कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

स्वर्गकाण्डः · व्योमवर्गः

इति स्वर्गवर्गः ॥ १ ॥

व्योमाम्बरं पुष्करमन्तरिक्ष-मत्रान्तरिक्षे सरकोऽस्त्रियां खम् ।अनन्तमाष्ट्रं गगनं वियच्चनभो नभाकं नभसो नभश्च ॥ १ ॥
1.3.1 · p. 25
उपजातिः
अवपुर्वृजनं दिवं मुरा-रिपदं देवपथो घनाश्रयः ।भपथो द्युरिसाव्ययं [?] भुवर्-नरि चाकाशविहायसी उभे ॥ २ ॥
1.3.2 · p. 26
वियोगिनी
मातृ[ता]शब्दगुणः क्लीबं द्यौदिवौ स्त्रियौ ।त्रिषु तारकितं व्योम यदि संतततारकम् ॥ ३ ॥
1.3.3 · p. 26
अनुष्टुप्metre not read in every line
देवपथप्रतिकृतौ [?] पुंसि देवपथो भवेत् ।यदभ्रमिव तत्राभ्र्यमभ्रियं त्वभ्रसंभवम् ॥ ४ ॥
1.3.4 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
उदवाह-बलाहक-मेघ-घन-स्तनयि[18a]त्नु-सरण्यु-नभःकरिणः ।नुदनुर्मुदिरो वनजो गगन-ध्वज-वारिध्वजाम्बुद-वारिमुचः ॥ ५ ॥
1.3.5 · p. 26
metre not recognisednearly तोटकम्: pāda 2, syllable 4 रि (wrong syllable)
जीमूतोऽभ्रचरो गडेर-सरटौ धाराधरः कंधरो ।नभ्राडभ्र-तमाल-सानुग-नभो-धूमाश्च धूमोद्भवः ॥ ६ ॥
1.3.6 · p. 26
शार्दूलविक्रीडितम्
पर्जन्यो गडयन्तकः सलिलभृत्तद्वत्तडित्वान्मरुद्-दारुः पुंसि पयोधसाभ्रमयुगे स्त्रीपुंसयोर्वार्मसिः ॥ ७ ॥
1.3.7 · p. 26
शार्दूलविक्रीडितम्
घनाघनो वर्षुकोऽसावुदमेघोऽथ[?] मेघ्यं मेघभवे ।कादम्बिनी मेघमाला स्यात्काली कालिका च सा ॥ ८ ॥
1.3.8 · p. 26
metre not recognised
पुष्करावर्त्त-शङ्खाङ्ग-कालकान्ति-जलप्लवाः ।ताडित्वनं मुचां वंशे मेघध्वान्ते तु दुर्दिनम् ॥ ९ ॥
1.3.9 · p. 26
अनुष्टुप्
वार्द्दलं च द्वयोर्गर्जः परिघोषो घनध्वनिः ।स्तनितं रसितं क्लीबे समे गर्जितगर्जने ॥ १० ॥
1.3.10 · p. 26
अनुष्टुप्
क्षणप्रभा च क्षणिका चञ्चला च शतह्रदा ।ऐरावत्यशनिर्द्वंद्वे वृष्टिः स्त्री वर्षमस्त्रि[18b]याम् ॥ १२ ॥
1.3.12 · p. 27
अनुष्टुप्metre not read in every line
वर्षप्रमाणे सति गोःपदादि-पूर्त्त्याऽव्ययं गोःपदपूरमत्र ।स्याद्गोःपदप्रं च तडागपूरंतथा तडागप्रमनव्ययं च ॥ १३ ॥
1.3.13 · p. 27
उपजातिः
… नल्लः पुंसि तदन्तरम् ।रंहसा प्रोच्चलद्वारिनिःस्वने घर्घरो नरि ।आसारो घनधारः स्याद्वर्षो वर्षोपले पुनः ।पयोघनो रोधरङ्कुस्तोयडिम्भो घनोपलः ॥ १४ ॥
1.3.14 · p. 27
अनुष्टुप्metre not read in every line
मेघास्थि बीजोऽब्धिकफः करका स्यात्त्रिलिङ्गका ।पृष्वा तु स्यात्स्त्रियां धाराङ्कुर-शीकर-सीकराः ॥वातास्तमप्यथावर्षेऽवग्राहोऽवग्रहमथ ।अन्तर्द्धिर्व्यवधिः पुंसि स्त्र्यन्तर्धा व्यवधाऽपिधा ॥ १५ ॥
1.3.15 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ह (wrong syllable)
अपिधानं पिधानोऽस्त्री तिरोधानापवारणे ।स्थगनं व्यवधानं च छादनं स्त्री तिरोहितिः ॥ १६ ॥
1.3.16 · p. 27
अनुष्टुप्
स्त्री दिग्दिशा ककुप्काष्ठा हरिदाशाथ सा यदि ।तत्क्षणं रविणा मुक्ता भवेदङ्गारिणी तदा ॥ १७ ॥
1.3.17 · p. 27
अनुष्टुप्
आसन्नगमना भानोः सा भवेच्च प्रधूमिता ।रविणाधिष्ठिता दग्धा दिश्यं तु त्रिषु दिग्भवे ॥दिशोऽपत्ये[19a] तु दैशेयोऽन्यदाशान्या भवेत्ककुप् ।क्लीबाव्ययं त्वपदिशं विदिक्प्रदिगिमे समे ॥अन्तरालं विचालं च स्त्रियामभ्यन्तरान्तरे ।त्रिषु मध्ये चक्रवालं मण्डलं च त्रिलिङ्गकम् ॥ २० ॥
1.3.20 · p. 27
अनुष्टुप्metre not read in every line
इन्द्रानल-यम-नैर्ऋत-वरुण-मरुद्वित्तपेशानाः ।धर्णसि-भरथ-दृशाना दिक्पतयो लोकपालाश्च ॥ २१ ॥
1.3.21 · p. 28
उपगीतिः
ऐन्द्री प्राची पूर्वा दक्षिणपूर्वा तथाग्नेयी ।याम्या त्वगस्तिपूताऽपाची स्याद्दक्षिणाऽवाची ॥ २२ ॥
1.3.22 · p. 28
metre not recognised
स्यान्नैर्ऋती दक्षिणपश्चिमाह्वास्यात्पश्चिमा या वारुणी शिहयेत् [?] प्रतीची ।सामीरणी तूत्तरपश्चिमा स्यात्कौबेर्युदीची च तथोत्तरा स्यात् ॥ २३ ॥
1.3.23 · p. 28
इन्द्रवज्राmetre not read in every line
प्रागुत्तरा दिगैशानी प्राच्यं प्राग्दिग्भवं त्रिषु ।अपाच्यं दाक्षिणात्यं स्यात्प्रतीच्यं पाश्चिमं समम् ॥ २४ ॥
1.3.24 · p. 28
अनुष्टुप्
उदीच्यं स्यादुदग्ग्रस्तं प्राचिका प्राग्दिगर्विका [?] ।ऊर्ध्वाधरे दिशौ क्वापि ब्रह्मविष्ण्वधिदैवते ॥ २५ ॥
1.3.25 · p. 28
अनुष्टुप्
पीलुमूलेनैकदिग्यात्राव्ययं पीलुमूलतः ।ऐरावतः पुण्डरीको वामनः कुमु[19b]दोऽञ्जनः ।पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ २६ ॥
1.3.26 · p. 28
metre not recognised
अभ्रमुः कपिला तद्वदङ्गदा पिङ्गला क्रमात् ।तथाऽञ्जनावती ताम्रकर्णी स्याच्छुभ्रदन्तिका ॥तथैवानुपमा प्रोक्ता क्रमाद्दिग्गजयोषितः ।रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः ॥बुधो बृहस्पतिश्चेति क्रमादेते दिशां ग्रहाः ॥ २७ ॥
1.3.27 · p. 29
अनुष्टुप्
सूर्यः स्यादरुणः सहस्रकिरणो भास्वान्विवस्वान्रविर्-भातुर्भानु-दिवाकरौ दिनमणिः प्रद्योतनो भास्करः ।आदित्यः सविताऽर्यमा यमपिता पीतुः पतंगः खगःपारुः पेरुरिनो हरिश्च तपनोऽर्क्कस्तापनः स्वर्मणिः ॥ २८ ॥
1.3.28 · p. 29
शार्दूलविक्रीडितम्
सप्ताश्वो मिहिरश्च शूर-महिरौ पीथो द्युवा दर्शतःभासन्तः सहुरिर्भुवन्यु-तपुषौ पूषा च दोषान्तकृत् ।हंसो हेलिरहर्पतिर्ग्रहपतिः स्याद्भापतिर्गोपतिः ।स्यूनोऽन्नः किरणोंऽशुमान्कमलिनीकान्तो भगोऽहस्करः ॥ २९ ॥
1.3.29 · p. 29
शार्दूलविक्रीडितम्
ब्रध्नोंऽशुर्दिवसप्रणीश्च तरणिर्मार्तण्ड-चण्डद्युतीमार्ताण्डोऽरुण[20a]सारथिर्दिनकरो मित्रो रथाङ्गप्रियः ।अञ्जिष्ठोऽव्यथिषः-सरोरुहसुहृत्पृष्वस्त्रयीमूर्त्तिमान्ज्योतिर्वत्सरमूर्तिरम्बुजकरः सूरोऽप्यरूषः शुचिः ॥ ३० ॥
1.3.30 · p. 29
शार्दूलविक्रीडितम्metre not read in every line
स्युर्द्वादशात्मनि विकर्तन-चित्रभानु-त्वष्टृ-प्रभाकर-विभाकर-पर्प्परीकाः ।सीरो विभावसु-विरोचन-कर्मसाक्षि-वास्यन्धकाररिपवो यमुनापिता च ॥ ३१ ॥
1.3.31 · p. 29
वसन्ततिलका
नासत्यतात-हरिदश्व-सहस्रपादःसंज्ञेश-कर्णजनकौ कराः कुषाकुः ।किं चैकचक्ररथ-वासवबान्धवौ तत्छायापसूर्मुरहयावपि लोकनेत्रम् ॥ ३२ ॥
1.3.32 · p. 29
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका
पपीर्जिष्णुर्जगत्साक्षी गभस्तिर्गगनध्वजः ।मन्देहारिर्दृशान[?]श्च कञ्जारो गगनाध्वगः ॥ ३३ ॥
1.3.33 · p. 30
अनुष्टुप्
प्रत्यूषाण्डः खतिलको जगद्दीपोऽम्बुतस्करः ।वेदोदयः सहस्राङ्को रात्रिहृत्त्रिदशावृतः ॥संवत्सररथः कालभृत्स्वा लोकप्रकाशनः ।सूर्यस्य स्त्री देवता चेत्सूर्या सूरीतरा भवेत् ॥त्रिष्वतः सूर्यदेवत्यादित्या सौरी च ऋङ्मुखा ॥ ३४ ॥
1.3.34 · p. 30
अनुष्टुप्
ब्राध्नापत्यो ब्रध्नगोत्रापत्ये ब्राध्नायना[20b]जसि ।आर्क्कायनिस्तु निर्वृत्ते भानवीयं तु तस्य यत् ।स्यान्माठर्यो माठरोऽथ दण्ड-पिङ्गल-माठराः ॥ ३७ ॥
1.3.37 · p. 30
अनुष्टुप्metre not read in every line
स्युः पारिपार्श्वका भानोः संज्ञा छाया च तत्स्त्रियौ ।परिवेषस्तु परिधिः परिवेशश्च मण्डलम् ॥ ३८ ॥
1.3.38 · p. 30
अनुष्टुप्
उपसूर्यकमप्यन्त्ये रेवन्तस्त्वर्क्कनन्दनः ।प्लवगो हयवाहः स्यादरुणस्त्वर्कसारथिः ॥ ३९ ॥
1.3.39 · p. 30
अनुष्टुप्
काश्यपिः प्लवगो वैनतेयो गरुडपूर्वजः ।हम्रो[?]नूरुश्च सूर्येन्द्वोर्ग्रासे स्वर्भानुकेतुतः ॥ ४० ॥
1.3.40 · p. 30
अनुष्टुप्
उपप्लवो ग्रहश्चोपरागो ग्रहणमित्यपि ।उत्पातस्तूपसर्गोपद्रवाविति स्त्रियां न तु ॥ ४१ ॥
1.3.41 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
अजन्यमुपलिङ्गं चारिष्टमौत्पातिकं भवेत् ।पुष्पवन्तौ पुष्पदन्तौ पुष्पदन्ताभिधावपि ॥ ४२ ॥
1.3.42 · p. 31
अनुष्टुप्
एकयोक्त्या मतावत्र सूर्याचन्द्रमसावुभौ ।सूर्यादौ सम्मुखे तीव्रे स्याल्ललाटंतपोऽन्यवत् ॥ ४३ ॥
1.3.43 · p. 31
अनुष्टुप्
कर-किरण-मयूखाभीषु-रश्म्यंशु-गावःशुचि-वसु-घृणि-घृष्णि-प्रग्रहोस्रा गभस्तिः ।उपधृतिरपि रोकः स्यूम-पादौ च पृश्निः*****मरीचिर्दीधितिः स्त्री पदं च [21a] ॥ ४४ ॥
1.3.44 · p. 31
मालिनीmetre not read in every line
छवि-द्युति-द्युद्रुचि-रुक्-त्विषि-त्विट्प्रभा-विभा-भायुजि दीप्तिरेव ।ज्योतिर्विषो [?] धाम-महो-महार्च्चिर्-वर्च्चांसि रोचिश्चरमे च शोचिः ॥ ४५ ॥
1.3.45 · p. 31
उपजातिः
उद्यो[द्द्यो]तः प्रद्योतः प्रकाश आलोक आतपो घर्मः ।भर्गस्तेजो द्योत्रं छाया स्यादातपाभावः ॥ ४६ ॥
1.3.46 · p. 31
metre not recognised
स्याच्छारदः शारदिक आतपो यः शरद्भवः ।तिग्मं तीक्ष्णं रौद्र-तीव्रे चण्डमुष्णद्रवाङ्कः [?] ॥ ४७ ॥
1.3.47 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उष्णंकरणमुष्णस्य करणे स्यान्नपुंसकम् ।कोष्णं कवोष्णं मन्दोष्णं कदुष्णं च बहूष्णवत् ॥ ४८ ॥
1.3.48 · p. 31
अनुष्टुप्
उष्णकल्पं चोष्णदेश्यमुष्णदेशीयमित्यपि ।तिग्मादि त्रिषु तद्वत्सु मृगतृष्णा मरीचिका ॥ ४९ ॥
1.3.49 · p. 31
अनुष्टुप्
शुक्रः सितो दैत्यगुरुर्मघाभूःकाव्यः कविः स्यादुशनाश्च धिष्ण्यः ।स्यात्षोडशार्च्चिर्भृगु-भार्गवौ चतथाऽऽस्फुजिच्छुक्रभवं तु शौक्रि ॥ ४७ ॥
1.3.47 · p. 31
उपजातिः
शुक्रायास्तु स्त्र्यपत्ये स्याच्छौक्रेयी पुरुषे पुनः ।शौक्रेयोऽथ द्वयोः शौक्रिर्यून्यपत्ये हि शुक्रजे ॥ ४८ ॥
1.3.48 · p. 32
अनुष्टुप्
आषाढीयो मङ्गलो लोहिताङ्गोभौमो वक्रोऽङ्गारकः स्यान्नवार्च्चिः ।आरो[21b]ऽषाढः पिप्पलादस्तुतश्चक्रूराक्षः स्याल्लोहितः खोल्मुकश्च ॥ ५० ॥
1.3.50 · p. 32
शालिनीmetre not read in every line
राहौ स्युर्ग्रहकल्लोल-सैंहिकेय-विधुंतुदाः ।अगु-स्वर्भानु-भरण-भारणाभ्रपिशाचकाः ॥ ५१ ॥
1.3.51 · p. 32
अनुष्टुप्
छायाङ्गोऽपि तमो मुण्डः कृष्णवर्त्मा तमोऽस्त्रियाम् ।केतुः शिखी च विशिरा उत्प्लवो विकचोऽहिकः ॥ ५२ ॥
1.3.52 · p. 32
अनुष्टुप्
अश्लेषाभूः कबन्धः स्यादार्द्रालुब्धक अङ्घ्रिजः ।छायापथो देवपथोऽपत्ये दैवपथायनिः ॥ ५३ ॥
1.3.53 · p. 32
अनुष्टुप्
मन्दश्-छायातनयः पातंगि-क्रूरदृक्-शनयः ।असित-शनैश्चर-नीलाम्बर-यम-सप्तार्च्चिषः कोणः ॥ ५४ ॥
1.3.54 · p. 32
उपगीतिः
रेवतः स्याद्रैवतिकः पङ्गुः क्रोडश्च कोलवत् ।श्रुतश्रवोनुजो गृध्ररथः केकरलोचनः ॥ ५५ ॥
1.3.55 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रै (wrong syllable)
चन्द्रश्चन्दश्चन्दिरश्चद्रमाः सइन्दुः सिन्धूत्थः सुधांशुः सुधासूः ।तारापीडस्तारकेशो द्विजेशः ।राजा सोमः पक्षजन्मा परिज्मा ॥ ५६ ॥
1.3.56 · p. 32
शालिनी
क्लेदा स्नेहात्रेयकोऽत्र्यक्षिजो ग्लौःतुङ्गीशः सोमैणलक्ष्मा शशाङ्कः ।श्वेताश्वोऽब्जः पर्वकृच्छर्वरीकृत् ।विक्रस्रश्च कौमुदीशो विकुस्रः ॥ ५७ ॥
1.3.57 · p. 32
शालिनीmetre not read in every linenearly शालिनी: pāda 2, syllable 4 श्च (wrong syllable)
सुधानिधि-कलानिधी [22a] सवन ओषधीशो विधुःवलक्षगु-निशामणी तपस-रोहिणीवल्लभौ ।हिमद्युति-तमोनुदौ कुमुदिनीपतिः पारदोहरिः कुमुदबान्धवो दशहयश्च जैवातृकः ॥ ५८ ॥
1.3.58 · p. 32
पृथ्वीmetre not read in every line
छायाङ्क-रत्नकर-दर्शविपच्छुभाङ्ग-लक्ष्मीसगर्भ्य-खिदिरामति-सारसोर्णाः ।राकापतिर्ग्रहपतिस्तिजिलश्च सृप्रोगौरो नभश्चमस एणविशेषकश्च ॥ ५९ ॥
1.3.59 · p. 33
वसन्ततिलका
तिथिप्रणीश्च पाथोब्धिनवनीतमिहामृतम् ।प्रतिपच्चन्द्रमा मासप्रमितः परिकीर्त्तितः ॥ ६० ॥
1.3.60 · p. 33
अनुष्टुप्
सौमी स्यात्सोमदेवत्या सौम्या सोमीयमन्यवत् ।चन्द्रातपश्चन्द्रगोली चन्द्रिका कौमुदी तथा ।ज्योत्स्ना च षोडशोऽस्यांशः कलाऽसौ षोडशी ध्रुवा ॥ ६१ ॥
1.3.61 · p. 33
अनुष्टुप्
अमा महाकला बिम्बस्त्वस्त्री स्यान्मण्डलं त्रिषु ।नेमो ना खण्ड-शकल-खण्डलानि न योषिति ॥अर्द्धस्त्रिषु समेंऽशेऽर्द्धं भित्तं शल्कं दलं समम् ।स्त्री फालिरर्द्धा तज्जादावथार्द्धपरिमाणके ॥अर्द्धिकः स्त्री त्वार्द्धिकास्या भवेच्चान्द्रार्द्धिकाह्नि च ॥ ६३ ॥
1.3.63 · p. 33
अनुष्टुप्
भवेच्चन्द्रार्कं कुर्द्धकं सूर्यार्द्धकं तारार्द्धकं त[22b]था ।पूर्वार्द्धं पूर्वमर्द्धं स्यात्पश्चार्द्धं त्वपरं हि तत् ।पौर्वार्द्धिकं च पू[पौ?]र्वार्द्धं भवेत्पूर्वार्द्धसंभवम् ॥ ६५ ॥
1.3.65 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पौर्वार्द्धिकस्तु पौर्वार्द्धो भवेद्ग्रामैकदेशकेत्रिषु देशैकदेशेऽपि स्त्रियां पौर्वार्द्धिकी भवेत् ॥ ६६ ॥
1.3.66 · p. 33
अनुष्टुप्
अंशः स्याद्वण्टको भागः पादस्तु स तुरीयकः ।लक्षणं लक्ष्मणं लक्ष्म लाञ्छनं केतनोऽस्त्रियाम् ॥ ६५ ॥
1.3.65 · p. 33
अनुष्टुप्
अभिज्ञानं चिह्नमङ्कः कलङ्कोऽथ प्रसन्नता ।प्रसत्तिः स्त्री प्रसादो नाऽथो शोभा लवणा छविः ॥ ६६ ॥
1.3.66 · p. 34
अनुष्टुप्
आभाऽभिख्या विभूषा श्री-र्लक्ष्मी-कान्ति-द्युति-त्विषः ।राढा छाया विभ्रमो ना सुषमा परमा छविः ॥ ६७ ॥
1.3.67 · p. 34
अनुष्टुप्
वश्यायः स्यादवश्यायो नीहारोऽस्त्री तुषारकः ।वियद्बाष्पेन्द्राग्निधूमौ निशास्वेद-निशाद्रवौ ॥ ६८ ॥
1.3.68 · p. 34
अनुष्टुप्
अवश्या मिहिका च स्त्री प्रालेयं तुहिनं हिमम् ।**न स्त्री हिमानी तु धूमिका तु कुहेलिका ॥ ६९ ॥
1.3.69 · p. 34
अनुष्टुप्metre not read in every line
धूमरी धूममहिषी कुहरिर्दिग्वगुण्ठनम् ।शिशिरं शीतलं शीतं सुशीतमहिमास्त्रियाम् ॥
1.3.68 · p. 34
अनुष्टुप्
तुषारं च जडं क्लीबे गुणे तद्वति भेद्यवत् ।अस्ति यत्र[23a] हिमं तत्र हिमं हिम्यं भवेत्त्रिषु ॥ ७१ ॥
1.3.71 · p. 34
अनुष्टुप्metre not read in every line
च्व्यर्थे क्त्वान्तकृञो योगे स्याच्छीतंकृत्य तत्र च ।शीतंकृत्वाऽप्यव्यये द्वे पद्धिमं पादयोर्हिमम् ॥ ७२ ॥
1.3.72 · p. 34
अनुष्टुप्
ध्रुव औत्तानपादिः स्याद्ग्रहाधारः सुनीतिजः ।ज्योतीरथ्योऽप्यथागस्त्योऽगस्तिर्वातापिसूदनः ॥ ७२ ॥
1.3.72 · p. 34
अनुष्टुप्
आग्निमारुत आग्नेय और्वशेयो घटोद्भवः ।भवेदुदयनो मैत्रावरुणिः सिन्धुपो मुनिः ॥ ७३ ॥
1.3.73 · p. 34
अनुष्टुप्
द्वयोरगस्तयोऽगस्त्यगोत्रापत्येषु कीर्त्तिताः ।निवृत्तेऽगस्तिनाऽऽगस्त्यमागस्तीयास्तु तस्य ये ॥ ७४ ॥
1.3.74 · p. 34
अनुष्टुप्
लोपामुद्रा तु वरदा सा स्त्री कौपा[शा?]तकी मता ।मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥ ७५ ॥
1.3.75 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वसिष्ठ एते स्युः सप्तर्षयश्चित्रशिखण्डिनः ॥ ७६ ॥
1.3.76 · p. 35
वसिष्ठो गोभिनन्दी स्यादक्षमाला त्वरुन्धती ॥ ७७ ॥
1.3.77 · p. 35
भं नक्षत्रं धिष्ण्यमृक्षं तारावत्तारका त्रिषु ।न पुंस्युडु ग्रहोऽथ स्यात्तज्जे नाक्षत्रभे त्रिषु ॥ ७८-७९ ॥
1.3.77 · p. 35
अनुष्टुप्
दाक्षायण्यश्चन्द्रकान्तास्तारा अश्वयुगादयः ।अश्विन्यश्वकिनी दास्री वालिनी अश्वयुक्[23b] समाः ॥ ८० ॥
1.3.80 · p. 35
metre not recognised
त्रिषु जाते प्रत्ययान्ता वक्ष्यमाणास्तथा लुकि ।अथाऽश्वयुक्चाश्वयुजोऽश्विनीजातस्तथाश्विनः ।याम्या तु भरणी त्रय्यां तज्जे भरण-भारणौ ॥ ८१ ॥
1.3.81 · p. 35
अनुष्टुप्metre not read in every line
कृत्तिका बहुला भूम्नि तज्जे बहुल-कार्त्तिकौ ।ब्राह्मा[ह्मी] तु रोहिणी तत्र जाते रौहिण-रोहिणौ ॥ ८२ ॥
1.3.82 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रोहिणी त्वत्र जातायां सौम्यं तु मृगशीर्षकम् ।न पुंसि स्यान्मृगशिरः स्त्रियां स्यादाग्रहायणी ॥ ८३ ॥
1.3.83 · p. 35
अनुष्टुप्
मृगो मार्गोऽथैतदूर्ध्वं ताराः सौम्येन्वकेल्वलाः ।जातेऽत्र मार्गशिरसस्तथा मृगशिरा अपि ॥ ८४ ॥
1.3.84 · p. 35
अनुष्टुप्
आर्द्रा स्यात्कालिनी रौद्री तज्ज आर्द्रक उच्यते ।पुनर्वसौ यामकौ च सौरौ जातः पुनर्वसुः ॥ ८५ ॥
1.3.85 · p. 35
अनुष्टुप्
द्वयोः पुष्यस्तिष्यसिद्धौ[ध्यौ] बार्हस्पत्योऽप्यथात्रजे ।तिष्यः पौषोऽथ तिष्यस्य पुनर्वस्वोश्च भूम्न्यपि ॥ ८६ ॥
1.3.86 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इतरेतरयोगे स्यान्नित्यं द्विवचनान्तता ।द्वंद्वे पुनः स्यादश्लेषा सार्थाऽश्लेषस्तु तज्जनिः ॥ ८७ ॥
1.3.87 · p. 35
अनुष्टुप्
मघा पित्र्या भूम्नि जाते माघः स्यान्मघ इत्यपि ।फल्गुनी भगदेवत्या पूर्वा तज्जस्तु फल्गुनः ॥ ८८ ॥
1.3.88 · p. 35
अनुष्टुप्
तत्र जा[24a]ता यदि स्त्री स्यात्फल्गुनी सा निगद्यते ।उत्तरा स्यादार्यमणी तज्जाते त्वौत्तरोत्तरौ ॥ ८९ ॥
1.3.89 · p. 36
metre not recognised
रविदेवो द्वयोर्हस्तस्तज्जे हस्तोऽथ नृस्त्रियोः ।चित्रा त्वाष्ट्र्यथ तज्जा स्त्री चित्रा चैत्रो परो द्वयोः ॥ ९० ॥
1.3.90 · p. 36
अनुष्टुप्
स्वातिः स्वाती वायवी च सौवातः स्वातिरत्रजः ।राधे विशाखे ऐन्द्राग्न्यौ विशाखस्तज्ज ईरितः ॥ ९१ ॥
1.3.91 · p. 36
अनुष्टुप्
मैत्री स्यादनुराधायामनुराधस्तु तज्जनिः ।ऐन्द्री ज्येष्ठाऽथ तज्जातो ज्यैष्ठो ज्येष्ठश्च गद्यते ॥ ९२ ॥
1.3.92 · p. 36
अनुष्टुप्
कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्कुरः ।आश्रयो मूलमस्त्री स्यान्नैर्ऋत्यं मूलकोऽत्रजः ।पूर्वाषाढाम्बुदेवत्या स्यादषाढाऽत्रजाङ्गना ॥ ९३ ॥
1.3.93 · p. 36
अनुष्टुप्metre not read in every line
आषाढीयोऽपरोऽषाढो वैश्वदेवी मतोत्तरा ।अभिजिद्विधिदेवत्यस्तज्ज आभिजितोऽभिजित् ॥ ९४ ॥
1.3.94 · p. 36
अनुष्टुप्
अभिजिद्देवता यस्य स्यात्स आभिजितश्चरुः ।भवेदाभिजितस्तद्वन्मुहूर्त्तोऽभिजिता युतः ॥ ९५ ॥
1.3.95 · p. 36
अनुष्टुप्
स उत्तराया अन्त्योऽङ्घ्रिः श्रवणस्यादिमोऽभिजित् ।स्त्रीपुंसयोर्ऋक्षभेदे श्रवणं श्रुति[24b]कर्णयोः ॥
1.3.94 · p. 36
अनुष्टुप्metre not read in every line

इति रभसः ।

* * * श्रवणो द्वंद्वः श्रवणः श्रावणोऽत्रजः ॥ ९५ ॥
1.3.95 · p. 36
श्रविष्ठा वसुदेवत्या धनिष्ठा वात्रजः पुनः ।श्राविष्ठीयः श्रविष्ठश्च धानिष्ठोऽपि धनिष्ठवत् ॥ ९६ ॥
1.3.96 · p. 36
अनुष्टुप्
स्याद्वारुणी शतभिषक्तस्यां शतभिषा शतः ।अथो शतभिषग्जातः स स शातभिषो भवेत् ।तथा शतभिषक्तस्मिन्स्याच्छातभिषजोऽपि सः ॥ ९७ ॥
1.3.97 · p. 37
अनुष्टुप्
पूर्वोत्तरा भद्रपदा द्वय्यः प्रोष्ठपदा इमाः ।अजैकपादहिर्बुध्नदेवतास्तत्रजः पुनः ॥ ९८ ॥
1.3.98 · p. 37
अनुष्टुप्
भवेद्भाद्रपदः प्रौष्ठपादः प्रौष्ठपदोऽपि च ।रेवती पूषदेवी भनेमिस्तज्जा तु रेवती ॥ ९९ ॥
1.3.99 · p. 37
अनुष्टुप्
ध्रुवाणि भानि रोहिणी तथोत्तरात्रयं जगुः ।मृदूनि रेवती मृगः स मैत्रचित्रया युतः ॥ १०० ॥
1.3.100 · p. 37
पञ्चचामरम्
क्षिप्राणि तान्यश्वकिनी च हस्तःपुष्योऽभिजिद्याथ मघा त्रिपूर्वा ।याम्या तथोग्राप्यथ मूलमार्द्राज्येष्ठा हि दैवी च सुदारुणानि ॥ १०१ ॥
1.3.101 · p. 37
इन्द्रवज्रा
स्वातिः श्रविष्ठा श्रवणः पुनर्वसूयादःपतेर्भं च चराणि निर्दिशेत् ।मिश्राणि राधा बहुलेति सप्तधाभेदा उडूनां कथिता बु[25a]धोत्तमैः ॥ १०२ ॥
1.3.102 · p. 37
इन्द्रवंशाmetre not read in every line
श्राविष्ठीय इलेशो ज्ञो रौहिणेयः प्रहर्षणः ।पञ्चार्चिर्बुध एकाङ्गश्चान्द्रिश्चान्द्रमसायनिः ॥ १०३ ॥
1.3.103 · p. 37
अनुष्टुप्
वाचस्पतिः सुरगुरुर्गुरुरङ्गिरोजोजीवो बृहस्पतिरुतथ्यकनिष्ठ इज्यः ।स द्वादशार्चिरपि चित्रशिखण्डिजन्मास्याद्दीदिविर्धिषण-गीर्पति-फल्गुनीजाः ॥ १०४ ॥
1.3.104 · p. 37
वसन्ततिलका
प्र[च?]क्षाः प्रचक्षा वाग्वाग्मी [गी]रथश्च महामतिः ।रविरिन्दुः कुजः सौम्यो वागीश उशनाः शनिः ।राहुः केतुश्चेति नव ग्रहाः खेटाश्च कीर्त्तिताः ॥ १०५ ॥
1.3.105 · p. 37
अनुष्टुप्
मेषादयो द्वादश राशयो भ-क्षेत्राभिधाना उदयस्तु तेषाम् ।लग्नोऽस्त्रियामर्द्धकमस्य होराद्रेक्काणको लग्नतृतीयभागः ॥ १०६ ॥
1.3.106 · p. 38
इन्द्रवज्रा
मेषः क्रियोऽथ वृषभस्तावुरिनामाथ जितुमकं मिथुनम् ।कर्क-कुलीरौ लेयः सिंहः कन्या तु पार्थो[थो]नः ॥ १०७ ॥
1.3.107 · p. 38
आर्या
जूकस्तुलाथ कौर्पी वृश्चिकनामाऽश्वितौ क्षिकौ धनुषि ।आकोकेरो मकरो मृगोऽथ हृद्द्रुग्घटोऽथ मीनोऽन्त्यः ॥ १०८ ॥
1.3.108 · p. 38
गीतिः
मेषः कर्कटकस्तुला च मकरश्चत्वार एते चलाःगौः सिंहो [25b]लिघटौ स्थिराश्च मिथुनं कन्या धनुर्मीनकाः ।एते स्युर्विनिसर्गका अथ पुमानोको हि राशिस्थलंसंक्रान्तिर्भवति स्त्रियां रविगता चेदस्त्रियां संक्रमः ॥ १०९ ॥
1.3.109 · p. 38
शार्दूलविक्रीडितम्metre not read in every line
स्थिरभे विष्णुपदी स्यात्षडशीतिमुखं द्विशीलेषु ।मेषे तुलासु विषुवद्विषुवं त्वस्त्री पुमांस्तु विषुणोत्र ॥ ११० ॥
1.3.110 · p. 38
उद्गीतिः
कर्के दक्षिणमयनं मकरे तूत्तरमथांशकैः प्राक्चेत् ।संक्रमणं तरणेः स्याच्चलसंक्रम ईरितस्तर्हि ॥ १११ ॥
1.3.111 · p. 38
आर्याmetre not read in every line
संक्रान्तिध्रुवतारकेषु गदिता मन्दाथ मन्दाकिनीमृद्वीषूडुषु राक्षसी तु कथिता क्रूरेषु घोराः पुनः ।स्यादुग्रेषु महोदरीषु चरभे ध्वाङ्क्षी त्वसौ क्षिप्रभेमिश्रेषूडुषु मिश्रितेषु गदितास्ताः सप्तभेदा बुधैः ॥ ११२ ॥
1.3.112 · p. 38
शार्दूलविक्रीडितम्