कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

चतुरक्षरकाण्डः (1/9)

॥ श्रीः ॥

राजराजीयापरनामा

नानार्थार्णवसंक्षेपः

केशवस्वामिप्रणीतः

स्त्रीलिङ्गाध्यायः

अथ प्रस्तूयते काण्डं नाम्नां चतुरचामिदम् ।तत्रापि तावत् स्त्रीलिङ्गशब्दाध्यायः प्रदर्श्यते ॥ १ ॥
6.1 · p. 1
अनुष्टुप्
अक्षमाला स्त्रियां विद्यादरुन्धत्यां तथापि च ।जपसङ्ख्यापरिच्छित्त्यै रुद्राक्षस्फटिकादिभिः ॥ २ ॥
6.2 · p. 1
अनुष्टुप्
सूत्रस्यूतैः कृते चापि वलयेऽथ निबोधत ।अजमोदा यवानीति प्रसिद्धे भेषजान्तरे ॥ ३ ॥
6.3 · p. 1
अनुष्टुप्
शल्मलेरपि निर्यासेऽथान्तशय्या श्मशानके ।तथैव भूमिशय्यायामथो अपचितिः क्षये ॥ ४ ॥
6.4 · p. 1
अनुष्टुप्
व्ययनिष्कृतिपूजासु स्यादप्येकाहयज्ञयोः ।अथ विद्यादनुमतिमनुज्ञायां तथैव च ॥ ५ ॥
6.5 · p. 1
अनुष्टुप्
पौर्णमास्यां कलाहीनचन्द्रायामजयः पुनः ।आम्ले चेति पठत्येनामभिशस्तिपदं पुनः ॥ ६ ॥
6.6 · p. 1
अनुष्टुप्
प्रार्थने चाभिशापे च वैजयन्त्यां तु पठ्यते ।दूषणे प्रार्थने चाथो अजयस्यार्धमुत्तरम् ॥ ७ ॥
6.7 · p. 1
अनुष्टुप्
अङ्कपालिः परीरम्भे पालौ धात्र्यां कटध्वनिः(?) ।इत्येवमनपालिस्तु धात्र्यां पाल्यां गदद्रुहि ॥ ८ ॥
6.8 · p. 2
अनुष्टुप्
सेनामात्रे दशांशे चाप्यक्षौहिण्या अनीकिनी ।अर्धसूची तु सूच्याः स्यादर्धे चाप्यासनान्तरे ॥ ९ ॥
6.9 · p. 2
अनुष्टुप्
तस्य लक्षण्मप्याहुरित्थमासनवेदिनः ।ऊर्ध्वज्ञोः संहतौ पाणितलौ चेदित्युपक्रमे ॥ १० ॥
6.10 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्ष (syllables merged)
अर्धसूची तु तौ द्वौ चेत् प्रादेशान्तरतो मुखात् ।इत्येवमिक्षुगन्धा तु कोकिलाक्ष इति श्रुते ॥ ११ ॥
6.11 · p. 2
अनुष्टुप्
आनूपे कण्टकिस्तम्बे विदारीकाशयोरपि ।भवेदितिकथापार्थवागश्रद्धेयवाक्ययोः ॥ १२ ॥
6.12 · p. 2
अनुष्टुप्
इरावती नदीमात्रे नदीभेदेऽप्यथोच्यते ।उपचर्या चिकित्सायां पूजायां चेति मन्वते ॥ १३ ॥
6.13 · p. 2
अनुष्टुप्
प्रजनप्राप्तकालायामुपसर्या गवि स्मृता ।व्याचष्टे कश्चिदप्येनां सामान्यजनसेवने ॥ १४ ॥
6.14 · p. 2
अनुष्टुप्
कल्लोलेऽपि तथौत्क(ण्ठे ? ण्ठ्ये) भवेदुत्कलिकाध्वनिः ।उपलब्धिस्तु शेमुष्यां प्राप्तिविज्ञानयोरपि ॥ १५ ॥
6.15 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रहस्यार्थे तूपनिषद् धर्मवेदान्तयोरपि ।रहसीत्यपरे प्राहुः प्रथमर्तौ च योषिताम् ॥ १६ ॥
6.16 · p. 2
अनुष्टुप्
ऋक्षगन्धा तु शुक्लायां विदार्यां वृद्धदारके ।छगलास्त्री(?)ति विख्यातं भैषज्यं वृद्धदारकः ॥ १७ ॥
6.17 · p. 2
अनुष्टुप्
ऋष्यप्रोक्ता शतावर्यामृद्धिसंज्ञे च भेषजे ।आत्मगुप्तातिबलयोरोषध्योश्चाथ बुध्यताम् ॥ १८ ॥
6.18 · p. 2
अनुष्टुप्
काकजङ्घा षडश्रेति प्रसिद्धस्थावरान्तरे ।गुडासमाख्यवल्ल्यां च जङ्घायां करटस्य च ॥ १९ ॥
6.19 · p. 3
अनुष्टुप्
काकनासा तु विज्ञेया काकाङ्गाख्यलतान्तरे ।वसुभट्ट इति ख्यातपुष्पस्तम्बे तथैव च ॥ २० ॥
6.20 · p. 3
अनुष्टुप्
नासिकायां (चकोरस्य ? च काकस्य) ज्ञेया कुटिलिका पुनः ।मायायामपि चाङ्गारापकर्षण्यां च शिल्पिनाम् ॥ २१ ॥
6.21 · p. 3
अनुष्टुप्metre not read in every line
कर्मारना(म ? म्नां) धान्यं तु कर्षकाणां च मृद्नताम् ।पूलोत्क्षेपणवेणौ च परिव्राजां तु भूतले ॥ २२ ॥
6.22 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ना (syllables merged)
निधानस्य निषिद्धत्वाद् दण्डानां धारणाय यत् ।स्यात् कम्बिग्रहणं तत्राप्यथ चोरजनस्य हि ॥ २३ ॥
6.23 · p. 3
अनुष्टुप्
यष्ट्यग्रप्रतिबद्धोऽन्यशरणारोहणाय यः ।लोहकर्कटकस्तत्राप्यथ विद्यात् कुनालिकाम् ॥ २४ ॥
6.24 · p. 3
अनुष्टुप्
कुत्सितायां नालिकायां शालायामपि पक्षिणाम् ।अथ गन्धफली वृक्षे प्रियङ्गुरिति विश्रुते ॥ २५ ॥
6.25 · p. 3
अनुष्टुप्
कलिकायां च सा ज्ञेया चम्पकाभिख्यशाखिनः ।गिरिकर्णीलताजातिभेदे यस्यापराजिता ॥ २६ ॥
6.26 · p. 3
अनुष्टुप्
इति संज्ञा वैजयन्त्यां त्वस्य भेदे सितेऽपठीत् ।पृथिव्यां चाथ वादित्रकोणे घर्घरिका तथा ॥ २७ ॥
6.27 · p. 3
अनुष्टुप्
वाद्यभेदेऽप्यथो तुण्डिकेरी कण्ठरुजान्तरे ।कार्पास्यामपि बिम्बीति प्रसिद्धे च लतान्तरे ॥ २८ ॥
6.28 · p. 3
अनुष्टुप्
श्रीवेष्टे तैलपर्णी स्याद् धवलेऽपि च चन्दने ।गौरीदिशोर्दक्षकन्या दीर्घवल्ली तु वेत्रके ॥ २९ ॥
6.29 · p. 3
अनुष्टुप्
लतायामपि दीर्घायां देवसेना तु सैन्यके ।देवानां षण्मुखस्यापि देव्यां देववधूः पुनः ॥ ३० ॥
6.30 · p. 3
अनुष्टुप्
दिशि देवस्य वध्वां च नागजिह्वां तु बोधत ।मनःशिलाशारिबयोर्नागस्य रसने तथा ॥ ३१ ॥
6.31 · p. 4
अनुष्टुप्
निदिग्धिका तु पठिता वैजयन्तीकृता यथा ।गिरिप्रियेति विख्यातक्षुद्रवातिङ्गिनान्तरे ॥ ३२ ॥
6.32 · p. 4
अनुष्टुप्
कण्टकार्यां च विज्ञेया प्रतिपत्तिस्तु गौरवे ।प्राप्तौ प्रवृत्तौ प्रागल्भ्ये प्रतिभाज्ञानयोरपि ॥ ३३ ॥
6.33 · p. 4
अनुष्टुप्
प्रायुङ्क्त प्रत्यये भट्टिर्विश्वासः प्रत्ययो मतः ।प्रतिमायां प्रतिकृतिः प्रतिकारेऽप्यथो शृणु ॥ ३४ ॥
6.34 · p. 4
अनुष्टुप्
प्रत्यक्च्छ्रोणी नागदन्त्यां गिरिकर्ण्यां तथैव ताम् ।विद्यान्मूषिकपर्ण्यामप्यथ ज्ञेया प्रचोदनी ॥ ३५ ॥
6.35 · p. 4
अनुष्टुप्
कण्टकार्यामना तु स्यात् प्रेरणायां प्रचोदना ।गयायां त्वाम्रसे(के ? को) यस्तत्र ज्ञेया पितृप्रपा ॥ ३६ ॥
6.36 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पितुः प्रपायामप्येषा पीलुपर्णी तु कथ्यते ।मू(र्च्छा ? र्वा)यां बिम्बिकायां च पुटग्रीवा तु कथ्यते ॥ ३७ ॥
6.37 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 मू (syllables merged)
गर्गर्यां ताम्रघट्यां च मूर्वापविकयोः पुनः ।ज्ञेया मधुरसाथ स्यान्मृगतृष्णाख्यतेजसि ॥ ३८ ॥
6.38 · p. 4
अनुष्टुप्
मरीचिका तथा लिक्षासंज्ञमानेऽप्यदः पुनः ।त्रसरेण्वष्टकं स्यात् तु हरिद्रायां मनःशिला ॥ ३९ ॥
6.39 · p. 4
अनुष्टुप्
ख्याते मनःशिलेत्येव धातावथ महाशिला ।शस्त्रप्रभेदे तस्योक्तं लक्षणं शस्त्रवेदिभिः ॥ ४० ॥
6.40 · p. 4
अनुष्टुप्
शतघ्नी तु चतुस्ताला लोहकण्टकसञ्चिता ।अयःकण्टकसञ्छन्ना शतघ्न्येव महाशिला ॥ ४१ ॥
6.41 · p. 4
अनुष्टुप्
इत्येवं पृथुपाषाणे प्रसिद्धैव महाशिला ।महासहा माषपर्ण्यां स्तम्बे चाम्लानसंज्ञके ॥ ४२ ॥
6.42 · p. 5
अनुष्टुप्
मधुपर्णी तु काष्मर्यगुडूचीनीलिनीषु च ।मन्दाकिनी स्यादाकाशगङ्गायामापगान्तरे ॥ ४३ ॥
6.43 · p. 5
अनुष्टुप्
मुखशोभा वेदशालिमुखे कान्तौ मुखस्य च ।रङ्गमाता तु कुट्टन्यां लाक्षायां चाजयोदिता ॥ ४४ ॥
6.44 · p. 5
अनुष्टुप्
राजकन्या तु कन्यायां राज्ञोऽपि च नपुंसके ।नपुंसकस्य संज्ञासु वररुच्युदिता ह्यसौ ॥ ४५ ॥
6.45 · p. 5
अनुष्टुप्
(शासे ?)केसरमालाख्ये स्यात् तु राजसभाध्वनिः ।राष्ट्रेऽपि राज्ञ आस्थाने व्याख्याकारेण केनचित् ॥ ४६ ॥
6.46 · p. 5
अनुष्टुप्metre not read in every line
व्याख्यातोऽमरकोशस्य ह्यशालार्थेषु का कथा ।ललाटिका ललाटस्थपत्राङ्गुल्यां तथैव च ॥ ४७ ॥
6.47 · p. 5
अनुष्टुप्
सा भवेत् पत्रपाश्यायामथापि स्याद्वराङ्गना ।मुख्यायामङ्गनायां च तालीसंज्ञमहाद्रुमे ॥ ४८ ॥
6.48 · p. 5
अनुष्टुप्
वरस्त्रियां वरारोहा महोदर्याख्यमुस्तके ।मल्लिकाया विशेषे च देवमल्लीति विश्रुते ॥ ४९ ॥
6.49 · p. 5
अनुष्टुप्
अत्रोक्तं सज्जनेनेदं द्व्यर्था इत्यधिकृत्य यत् ।वरिवस्या परीष्टौ स्यादिति तत् संशयास्पदम् ॥ ५० ॥
6.50 · p. 5
अनुष्टुप्
विष्णुक्रान्ता तु सुमुखीगिरिकर्णिकयोरपि ।शतह्रदा तु तडिति तद्भेदे मरिचे पुनः ॥ ५१ ॥
6.51 · p. 5
अनुष्टुप्
श्यामवल्ली लतायां च श्यामायामथ कथ्यते ।मल्लिकायां (शेष ? श्लेष्म)घना केतक्यां चाजयेन हि ॥ ५२ ॥
6.52 · p. 5
अनुष्टुप्metre not read in every line
समुद्रान्ता तु दुःस्पर्शे कार्पासीस्पृक्कयोरपि ।स्ववासिनी चिरण्ट्यां स्यान्नववध्वां च सज्जनः ॥ ५३ ॥
6.53 · p. 6
अनुष्टुप्
सामिधेनीति तस्यां स्याद् यया चाधीयते समित् ।समिध्यप्यपठीदेनां शाश्वतः शब्दवित्तमः ॥ ५४ ॥
6.54 · p. 6
अनुष्टुप्
सिनीवाली तु पार्वत्यां दृष्टचन्द्रे च दर्शके ।सुवर्चला तु सूर्यस्य प्रभादेव्यां क्षुमाह्वये ॥ ५५ ॥
6.55 · p. 6
अनुष्टुप्
धान्ये शाकविशेषे च सोमवल्ली त्ववल्गुजे ।ब्राह्मीगुडूच्योश्चाथ स्याद् विद्युद्विद्युद्विशेषयोः ॥ ५६ ॥
6.56 · p. 6
अनुष्टुप्
सौदामनीति च चतुर(च्)स्त्र्यध्यायः समाप्तवान् ॥ ५६-१/२ ॥
6.57 · p. 6

इति चतुरक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।

अथ चतुरक्षरकाण्डे पुल्लिँङ्गाध्यायः ।

अथो चतुःस्वराः शब्दाः कीर्त्यन्तेऽत्र नृलिङ्गकाः ।अपवर्गः क्रियासाध्यफलाप्तौ त्यागमोक्षयोः ॥ १ ॥
6.1 · p. 6
अनुष्टुप्
अपदेशस्तु लक्षे स्यान्निमित्तव्याजयोरपि ।अपवादस्तु निन्दायामाज्ञायां च द्वयोरपि ॥ २ ॥
6.2 · p. 6
अनुष्टुप्
अपभ्रंशोऽपशब्दे स्याद् भाषाभेदप्रपातयोः ।अभिमानस्त्वहङ्कारे हिंसाप्रणययोरपि ॥ ३ ॥
6.3 · p. 6
अनुष्टुप्
ऐश्वर्यहेतुके दर्पे ज्ञाने चाथाभिहारवाक् ।अभियोगे सन्नहने चौर्ये वैरेऽपि सज्जनः ॥ ४ ॥
6.4 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
++++++++++++ परोऽभ्यधात् ।गजशायनकालेऽपि गजशास्त्रेषु दृश्यते ॥ ५ ॥
6.5 · p. 6
अनुष्टुप्metre not read in every line
कुले त्वभिजनो जन्मभूमौ चाभिषवः पुनः ।सवने मद्यसन्धाने (स्नाने चाथाभियो)गवाक् ॥ ६ ॥
6.6 · p. 7
अनुष्टुप्metre not read in every line
अन्यायधर्षितनरैः प्राड्विवाकाय वेदने ।अभिमाते( ? )पृतनया परिक्षेपेषुणा तथा ॥ ७ ॥
6.7 · p. 7
अनुष्टुप्
तथा परिचयेऽपि स्यादभिषङ्गस्तु कथ्यते ।आक्रोश शापाभिषवसङ्गेष्वाह तु सज्जनः ॥ ८ ॥
6.8 · p. 7
अनुष्टुप्
दुःखे पराभवे त्वाह सिंहोऽभिक्रमवाक् पुनः ।आरोहणक्रियायां चाभिमुखक्रमणेऽपि च ॥ ९ ॥
6.9 · p. 7
अनुष्टुप्
अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके ।अवगाहो जलद्रोण्यां तैलाङ्काद्यवगाहने ॥ १० ॥
6.10 · p. 7
अनुष्टुप्
अवगाथोऽक्षसङ्घाते रथयाने तथा पथि ।स्यात् प्रातःसवने चापि केचित् त्ववगथध्वनिम् ॥ ११ ॥
6.11 · p. 7
अनुष्टुप्
अस्य स्थाने पठित्वाहुरस्यैवार्थान् विचक्षणाः ।अवतारोऽवतरणे तीर्थे भूतादिके ग्रहे ॥ १२ ॥
6.12 · p. 7
अनुष्टुप्
इत्युक्तं शाश्वतेनापि तदयुक्तं यतो मुनिः ।करणे चाधिकरणेऽप्यवतारं शशास सः ॥ १३ ॥
6.13 · p. 7
अनुष्टुप्
अवपातस्तु हस्त्यर्थं गर्ते छन्ने तृणादिना ।शैलप्रपातेऽप्यन्ये तु गर्तमात्रे वदन्ति तम् ॥ १४ ॥
6.14 · p. 7
अनुष्टुप्
अवरोहोऽवतरणे पादपस्य लतोद्गमे ।मूलादग्रं गतायां च लतायां किञ्च शाखिनः ॥ १५ ॥
6.15 · p. 7
अनुष्टुप्
शाखाजातशिफायां चाप्यथ स्यादवरोधवाक् ।अन्तःपुरे स्वीकृतौ चाप्यवलेपस्तु लेपने ॥ १६ ॥
6.16 · p. 7
अनुष्टुप्
गर्वेऽथावक्रयो मूल्ये सूत्रनिर्दिष्टवक्रये ।क्रयभेदेऽप्यदत्तार्धाधिकमूल्ये परे विदुः ॥ १७ ॥
6.17 · p. 7
अनुष्टुप्
सज्जनो हाटकेऽवादीदवष्टम्भस्तु काञ्चने ।समालम्बे तथा स्तब्धौ स्तम्भे चाप्यजयोऽवदत् ॥ १८ ॥
6.18 · p. 8
अनुष्टुप्
नैतद्रुचितमस्मभ्यं यतः षत्वस्य साधुता ।आलम्बनादाविदूर्याच्चान्यत्र विषयेऽस्य न ॥ १९ ॥
6.19 · p. 8
अनुष्टुप्
अवस्करस्तु विष्ठायां गुह्ये चाथो धनञ्जयः ।रहस्य इत्यभाषिष्ट वयं तु ब्रूमहे परम् ॥ २० ॥
6.20 · p. 8
अनुष्टुप्
मलप्रक्षेपणस्थानेऽप्यथावकर इत्ययम् ।धर्मशास्त्रविदां ख्यातेऽवकीर्णित्वेऽवचूर्णने ॥ २१ ॥
6.21 · p. 8
अनुष्टुप्
सम्मार्जनीनिरस्तस्य तृणपांस्वादिवस्तुनः ।राशावुत्ककटाभिख्येऽप्यथावस्कन्द इत्ययम् ॥ २२ ॥
6.22 · p. 8
अनुष्टुप्
सौप्तिकेऽपि नगर्यादेरपहारे बलोद्धतैः ।अथावयव इत्येष एकदेशाप्रधानयोः ॥ २३ ॥
6.23 · p. 8
अनुष्टुप्
पृथग्भूते पृथग्भावेऽप्यव(घा ? खा)तस्तु गर्तके ।जलाशये च कीर्णाख्ये वैजयन्त्यामभाषत ॥ २४ ॥
6.24 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दोषोत्पादेऽनुबन्धः स्यात् प्रकृत्यादेर्विनश्वरे ।मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ २५ ॥
6.25 · p. 8
अनुष्टुप्
क्रोधेऽपि सज्जनः प्राह दोषेऽप्यमरदत्तकः ।अथानुद्वेष इत्येष दीर्घद्वेषानुबन्धयोः ॥ २६ ॥
6.26 · p. 8
अनुष्टुप्
पश्चात्तापे च केचित् तु द्वेषमात्रे परः पुनः ।व्याख्यातामरकोशस्य देशभेदेऽप्यभाषत ॥ २७ ॥
6.27 · p. 8
अनुष्टुप्
अनुषङ्गस्तु कारुण्ये प्रकृतस्यानुवर्तने ।अनुकर्षस्त्वधस्थे स्याद् रथकाष्ठेऽनुकर्षणे ॥ २८ ॥
6.28 · p. 8
अनुष्टुप्
अनुवर्षस्तु चषके मद्ये चाथानुभाववाक् ।सूचके चापि भावस्य सतां च …??… ॥ २९ ॥
6.29 · p. 9
अनुष्टुप्metre not read in every line
प्रभावेऽप्य…?…स…? ग…?…?कृ…? ।निवासेऽप्यग्नि…?…?…?… ॥ ३० ॥
6.30 · p. 9
metre not recognised
वृक्षभेदेऽग्निमथनेऽप्यङ्गहारस्तु नृत्यताम् ।अङ्गविक्षेपणेऽङ्गस्य हरणेऽथो अलम्बुसः ॥ ३१ ॥
6.31 · p. 9
अनुष्टुप्
भेषजस्तम्बभेदे च प्रहस्ताख्ये च राक्षसे ।अपांगर्भो मरुद्वह्न्योरथाथर्वणिरित्ययम् ॥ ३२ ॥
6.32 · p. 9
अनुष्टुप्
पुरोहितेऽप्यथर्वज्ञेऽन्यथाश्वरिपुरित्ययम् ।महिषे करवीरे चा(प्य ? प्या)वसथ्यध्वनिः पुनः ॥ ३३ ॥
6.33 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ज्ञेय आवसथे चाग्निभेदे चाहवनीयतः ।प्राग्देशस्थेऽथात्मयोनिः स्मरे स्मरहरेऽनिले ॥ ३४ ॥
6.34 · p. 9
अनुष्टुप्
विरिञ्चनेऽप्यथाग्नीन्द्वोराशौचनिरिति ध्वनिः ।इन्द्रवृक्षस्तु ककुभे कुटजे देवदारुके ॥ ३५ ॥
6.35 · p. 9
अनुष्टुप्
उपक्रमश्चिकित्सायामुपधारम्भयोरपि ।उपायपूर्वे त्वारम्भेऽमरसिंहः शरेप्यथो ॥ ३६ ॥
6.36 · p. 9
अनुष्टुप्
अङ्गीकृतावुपगमः समीपगमनेऽपि च ।अथो उपशयः स्थाने यत्र स्थित्या हि लुब्धकाः ॥ ३७ ॥
6.37 · p. 9
अनुष्टुप्
गूढात्मानो मृगान् घ्नन्ति तत्र यूपे तु याज्ञिकाः ।एकादशकपक्षे यः शेते दक्षिणतो भुवि ॥ ३८ ॥
6.38 · p. 9
अनुष्टुप्
दशानामपि यूपानां तत्रायुर्वेदिनः पुनः ।औषधान्नविहाराणामुपयोगे सुखावहे ॥ ३९ ॥
6.39 · p. 9
अनुष्टुप्
व्याधेः सात्म्यमितीदं च त…?…?…मधीयते ।समीपशयने चापि विदन्ति विदितागमाः ॥ ४० ॥
6.40 · p. 9
अनुष्टुप्metre not read in every line
उपरागस्तु राहौ च सक्त्याख्यव्यसने तथा ।सूर्यचन्द्रग्रहे च स्यादुपरक्तौ च कीर्तितः ॥ ४१ ॥
6.41 · p. 10
अनुष्टुप्
उपसर्गः क्रियायुक्तप्रादौ संसर्ग एव च ।उत्पाते चाप्यथोत्पाते ग्रहणे चन्द्रसूर्ययोः ॥ ४२ ॥
6.42 · p. 10
अनुष्टुप्
राहौ चोपप्लवोऽध्यासे चेति धीराः प्रचक्षते ।उपग्रहस्तु वन्दौ स्याद् ग्रहणेऽप्यनुकूलने ॥ ४३ ॥
6.43 · p. 10
अनुष्टुप्
स्यात् परस्मैपदेऽप्येष आत्मनेपद एव च ।उपस्पर्शस्तु संस्पर्शे स्नानाचमनयोरपि ॥ ४४ ॥
6.44 · p. 10
अनुष्टुप्
उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ।इत्युकं कैश्चिदस्माकं भासते तदयुक्तवत् ॥ ४५ ॥
6.45 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
उपचारस्तु तत्र स्यात् सकारो यो विधीयते ।विसर्जनीयस्य स्थाने प्राभृ(तौ ? ते) चाप्युपासने ॥ ४६ ॥
6.46 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उपनाहस्तु वैरानुबन्धे वीणानि?धने ।पद्मलोचनसन्धिस्थरोगभेदे च मन्वते ॥ ४७ ॥
6.47 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्रणादेर्भेषजे बीजेऽप्युपताप तु कीर्त्यते ।रोगे तापेऽप्यथ प्रोक्तो वारिबाहमहेन्द्रयोः ॥ ४८ ॥
6.48 · p. 10
अनुष्टुप्
ऋञ्जसानः श्मशाने च त्रिष्वर्थेषु मनीषिभिः ।कारस्करो राजवृक्षे गिरिभेदे च दर्शितः ॥ ४९ ॥
6.49 · p. 10
अनुष्टुप्
कारालिको वृक्षमात्रे पठितः + डित्वङ्गयोः ।कारोतरः सुरामण्डे कूपे कामोत्सवः पुनः ॥ ५० ॥
6.50 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कामाद्धर्षे तथा कामस्योत्सवे चेति दर्शितः ।अथ कामगुणो रागे विषयाभोगयोरपि ॥ ५१ ॥
6.51 · p. 11
अनुष्टुप्
कालधर्मन्तु कालस्य धर्मेऽपि मरणेऽपि च ।क्रियाकारः संविदि च क्रियायाः करणेऽपि च ॥ ५२ ॥
6.52 · p. 11
अनुष्टुप्
कुरुविन्दो रत्नभेदे मु?तके हिङ्गुले तथा ।आरण्यक्षुद्रधान्यानां सप्तानामेकधान्यके ॥ ५३ ॥
6.53 · p. 11
अनुष्टुप्
ग्रहराजस्तु विज्ञेयो भास्करे चन्द्रा?स्यपि ।शक्रे धातुकमत्तेभे वर्षुकाब्दे घनाघनः ॥ ५४ ॥
6.54 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
घनसारस्तु कर्पूरे दक्षिणावर्तपारते ।चन्द्रोदयः स्यादुल्लोचे शशाङ्कस्योदयेऽपि च ॥ ५५ ॥
6.55 · p. 11
अनुष्टुप्
चन्द्रहासोऽसिमात्रे स्याद् दशास्यस्याप्यतावसौ ।खड्गभेदेऽपि तं प्राहुर्वैजयन्त्यां यथापठीत् ॥ ५६ ॥
6.56 · p. 11
अनुष्टुप्
चन्द्रहासोऽर्धचन्द्राग्र इति शब्दार्थकोविदः ।चित्रभानू रवौ वह्नौ देशे जनपदो जने ॥ ५७ ॥
6.57 · p. 11
अनुष्टुप्
जनक्षयस्तु सङ्ग्रामे जनस्यापि क्षये मतः ।तमोनुदः सहस्रांशौ शीतांशौ पावकेऽपि च ॥ ५८ ॥
6.58 · p. 11
अनुष्टुप्
तनूनपात् तु यास्कोक्त आज्ये चाग्नौ च निश्चितः ।तिरस्कारः परिभवेऽप्यन्तर्थे?चारतः ॥ ५९ ॥
6.59 · p. 11
अनुष्टुप्metre not read in every line
अन्तर्धौ चाथ विज्ञेयस्त्रिकण्टक इति ध्वनिः ।गोक्षुरे च विपत्रायां स्नुह्यां चाथ निबोधत ॥ ६० ॥
6.60 · p. 11
अनुष्टुप्
हिन्तालतालद्रुमयोस्तृणराज इति ध्वनिः ।दर्दरीकस्तु वादित्रविशेषे डाडिमे तथा ॥ ६१ ॥
6.61 · p. 11
अनुष्टुप्
अनिले चन्द्र इत्यन्ये दधिपाय्यस्तु सर्षिषि ।पृषत्य?ति केषाञ्चिन्मतमेतन्न तच्छुभम् ॥ ६२ ॥
6.62 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्रुमामयस्तु लाक्षायां द्रुमस्याप्यामये तथा ।अथ देवरथो ना(न्यै ? ट्ये)रति रामत्य भूमिकाम् ॥ ६३ ॥
6.63 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्