्थे रात्रिचरीति स्याद् रूक्षणीयस्तु शीथुनि ।ना स्त्री गवीथुकायां स्यात् त्रिस्तु रूक्षयितव्यके ॥ ५२७ ॥
6.527 · p. 71
अनुष्टुप्
स्याद्रूक्षणहिते चाथ ज्ञेयो रूक्षस्वरो द्वयोः ।गर्दभे पूर्ववत् सादि रौहिणेयस्तु ना बुधे ॥ ५२८ ॥
6.528 · p. 71
अनुष्टुप्
बलभद्रे च रोहिण्यास्त्वपत्ये स्याद्द्वयोरयम् ।लक्ष्मीपुत्रो द्वयोरश्वे लक्ष्म्याः पुत्रे च स त्रि तु ॥ ५२९ ॥
6.529 · p. 71
अनुष्टुप्
आढ्येऽथ लब्धवर्णस्त्रिः पण्डिते सादि पूर्ववत् ।लम्बोदरस्तु ना विघ्नराजे लिङ्गादि पूर्ववत् ॥ ५३० ॥
6.530 · p. 72
अनुष्टुप्
लम्बकर्णो द्वयोश्छागे समासाद्यत्र पूर्ववत् ।लेलिहानो द्वयोः सर्पे यस्तु लेढा मुहुर्भृशम् ॥ ५३१ ॥
6.531 · p. 72
अनुष्टुप्
तत्र त्रिष्वथ शण्डे स्यात् पद्मरागाह्वये मणौ ।ज्ञेयं लोहितकं त्रिस्तु रक्तेऽर्थे कोपनादिमिः ॥ ५३२ ॥
6.532 · p. 72
अनुष्टुप्
तत्राप्यर्थो यदा स्त्री स्यात् तदा रूपद्वयं विदुः ।लोहितिका लोहिनिकेत्यथ द्वे लोहिताक्षवाक् ॥ ५३३ ॥
6.533 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 हि (wrong syllable)
त्रयोदशानामेकस्मिन् राजिलाह्वयभागिनाम् ।पूर्ववत् स्यात् समासादि वर्धमानस्तु पुन्नपोः ॥ ५३४ ॥
6.534 · p. 72
अनुष्टुप्
शरावे स्यात् तु पुल्लिँङ्ग एरण्डे नृपवेश्मनाम् ।विच्छन्दकप्रभेदे चाप्येधमाने पुनस्त्रिषु ॥ ५३५ ॥
6.535 · p. 72
अनुष्टुप्
अथ वह्निमुखं क्लीबं कुसुम्भे सादि पूर्ववत् ।वरारोहा स्त्रियामुक्ता पण्डितैरुत्तमस्त्रियाम् ॥ ५३६ ॥
6.536 · p. 72
अनुष्टुप्
मल्लिकाया विशेषे च देवमल्लीति विश्रुते ।महोदरीसमाख्ये च मुस्ताभेदेऽत्र पूर्ववत् ॥ ५३७ ॥
6.537 · p. 72
अनुष्टुप्
वराङ्गना तु स्त्री तालीसमाख्ये स्यात् तृणद्रुमे ।पूर्ववत् स्यात् समासादि पुमांस्तु स्याद्वराणकः ॥ ५३८ ॥
6.538 · p. 72
अनुष्टुप्
वात्स्यायने द्वयोस्तु स्यात् तीवरीडोम्बयोः सुते ।मर्त्यजात्यन्तरेऽथ स्यादगस्त्यस्य वरप्रदा ॥ ५३९ ॥
6.539 · p. 72
अनुष्टुप्
लोपामुद्राख्यभार्यायां स्त्रियां ना तु विरिञ्चने ।वलीमुखः कपौ द्वे स्याद् दधिभेदे तु नप्यदः ॥ ५४० ॥
6.540 · p. 72
अनुष्टुप्
गाढास्याख्ये वराहे तु वक्रदंष्ट्रो द्वयोर्मतः ।अत्रापि पूर्ववत् सादि द्वयोस्तु स्याद्वनप्रियः ॥ ५४१ ॥
6.541 · p. 72
अनुष्टुप्
कोकिले पूर्ववत् सादि वंशवर्णः पुनः पुमान् ।चणकाह्वयधान्येऽत्र समासादीनि पूर्ववत् ॥ ५४२ ॥
6.542 · p. 73
अनुष्टुप्
वंशपत्त्रं पुनः क्लीबं हरितालेऽत्र पूर्ववत् ।वलाहकस्तु ना मेघे गिरौ वायौ च शार्ङ्गिणिः ॥ ५४३ ॥
6.543 · p. 73
अनुष्टुप्
चतुर्णामपि चाश्वानामेकस्मिन् स्याद्द्वयोः पुनः ।दर्वीकराख्यसर्पाणां भेदै षड्विंशतेः क्वचित् ॥ ५४४ ॥
6.544 · p. 73
अनुष्टुप्
कृष्णसर्प इति ख्याते निर्विषद्वादशस्वपि ।एकभेदे स्त्रियां तु स्यादायुधीयजनश्रुते ॥ ५४५ ॥
6.545 · p. 73
अनुष्टुप्
अन्तर्लोहेन बद्धान्ते फलके स्याद्वलाहका ।वर्वरीका सरस्वत्यां स्त्री द्वयोस्तु पतत्त्रिणि ॥ ५४६ ॥
6.546 · p. 73
अनुष्टुप्
उरणे केशसंस्थानभेदे क्ली त्रि तु कश्चन ।ब्रूते वचनकारेऽथ पुमान् वरयिता धवे ॥ ५४७ ॥
6.547 · p. 73
अनुष्टुप्
त्रिः स्याद्वरयतेः कर्तर्यथ त्रिर्वनवस्तरि ।वनवासी पुमांस्त्वेष वानप्रस्थेऽथ वै त्रिषु ॥ ५४८ ॥
6.548 · p. 73
अनुष्टुप्
वशवर्तनशीले स्याद् वशवर्ती स्त्रियां पुनः ।कस्मिंश्चिदोषधीभेदे विज्ञेया वशवर्तिनी ॥ ५४९ ॥
6.549 · p. 73
अनुष्टुप्
वासतेयी तु रात्र्यां स्त्री साधौ तु वसतौ त्रिषु ।वासुदेवस्तु ना विष्णौ द्वयोस्तु स्यात् तुरङ्गमे ॥ ५५० ॥
6.550 · p. 73
अनुष्टुप्
वारवाणस्तु नृनपोः कञ्चुके कवचेऽपि च ।वालवायः पुमाञ्छैलविशेषे भेद्यवत् पुनः ॥ ५५१ ॥
6.551 · p. 73
अनुष्टुप्
वालैः कार्यस्य वस्त्रस्य यः कर्ता तत्र कीर्तितः ।वाडबेयस्तु वृषभे पुमान् स्यादश्विनोरपि ॥ ५५२ ॥
6.552 · p. 73
अनुष्टुप्
द्वे तु विप्रेऽथ ना वानप्रस्थो वैखानसे तथा ।मधूकवृक्षे वृक्षे च पलाशाख्ये तयोस्तु नप् ॥ ५५३ ॥
6.553 · p. 74
अनुष्टुप्
प्रसूने वार्ध्राणसस्तु द्वयोः खड्गमृगे तथा ।कृष्णग्रीवे रक्तशीर्षे श्वेतपक्षे विहङ्गमे ॥ ५५४ ॥
6.554 · p. 74
अनुष्टुप्
त्रि वि + त्विन्द्रियक्षीणे श्वेते चाज्ञापतौ पुमान् (?) ।व्याघ्रनखं तु क्लीबं स्याद् व्यालायुधमिति श्रुते ॥ ५५५ ॥
6.555 · p. 74
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 2 घ्र (wrong syllable)
भेषजे नृनपोस्तु स्याद् व्याघ्रस्य नखरेऽथ ना ।एरण्डे व्याघ्रपुच्छः स्यात् पुच्छे व्याघ्रस्य पुन्नपोः ॥ ५५६ ॥
6.556 · p. 74
अनुष्टुप्
व्यापादना तु न पुमान् वधे द्रोहस्य चिन्तने ।वासनीयं तु शण्डे स्यात् कुङ्कुमे भेद्यवत् पुनः ॥ ५५७ ॥
6.557 · p. 74
अनुष्टुप्
ज्ञेयो वासयितव्यादौ वेश्याचार्ये पुनः पुमान् ।ज्ञेयो वातसुतोऽत्रापि समासादीनि पूर्ववत् ॥ ५५८ ॥
6.558 · p. 74
अनुष्टुप्
वारिपिण्डस्तु मण्डूके द्वयोः पाषाणगर्भजे ।अत्रापि पूर्ववत् सादि द्वे तु वातप्रमीर्हये ॥ ५५९ ॥
6.559 · p. 74
अनुष्टुप्
स्याच्च वातमृगे स्त्री तु वात्यायामथ पक्षिणि ।वातगामी द्वयोर्ज्ञेयो वातयायिनि तु त्रिषु ॥ ५६० ॥
6.560 · p. 74
अनुष्टुप्
विश्वम्भरा पृथिव्यां स्त्री ना तु विष्णौ हुताशने ।विश्वरूपो महादेवे वासुदेवे बृहस्पतौ ॥ ५६१ ॥
6.561 · p. 74
अनुष्टुप्
अश्वे त्वाष्ट्रासुरे चापि ना स्त्री तु सुरभावियम् ।विश्वरूपा स्त्रियां भूम्नि गायत्राह्वयसामनि ॥ ५६२ ॥
6.562 · p. 74
अनुष्टुप्
त्रिरभ्यासेन गीते (च) न्यु जे वाचंशतेत्यृचि (?) ।अत्रापि पूर्ववत् सादि ज्ञेयं विष्णुपदं पुनः ॥ ५६३ ॥
6.563 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुण्यस्थानविशेषे चाप्याकाशे च स्त्रियां पुनः ।गङ्गायां स्याद्विष्णुपदी रविसङ्क्रमणेषु तु ॥ ५६४ ॥
6.564 · p. 75
अनुष्टुप्
वृषवृश्चिककुम्भेषु सिंहे च स्त्रीनपुंसकम् ।सादि पूर्ववदत्रापि विष्णुकान्ता पुनः स्त्रियाम् ॥ ५६५ ॥
6.565 · p. 75
अनुष्टुप्
गिरिकर्ण्यां तृणस्तम्बे सुमुखीति च विश्रुते ।अत्रापि पूर्ववत् सादि विष्णुगुप्तस्तु पुंस्ययम् ॥ ५६६ ॥
6.566 · p. 75
अनुष्टुप्
कौटल्याख्यमहाप्राज्ञे समासाद्यत्र पूर्ववत् ।विष्वक्सेना फलिन्यां स्त्री ना तु नारायणेऽत्र च ॥ ५६७ ॥
6.567 · p. 75
अनुष्टुप्
पूर्ववत् स्यात् समासादि विजिज्ञासा पुनः स्त्रियाम् ।मीमांसने समासादि पूर्ववत् संशये पुनः ॥ ५६८ ॥
6.568 · p. 75
अनुष्टुप्
विचिकित्सा समासादि पूर्ववत् स्त्री विचक्षणा ।कृष्णशिम्बौ पण्डिते तु त्रिर्ना तु न विदारणा ॥ ५६९ ॥
6.569 · p. 75
अनुष्टुप्
भेदे विडम्बने चाथ स्त्रियामुक्ता विभागिनी ।सप्तलासंज्ञके पुष्पवल्लिभेदेऽथ नो पुमान् ॥ ५७० ॥
6.570 · p. 75
अनुष्टुप्
विभावना साधनायामुपलब्धौ च पूर्ववत् ।विभाजनस्तु पुल्लिँङ्गो देवमारिषसंज्ञके ॥ ५७१ ॥
6.571 · p. 75
अनुष्टुप्
शाकजातिविशेषस्य भेदे मारिषसंज्ञिनः ।विभागहेतुव्यापारे पुनर्ना न विभाजना ॥ ५७२ ॥
6.572 · p. 75
अनुष्टुप्
अत्रापि पूर्ववत् साद्यमथो विशसनः पुमान् ।खड्गे क्लीबं तु हिंसायां नृनपोस्तु विशेषकम् ॥ ५७३ ॥
6.573 · p. 75
अनुष्टुप्