भद्रमुस्तक
bhadramustakaपुं · masc.In 7 kośas: 5 synonym verses, 4 as a meaning of another word.
स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा ।
अनुष्टुप्
genderपुंmasc.
मुस्ता त्रय्यां मुस्तकोऽस्त्री गाङ्गेयी भद्रमुस्तकम् ।कुरुविन्दो मेघनामा गुन्द्रा राजकसेरुकः ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
गुन्द्रा तु सोत्तमा ख्याता स्यादपि भद्रमुस्तकः ।उलपो वल्वजा चैवं भवेत् कोमलघासकम् ॥ २१५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
genderपुंmasc.
श्रीभद्रो भद्रको भद्रा गुन्द्रा च भद्रमुस्तकम् ।उच्चटा चक्रला चूडा चूडाला चेचुडा भये ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
कैवर्ती मुस्तकेत्वासौ गुन्द्रायां भद्रमुस्तकः ।महोदरी वरारोहा नादेयी वलयो वरम् ॥ १९९ ॥
अनुष्टुप्
genderपुंmasc.
भद्रमुस्तक as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप गुन्द्रागुन्द्रा फलिन्यां स्त्री भद्रमुस्तके क्षुद्रवान्यके । गवीथुसंज्ञे ना त्वेष स्तम्बभेदे शराह्वये ॥ ३५७ ॥ Nānārthārṇavasaṃkṣepa 2.5.357
- शब्दरत्नावली क्रमुककरकः पक्षिभेदे स्याद् दाडिमे च पुमानयम् । वर्षोपले द्वयोरस्त्री कुसुम्भे च कमण्डलौ ॥ क्रमुकः स्यात् पुमानेव पट्टिकालोध्रपूगयोः । कार्पासिकाफले भद्रमुस्तके ब्रह्मदारुणि ॥ Śabdaratnāvalī 7.1.39
- शब्दरत्नावली खपुरखपुरोऽलसके भद्रमुस्तके क्रमुकेऽपि च । खर्परस्तु शठे चौरे भिक्षादिभाण्डगण्डयोः ॥ Śabdaratnāvalī 7.27.69
- त्रिकाण्डशेष गुन्द्रागायत्री खदिरे स्त्री स्याच्छन्दस्यापि षडक्षरे । गुन्द्रस्तेजनके गुन्द्रा प्रियङ्ग्वां भद्रमुस्तके ॥ ३४६ ॥ Trikāṇḍaśeṣa 3.3.346