घोरा
ghorāस्त्री · fem.In 6 kośas: 7 synonym verses.
व्युष्टे निशात्यय(न्त)गोसर्गौ निशा चक्रभेदिनी ॥ १७ ॥निषद्वरी निशीथ्या निट् घोरा वासरकन्यका ।शताक्षी राक्षसी याम्या घृतार्चिस्तामसी तमिः ॥ १८ ॥शार्वरीक्षणिनीनक्तापैशाचीवासुरा उशाः ।
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
स्यादाकाशार्थवल्ल्यर्था दुःस्पर्शाऽथ गरा गरी ।वेणीरुहा कोशफला घोरा रोमशपत्रिका ॥ ४०१ ॥
अनुष्टुप्
genderस्त्रीfem.
रात्रिस्त्रियामा स्याद्घोरा श्यामा तुङ्गी निषद्वरी ।याम्या च रक्षोजनना रजनी चक्रभेदिनी ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
संक्रान्तिध्रुवतारकेषु गदिता मन्दाथ मन्दाकिनीमृद्वीषूडुषु राक्षसी तु कथिता क्रूरेषु घोराः पुनः ।स्यादुग्रेषु महोदरीषु चरभे ध्वाङ्क्षी त्वसौ क्षिप्रभेमिश्रेषूडुषु मिश्रितेषु गदितास्ताः सप्तभेदा बुधैः ॥ ११२ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
वासरकन्यका याम्या निशीथ्या च निषद्वरी ।रजनी रजनिः घोरा पूतार्चिश्चक्रभेदिनी ॥ १३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderस्त्रीfem.
त्रिसन्ध्यं प्राङ्क्षु मध्याह्णापराह्णैः परिकीर्तितम् ।रात्रिर्विभावरी श्यामा घोरा याम्या तमस्विनी ॥
अनुष्टुप्
genderस्त्रीfem.
रात्री रक्षोजननी निषत्वरी चक्रभेदनी घोरा ।श्यामा ग्राम्या दोषा तुङ्गी भौती शताक्षी च ॥ २३ ॥
आर्या
genderस्त्रीfem.