कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शाकशाकिन

śākaśākinaक्ली · neut.

In 6 kośas: 6 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.965 · p. 38
क्षेत्रं तु शाकस्य शाकशाकटं शाकशाकिनम् ॥ ९६५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.13
शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम् ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.164 · p. 21
शाकशाकटमाख्यातमथवा शाकशाकिनम् ।शाकस्य क्षेत्रमन्येषामेवं क्षेत्रेषु संहतिः ॥ १६४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.600 · p. 184
स्याच्छाकशाकिनं चैवमिक्षुशाकटकादयः ।वंशो वेणुर्यवफलो वंशी कर्मार-मस्करौ ॥ ६०० ॥
अनुष्टुप्
genderक्लीneut.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1646 · p. 265
विज्ञेयं शाकशाकिनं शाकशाकटमित्यपि ।उत्पाद्यन्ते यत्र शाकास्तस्य नामद्वयमिदम् ॥ १६४६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 कि (wrong syllable); pāda 4, syllable 6 य (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.19 · p. 219
मालकोऽपि भवेत्क्षेत्रे वप्रो वप्यश्च सम्मतः ।शाकक्षेत्रे स्तृतं शाकं शाकटं शाकशाकिनम् ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.