वलय
valayaक्ली · neut.In 18 kośas: 25 synonym verses, 5 as a nānārtha head word, 31 as a meaning of another word.
केयूरमङ्गदं बाहुभूषाथ करभूषणम् ॥ ६६२ ॥कटको वलयं पारिहार्यावापौ तु कङ्कणम् ।हस्तसूत्रं प्रतिसर ऊर्मिका त्वङ्गुलीयकम् ॥ ६६३ ॥
अनुष्टुप्
genderक्लीneut.
genderपुंक्लीm. n.
केयूरमङ्गदं प्रोक्तं बाहुमूलविभूषणम् ।आवापः परिहार्यः स्यात्कटको वलयं तथा ॥ ५५७ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबेऽङ्गदं तु केयूरं बाहुपर्यायभूषणम् ।आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ॥ २६४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
हिरण्यारण्यसख्यानां राजसूयकषाययोः ।स्याद्वाजपेयमलयशल्यानां वलयस्य च ॥ १७३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कबरीबन्धो वलयं ताम्बूलं चातुरी चेति ।[61a]षोडश योषाभूषा औपाधिक्यो बुधैः कथिताः ॥ १७६ ॥
metre not recognised
genderक्लीneut.
कि(की)कसं श्वप्रियं सारः कर्करस्तरुणं तु तत् ।ग्रीवाकर्णघ्राणनेत्रकोशजं वलयं पुनः ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
बाहुभूषा खटूः केयूराङ्गदे चाथ न स्त्रियाम् ।षडमी स्युः पारिहार्यः कटको वलयोऽपि च ॥ ७८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वलयमलयपूयारण्यसंख्यं हिरण्यंप्रमयसमयसाया जन्यवत्पारिहार्यम् ।शरशिशिरतुषारक्षीरनीहारवार-प्रवरशिखरराष्ट्रभ्राष्ट्रसीरान्धकाराः ॥ ५८ ॥
मालिनी
genderपुंक्लीm. n.
एते स्त्रियां भवन्ति । इयं मेधा धारणाशक्तिः । रसना शक्तिर्मेखला च ।निद्रा सुप्तिः । तन्द्रा आलस्यम् । तन्त्री वाद्यविशेषः । मञ्जिष्ठा रागद्रव्यम् । स्यातां भवेतामित्यर्थः । इयं मदिरा सुरा । मन्दुरा वाजिशाला । कृशरा तिलयवागूः । अक्षैर्दीव्यते अक्षग्रहणं वादित्रसम्बन्धनिवृत्त्यर्थम् । वाद्यं दुन्दुभिरित्यर्थः ।धान्यद्विदलांशुकवितानवलयरत्नमिथुनश्मशानानि ।बिसतिमिराण्यपि विद्यान्नपुंसकेऽग्रखे चैव ॥ ६४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 वे (syllables merged)
genderक्लीneut.
वर्तुलं वलयं वृत्तं मण्डलं चक्रवालकम् ।विन्ध्योत्तरपदे तु स्यादुत्तरापथसंज्ञिकः ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
कङ्कणं कटकः पारिहार्यो वलयमेव च ।अवापो हस्तसूत्रं चोर्मिका स्यादङ्गुलीयकम् ॥ ३१० ॥
अनुष्टुप्
genderक्लीneut.
मैरेयराजसूयौ च शल्यकुल्याव्ययान्यपि ।हिरण्यारण्यसंख्यानि मलयो वलयोऽपि च ॥ १५१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कङ्कणं वलयं चूली चूलिका वलयोर्मिका ।बाह्वटं बाहुवलयं केयूरं कटकाङ्गदे ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
मुद्रिका ऊर्मिका मुद्राभिज्ञानं चाङ्गुलीयकम् ।कटको वलयावापौ कङ्कणं करभूषणम् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
कङ्कणं हस्तसूत्रं च कटकः करभूषणम् ।वलयं चेति नामानि वदन्ति विबुधाः सदा ॥ १०७५ ॥
अनुष्टुप्
genderक्लीneut.
वलयं तु चक्रवालं हरितां युगलं तु मण्डपीठी स्यात् ।शक्राद्याः शंकरान्ताः स्युरष्टौ हरिदधीश्वराः ॥ १५६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
व्रजपुञ्जौ निकुरुम्बं जालं पटलं कदम्बकं चक्रम् ।वितानं मण्डलं चक्रवालं च वलयं कुलम् ॥ ८२८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
समे त्वङ्गदकेयूरे वलयं कटकोऽस्त्रियाम् ।कङ्कणं करभूषा स्यादङ्गुलीयकमूर्मिका ॥ ११६६ ॥
अनुष्टुप्
genderक्लीneut.
कर्को दर्पणभेदे स्यात् स्वर्णे वर्ण इतीर्यते ।शर्करायां तु वलयं शकलं खण्डमित्यपि ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
कुलिशध्वजकार्षापणपिनाकमुस्तान्धकारशृङ्गवलयाः ।पटलप्रवालचषकोपवासकासारकटकसन्तानाः ॥ ११ ॥
गीतिःmetre not read in every line
genderपुंक्लीm. n.
पूर्वपश्चिमराश्यर्घौ सन्दालवलयौ क्रमात् ।संज्ञा द्रेक्काणहोराद्याः शास्त्रे ज्ञेयाः सलिंगकाः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
आम्रे कामाङ्गमाकन्दौ चूतो वेलोंऽङ्गनाप्रियः ।करको वलयश्चाथ श्रेष्ठेऽत्र सहकारकः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कैवर्ती मुस्तकेत्वासौ गुन्द्रायां भद्रमुस्तकः ।महोदरी वरारोहा नादेयी वलयो वरम् ॥ १९९ ॥
अनुष्टुप्
genderपुंmasc.
आवापकः पारिहार्यं वलयं कटकोऽस्त्रियाम् ।पादेऽसौ हंसकः स्त्रीणामंगुलीयकमूर्मिका ॥ १४४ ॥
अनुष्टुप्
genderक्लीneut.
वलयः करकङ्कणे गणेगदितोऽस्त्री नरि कण्ठरुग्भिदि ।मलयस्तु वने च कृत्रिमेगिरिभेदेऽपि धरांशदेशयोः ॥ ५८ ॥
वियोगिनी
तथा पश्चिमराश्यर्थे वनजं तु नपुंसकम् ।स्यादुत्पलप्रभेदे हि कंसोत्पलमिति श्रुते ॥ १५९७ ॥
अनुष्टुप्
meaningsपश्चिमराशि
doubtful
पानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् ।पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् ।वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः ।भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके ।स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥मलयो ना चलारामदेशेषु स्त्री तथौषधे ।मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च ।अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च ।रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् ।विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि ।विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 सू (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 7 द्भ (wrong syllable)
वलय as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कटकभूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् । Amarakośa 3.3.26
- नामलिङ्गानुशासनम् कम्बुकम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ ॥ १३३ ॥ Amarakośa 3.3.133
- धरणिकोश शङ्खकधैनुकं करणे स्त्रीणां धेनुसङ्घे च धैनुकम् । शङ्खकं वलये कम्बौ शिरोरोगे च शङ्खकः ॥ Dharaṇikośa 1.2.35
- धरणिकोश कटककटको वलये सानौ जलधिलवणेऽपि च । कटको राजस्थानेऽपि मण्डने द्विरदस्य च ॥ Dharaṇikośa 1.3.21
- धरणिकोश कङ्कणधर्षणं निधुवने पराभवे धर्षणी च गदिताथ पुंश्चली । कङ्कणं वरविवाहमुद्रके मण्डने च वलये च शेखरे ॥ Dharaṇikośa 14.2.7
- धरणिकोश कम्बुस्तम्बो गुच्छे कुशादीनामप्रकाण्डद्रुमेऽपि च । कम्बू कुञ्जरशम्बूकौ कम्बुर्वलयशङ्खयोः ॥ Dharaṇikośa 22.2.2
- कोषकल्पतरु कटककटकोऽस्त्र्यद्रिनितम्बे वलये स्याद्राजधान्यां च । तद्वत्समुद्रलवणे दन्तावलदन्तमण्डने चोक्तम् ॥ ३६ ॥ Koṣakalpataru 6.1.36
- कोषकल्पतरु पक्षकस्यात्कण्टकोऽस्त्री पुलकद्रुमांश- क्षुद्रारिकर्मस्थितिदूषणेषु । द्वारे तु पक्षस्य च पार्श्वमात्रे स्यात्पक्षकोऽथो वलये च कम्बौ ॥ ९६ ॥ Koṣakalpataru 6.1.96
- कोषकल्पतरु कम्बुउल्बोऽस्त्रियां स्यात्कमले जरायौ कम्बुः पुमान्स्याद्वलये गजे च । शम्बूकके स्त्री तु न शङ्खवाची जम्बूः स्त्रियां जम्बुरपि द्रुभेदे ॥ २९ ॥ Koṣakalpataru 6.24.29
- कोषकल्पतरु कुण्डलकुण्डलं वलयकर्णभूषयोः पाशके भवति नैव योषिति । काञ्चनाचलगुडूचि[70b]काह्वये स्यात्स्त्रियां शुनि तु मण्डलोऽप्यहौ ॥ १८ ॥ Koṣakalpataru 6.28.18
- नानार्थार्णवसंक्षेप शम्बशम्बो वज्रे लोहमये वलये मुसलाग्रगे । अरित्रेऽर्थान्तरेऽप्यस्ति शम्बबीजात् कृषाविति ॥ ११७ ॥ Nānārthārṇavasaṃkṣepa 2.2.117
- नानार्थार्णवसंक्षेप कटशवे शवरथे श्रोणिफलके कालकूटके । सज्जनस्त्वाह वलयेऽप्येष्वर्थेषु पुमानयम् ॥ १५७ ॥ Nānārthārṇavasaṃkṣepa 2.5.157
- नानार्थार्णवसंक्षेप वाटमण्डले नगरे सीम्नि भोजने वलये गृहे । त्रयी तु वाटी गेहान्तःक्लृप्ते फलफले वने ॥ १२२२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1222
- नानार्थार्णवसंक्षेप शङ्खसङ्ख्याभेदे निस्वर्वाख्यसङ्ख्याया दशकात्मके । कम्बौ च वलये चाथ निधिभेदे पुमानयम् ॥ १३०२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1302
- नानार्थार्णवसंक्षेप कटकद्वयोस्तु पक्षिभेदे स्यादित्याह रभसः कविः । कटकस्त्वस्त्रियां शैलनितम्बे वलयेऽपि च ॥ ३१७ ॥ Nānārthārṇavasaṃkṣepa 4.317
- नानार्थार्णवसंक्षेप वालकवालकं त्वस्त्रियां ज्ञेयं वलयेऽप्यङ्गुलीयके । ह्रीबेरे तु नपि स्त्री तु वालिका सिकतासु च ॥ १६६८ ॥ Nānārthārṇavasaṃkṣepa 4.1668
- नानार्थार्णवसंक्षेप वालिकाऊर्मो च कर्णपृष्ठस्थे विज्ञेया भूषणान्तरे । वलये चाङ्गुलीये च पुमांसं रभसोऽब्रवीत् ॥ १६६९ ॥ Nānārthārṇavasaṃkṣepa 4.1669
- नानार्थार्णवसंक्षेप अक्षमालासूत्रस्यूतैः कृते चापि वलयेऽथ निबोधत । अजमोदा यवानीति प्रसिद्धे भेषजान्तरे ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 6.3
- शब्दरत्नावली कटककटकोऽस्त्री दन्तिदन्तमण्डनेऽचलमध्यके । सामुद्रलवणे राजधान्याञ्च बलयेऽपि च ॥ Śabdaratnāvalī 7.1.40
- शब्दरत्नावली बालकबालकः स्यात् शिशौ मूर्खे पुच्छे च हयहस्तिनोः । अङ्गुरीये च ह्रीवेरे निर्वणे वलये पुमान् ॥ Śabdaratnāvalī 7.1.112
- शब्दरत्नावली बालकबालको वलयेऽस्त्री तु त्रिषु स्यादङ्गुरीयके । वितर्कः स्यात् पुमानूहे संशये ज्ञानसूचके ॥ Śabdaratnāvalī 7.1.140
- शब्दरत्नावली शङ्खकछत्रादिकाष्ठीशरयोः शल्लकी पशुवृक्षयोः । शङ्खकः स्यात् शिरोरोगे शङ्खेऽस्त्रीवलयेऽपि च ॥ Śabdaratnāvalī 7.1.144
- शब्दरत्नावली कम्बुकम्बुर्नागजशम्बूकवलये शङ्खकेऽस्त्रियाम् ॥ कम्बिः स्त्रियान्तु वंशांशे खजाकायामपि स्त्रियाम् । अथ क्लीबं शण्डकेऽस्त्रीवाच्यलिङ्गन्त्वविक्रमे ॥ Śabdaratnāvalī 7.23.2
- शब्दरत्नावली कुण्डलकुकूलं शङ्कुसङ्कीर्णरन्धे पुंसि तुषानले । कुण्डलं कर्णभूषायां तथा वलयपार्श्वयोः ॥ Śabdaratnāvalī 7.28.55
- शब्दरत्नावली पल्लवदीदिविः पुंसि गीर्वाणगुरौ भक्ते समुच्छिते । निष्पावः सूर्पपवने राजमाषे कडङ्गरे ॥ निह्नवः स्यादविश्वासे तथा गुप्तावलापयोः । पल्लवो विटपे षिङ्गे विस्तारे वलयेऽपि च ॥ शृङ्गोरेऽलक्तरागे च चापलेऽपि च न स्त्रियाम् । प्रभवो जन्महेतौ स्यात्स्थले चाद्योपलब्धये ॥ प्रसेवः स्यूतवीणाङ्गे प्रभावः शक्तितेजसोः ॥ Śabdaratnāvalī 7.29.30
- शब्दरत्नावली पक्षप्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः । पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः ॥ विहगे वलये साध्ये विरोधे गृहशुद्धयोः । चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे ॥ प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् । प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥ Śabdaratnāvalī 7.31.10
- शब्दरत्नाकर कटकक्षुद्रशत्रौ द्रुमाङ्के च रोमहर्षे च कण्टकः । भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ॥ २०६० ॥ Śabdaratnākara 4.1.2060
- त्रिकाण्डशेष कटकरोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टकोऽस्त्रियाम् । राजधान्यां नितम्बेऽद्रेर्वलये कटकोऽस्त्रियाम् ॥ १२ ॥ Trikāṇḍaśeṣa 3.3.12
- वैजयन्ती कंबुउस्रः किरण उस्रा गौर् ऋक्षंनिर्लोमनीन्द्रिये । कंब्वस्त्री वलये शंखे शंबूके कणसंख्ययोः ॥ ९ ॥ Vaijayantī 6.5.9
- वैजयन्ती शंखशंखोऽस्त्री वलये कंबौ संख्यायां च निधौ तु ना । अमावस्यां च नागे च शितौ बाणतनूकृतौ ॥ ८३ ॥ Vaijayantī 6.5.83
- वैजयन्ती वालकवालकं त्वंगुलीये स्यात् बर्हिष्ठे वलयेऽपि च । व्युत्थानं प्रतिकूलत्वे स्वातन्त्र्यकरणेऽपि च ॥ ३१ ॥ Vaijayantī 7.3.31