कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānaratnamālā (Halāyudha)

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha)

889 verses · 7,659 words tagged · 1,100 marked doubtful (dashed)

भूमिकाण्डम् (1/4)

इति श्रीभट्टहलायुधकृतायामभिधानरत्नमालायां स्वर्गकाण्डं प्रथमं समाप्तम् ॥ १ ॥

द्वितीयं भूमिकाण्डम्

भूर्भूमिर्वसुधावनिर्वसुमती धात्री धरित्री धरा,गौर्गोत्रा जगती रसा क्षितिरिला क्षोणी क्षमा क्ष्माचला ।कुः पृथ्वी पृथिवी स्थिरा च धरणी विश्वम्भरा मेदिनी,ज्यानन्ता विपुला समुद्रवसना सर्वंसहोर्वी मही ॥ १५६ ॥
2.156 · p. 20
शार्दूलविक्रीडितम्
काश्यपी भूतधात्री च रत्नगर्भा वसुन्धरा ।धराधारा च विज्ञेया तद्विशेषान्निबोधत ॥ १५७ ॥
2.157 · p. 20
अनुष्टुप्
उर्वरा सर्वसस्या भूर्भवेदिरिणमूषरम् ।खिलमप्रहतं स्थानं मरुर्धन्वा स्थलं स्थली ॥ १५८ ॥
2.158 · p. 20
अनुष्टुप्
मृन्मृत्तिका प्रशस्तासौ मृत्सा मृत्स्नेति कथ्यते ।शाद्वलं हरितं प्रोक्तं नड्वलं नलसंयुतम् ॥ १५९ ॥
2.159 · p. 20
अनुष्टुप्
कृष्णभूमः प्रदेशोऽसौ यत्र स्यात्कृष्णमृत्तिका ।पाण्डुभूमस्तथा प्रोक्त उदग्भूमश्च पण्डितैः ॥ १६० ॥
2.160 · p. 20
अनुष्टुप्
नद्यम्बुजीवनो देशो नदीमातृक उच्यते ।वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातृकः ॥ १६१ ॥
2.161 · p. 20
अनुष्टुप्
मुद्गादीनां क्षेत्रं मौद्गीनं कौद्रवीणमित्यादि ।व्रैहेयं शालेयं भवति पुनर्व्रीहिशाल्योर्यत् ॥ १६२ ॥
2.162 · p. 21
metre not recognised
तिल्यं तैलीनं स्यान्माष्यं माषीणमुम्यमौमीनम् ।भङ्ग्यं भाङ्गीनं वा यव्यं षष्टिक्यमेषां च ॥ १६३ ॥
2.163 · p. 21
आर्या
शाकशाकटमाख्यातमथवा शाकशाकिनम् ।शाकस्य क्षेत्रमन्येषामेवं क्षेत्रेषु संहतिः ॥ १६४ ॥
2.164 · p. 21
अनुष्टुप्
अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः ।नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥
2.165 · p. 21
आर्या
नितम्बः कटको ज्ञेयः सानु प्रस्थं तटं भृगुः ।शृङ्गं च शिखरं कूटं निर्झरः प्रस्रवोऽम्भसाम् ॥ १६६ ॥
2.166 · p. 21
अनुष्टुप्
गुहा पाषाणसन्धिः स्यात्कन्दरः कन्दरा दरी ।निकुञ्जं गह्वरं प्रोक्तं पादाः प्रत्यन्तपर्वताः ॥ १६७ ॥
2.167 · p. 21
अनुष्टुप्
शिलोपलाश्मपाषाणग्रावाणः प्रस्तरो दृषत् ।गलिताः स्थूलपाषाणा गण्डशैला इति स्मृताः ॥ १६८ ॥
2.168 · p. 21
अनुष्टुप्
अयस्कान्तविशेषाः स्युश्चुम्बकभ्रामकादयः ।आकरः स्यात्खनिर्गञ्जा रुमा च लवणाकरः ॥ १६९ ॥
2.169 · p. 21
अनुष्टुप्
उच्यते गैरिकं धातुस्ताम्रं शुल्वमुदुम्बरम् ।आरकूटः स्मृतो रीतिः कांस्यं सौराष्ट्रकं तथा ॥ १७० ॥
2.170 · p. 21
अनुष्टुप्
गिरिसारमश्मसारं लोहं कालायसं तथा शस्त्रम् ।तीक्ष्णमयः पारशवं कवयः कथयन्त्यभिन्नार्थम् ॥ १७१ ॥
2.171 · p. 21
आर्या
सीसकं सीसपत्रं स्याद्वङ्गं च मधुकं त्रपु ।रजतं कलधौतं च रूप्यं तारं च कथ्यते ॥ १७२ ॥
2.172 · p. 21
अनुष्टुप्
हेम स्वर्णं जातरूपं सुवर्णं,भर्मं रुक्मं हाटकं शातकुम्भम् ।गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
2.173 · p. 22
शालिनी
जाम्बूनदं हिरण्यं कनकमहारजतकाञ्चनानि स्युः ।कार्तस्वरचामीकरकर्बुरतपनीयनामानि ॥ १७४ ॥
2.174 · p. 22
आर्या
अश्मगर्भं मरकतं हरिन्मणिरिति स्मृतः ।शोणाश्मा पद्मरागः स्याद्वैदूर्यं बालवायजम् ॥ १७५ ॥
2.175 · p. 22
अनुष्टुप्
स्फटिकः सूर्यकान्तः स्यादर्काश्मा दहनोपलः ।रत्नं वसु मणिः सर्वं सर्वं लोहं च तैजसम् ॥ १७६ ॥
2.176 · p. 22
अनुष्टुप्
वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,शालो वनस्पतिरगो विटपी कुठश्च ।अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
2.177 · p. 22
वसन्ततिलका
अवकेशी स विज्ञेयः फलैर्बन्ध्यस्तु यो भवेत् ।क्षुपो ह्रस्वशिफाशाखी फलवान् फलिनः फली ॥ १७८ ॥
2.178 · p. 22
अनुष्टुप्
वानस्पत्याः स्मृता वृक्षा ये पुष्प्यन्ति फलन्ति च ।फलन्ति ये विना पुष्पं तान्वदन्ति वनस्पतीन् ॥ १७९ ॥
2.179 · p. 22
अनुष्टुप्
फलपाकावसानास्तु बुधैरोषधयः स्मृताः ।लता प्रतानिनी वल्ली प्रततिर्व्रततिस्तथा ॥ १८० ॥
2.180 · p. 22
अनुष्टुप्
अवाग्भागो भवेद्वुध्नः प्राग्रं तु शिखिरं शिरः ।विस्तारो विटपः प्रोक्त आरोहस्तु समुच्छ्रयः ॥ १८१ ॥
2.181 · p. 23
अनुष्टुप्
स्कन्धादधः प्रकाण्डः स्यात्प्रघाणः स्कन्ध उच्यते ।स्कन्धशाखा तु शाला स्यान्निष्कुटः कोटरः स्मृतः ॥ १८२ ॥
2.182 · p. 23
अनुष्टुप्
त्वग्वल्कं वल्कलं प्रोक्तं मज्जा सार उदाहृतः ।करहाटं भवेत्कन्दः पादो मूलं जटा शिफा ॥ १८३ ॥
2.183 · p. 23
अनुष्टुप्
आवाल आलवालः स्यादावापः स्थानकं तथा ।लतोद्गमोऽवरोहस्तु प्रवालः पल्लवाङ्कुरः ॥ १८४ ॥
2.184 · p. 23
अनुष्टुप्
पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा ।वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः ।अङ्कूरश्चाङ्कुरः प्रोक्तो वृन्तं प्रसवबन्धनम् ॥ १८५ ॥
2.185 · p. 23
अनुष्टुप्
पुष्पं प्रसवः कुसुमं प्रसूनकं सुमनसः समाख्याताः ।कोरकजालककलिकाकुड्मलमुकुलानि तुल्यानि ॥ १८६ ॥
2.186 · p. 23
आर्या
उन्मीलितमुन्मिषितं स्मितमुन्निद्रं विजृम्भितं हसितम् ।उद्बुद्धं व्याकोशं पुष्पेषु विकाशवाचकाः शब्दाः ॥ १८७ ॥
2.187 · p. 23
गीतिः
पौष्पं रजः परागः स्यान्मकरन्दो मधुः स्मृतः ।स्तवको गुच्छको गुच्छो गुलुञ्छः परिकीर्तितः ॥ १८८ ॥
2.188 · p. 23
अनुष्टुप्
शलाटुः कोमलं प्रोक्तं वानं शुष्कफलं भवेत् ।बीजकोशी शमी शिम्बा ग्रन्थिः पर्व परुस्तथा ॥ १८९ ॥
2.189 · p. 23
अनुष्टुप्
उलपस्तम्बगुल्माश्च वीरुधो विटपाः स्मृताः ।शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥
2.190 · p. 24
अनुष्टुप्
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।उलपो वल्वजः प्रोक्त इषीका काश उच्यते ।हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
2.191 · p. 24
अनुष्टुप्
रम्भा कदली मोचा तृणराजः कथ्यते तलस्तालः ।कङ्केलिरशोकः स्यादाम्रश्चूतश्च सहकारः ॥ १९२ ॥
2.192 · p. 24
आर्या
मृद्वीका गोस्तनी द्राक्षा हारहूरा च कथ्यते ।प्रियङ्गुः फलिनी श्यामा कुटजो गिरिमल्लिका ॥ १९३ ॥
2.193 · p. 24
अनुष्टुप्
करवीरो हयमारो मालूरः श्रीफलो भवेद्विल्वः ।करुणो जम्बीरः स्याद्बदरी कुवली च कर्कन्धुः ॥ १९४ ॥
2.194 · p. 24
आर्या
अर्जुनं ककुभं प्राहुः सालं सर्जं च सूरयः ।झाबुकः पिचुलः प्रोक्त इज्जलो निचुलः स्मृतः ॥ १९५ ॥
2.195 · p. 24
अनुष्टुप्
अरिष्टः पिचुमन्दः स्यान्न्यग्रोधो वट उच्यते ।श्रीवृक्षः पिप्पलोऽश्वत्थो बुधैर्बोधिश्च कथ्यते ॥ १९६ ॥
2.196 · p. 24
अनुष्टुप्
ब्रह्मवृक्षः पलाशः स्यात्किंशुकश्च त्रिपत्त्रकः ।महावृक्षः स्नुहिः प्रोक्तः शेलुः श्लेष्मातकः स्मृतः ॥ १९७ ॥
2.197 · p. 24
अनुष्टुप्
नक्तमालः करञ्जः स्याद्वृषा वासाटरूषकः ।आरग्वधः कृतमालः स्वर्णपुष्पी च कथ्यते ॥ १९८ ॥
2.198 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
वृक्षोत्पलः कर्णिकारः पीतसालोऽसनः स्मृतः ।दण्डोत्पलः सहदेवा सल्लकी स्याद्गजप्रिया ॥ १९९ ॥
2.199 · p. 25
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ह (wrong syllable)
निर्गुण्डी सिन्दुवारः स्यान्मन्दारः पारिभद्रकः ।ताम्बूली नागवल्ली स्याद् गूवाकः पूग उच्यते ॥ २०० ॥
2.200 · p. 25
अनुष्टुप्
वानीरो वञ्जुलः शीतो विदुलो वेतसः स्मृतः ।गोक्षुरः स्थलशृङ्गाटः श्वदंष्ट्रा स्यात्त्रिकण्टकः ॥ २०१ ॥
2.201 · p. 25
अनुष्टुप्
पिचव्यो बादरः प्रोक्तः कर्पासस्तूलकं पिचुः ।कोशातकी पटोली स्याद् गिरिकर्ण्यपराजिता ॥ २०२ ॥
2.202 · p. 25
अनुष्टुप्
कथ्यते कृष्णला गुञ्जा तापिच्छः काकतुण्डिका ।किम्पाकः स्यान्महाकाल ओष्ठी विम्बी च तुण्डिका ॥ २०३ ॥
2.203 · p. 25
अनुष्टुप्
त्वचिसारश्च यो वंशो वेणुत्वक्सारमस्कराः ।स्वनन्ति येऽनिलोद्धूता वेणवस्ते तु कीचकाः ॥ २०४ ॥
2.204 · p. 25
अनुष्टुप्
नीला झिण्टी भवेद्वाणः पीता सहचरी भवेत् ।मालती कथ्यते जातिर्मागधी यूथिका तथा ॥ २०५ ॥
2.205 · p. 25
अनुष्टुप्
हेमपुष्पमिह नागकेसरं,केसरं च वकुलं प्रचक्षते ।कोविदारमपि काञ्चनारकं,मल्लिकां विचकिलं विचक्षणाः ॥ २०६ ॥
2.206 · p. 25
रथोद्धता
वर्णपुष्पममलानकं तथा,किङ्किरातमुदितं कुरण्टकम् ।ओड्रपुष्पमभिधीयते जपा,सप्तला च नवमालिका स्मृता ॥ २०७ ॥
2.207 · p. 25
रथोद्धता
बन्धूकं बन्धुजीवं स्यात्पुन्नागः सुरपर्णिका ।अतिमुक्तकमिच्छन्ति वासन्तीं माधवीं लताम् ॥ २०८ ॥
2.208 · p. 26
अनुष्टुप्
एर्वारुश्चिर्भटः प्रोक्तो वालुकी कर्कटी तथा ।कर्कारुरथ कूष्माण्डस्तुम्ब्यलाबूश्च दुग्धिका ॥ २०९ ॥
2.209 · p. 26
अनुष्टुप्
अरण्यमटवी सत्त्रं कान्तारं काननं वनम् ।विपिनं गहनं चेति नातिभिन्नार्थमिष्यते ॥ २१० ॥
2.210 · p. 26
अनुष्टुप्
तटोपकण्ठे या जाता वनराजी महीभृताम् ।उपत्यकां तु तामाहुरुपरिष्टादधित्यकाम् ॥ २११ ॥
2.211 · p. 26
अनुष्टुप्
नगरान्नातिदूरेण यः सद्भिरुपरोपितः ।तरुषण्डः स आरामस्तथोपवनमुच्यते ॥ २१२ ॥
2.212 · p. 26
अनुष्टुप्
विज्ञेयं प्रमदवनं नृपस्तु यस्मिन्,शुद्धान्तैः सह रमते गृहोपकण्ठे ।उद्यानं स्वयमपरैः समं च लोकै-रन्येषां विभववतां च पुष्पवाटी ॥ २१३ ॥
2.213 · p. 26
प्रहर्षिणी
मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
2.214 · p. 26
शार्दूलविक्रीडितम्
भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः ।वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ २१५ ॥
2.215 · p. 26
अनुष्टुप्
मूर्धपिण्डौ स्मृतौ कुम्भौ कुम्भयोरन्तरं विदुः ।करटः स्यात्कटो गण्डो वमथुः करसीकरः ॥ २१६ ॥
2.216 · p. 27
अनुष्टुप्
दानं मदो विषाणौ च दशनौ स्कन्ध आसनम् ।अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ २१७ ॥
2.217 · p. 27
अनुष्टुप्
अवग्रहो ललाटं स्यादारक्षः कुम्भयोरधः ।दन्तयोरुभयोर्मध्यं प्रतिमानं प्रचक्ष्यते ॥ २१८ ॥
2.218 · p. 27
अनुष्टुप्
कराग्रं पुष्करं प्रोक्तमङ्गुलिः कर्णिका मता ।पेचकः पुच्छमूलं तु पद्मं स्याद्विन्दुजालकम् ॥ २१९ ॥
2.219 · p. 27
अनुष्टुप्
लग्नः प्रभिन्नो मत्तः स्यादुपात्तो मदवर्जितः ।तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः ॥ २२० ॥
2.220 · p. 27
अनुष्टुप्
सज्जितः कल्पितो ज्ञेयो बहूनां घटना घटा ।चूषा कक्ष्या वरत्रा स्यादालानं स्तम्भ उच्यते ॥ २२१ ॥
2.221 · p. 27
अनुष्टुप्
पादकर्म यतं प्रोक्तं यातमङ्कुशवारणम् ।उभयं वीतमाख्यातं भेदः स्थूलोच्चयो गतेः ॥ २२२ ॥
2.222 · p. 27
अनुष्टुप्
करीरी दन्तमूलं स्याद्वारी च गजबन्धनम् ।निगडः पादबन्धश्च हिञ्जीरः शृङ्खलोऽन्दुकः ॥ २२३ ॥
2.223 · p. 27
अनुष्टुप्
कलभः करिपोतः स्यादङ्कुशः सृणिरुच्यते ।औपवाह्यो राजवाह्यः सन्नाह्यः समरोचितः ॥ २२४ ॥
2.224 · p. 27
अनुष्टुप्
व्यालो दुष्टगजः प्रोक्तो हस्तिनी तु वशा स्मृता ।आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।गजाजीवास्तु शास्त्रज्ञैर्महामात्रा इति स्मृताः ॥ २२५ ॥
2.225 · p. 27
अनुष्टुप्
कोलः क्रोडः शूकरः स्याद्वराहः,पोत्री दंष्ट्री घृष्टिरुक्तः किरिश्च ।व्याघ्रो द्वीपी पुण्डरीकस्तरक्षुः,शार्दूलः स्याच्चित्रकायो मृगारिः ॥ २२६ ॥
2.226 · p. 28
शालिनी
महिषः सैरिभ उक्तो रक्ताक्षः कासरो लुलायश्च ।वाध्रीणसश्च खड्गी गण्डक इति कथ्यते सद्भिः ॥ २२७ ॥
2.227 · p. 28
आर्या
ऋक्षाच्छभल्लभाल्लूकभल्लूकाश्च समाः स्मृताः ।अरण्यश्वा बुधैर्ज्ञेयः कोक ईहामृगो वृकः ॥ २२८ ॥
2.228 · p. 28
अनुष्टुप्
गोमायुर्भूरिमायः स्याच्छृगालो जम्बुकः शिवा ।फेरण्डः फेरवः फेरुः क्रोष्टा च मृगधूर्तकः ॥ २२९ ॥
2.229 · p. 28
अनुष्टुप्
एणः कुरङ्गो हरिणो मृगः स्यात्सारङ्ग ऋष्यः पृषतो रुरुश्च ।न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
2.230 · p. 28
इन्द्रवज्रा
बलीमुखो मर्कटको वनौकाः,प्लवङ्गमः स्यात्प्लवगः प्लवङ्गः ।हरिः कपिः कीश इमे च शब्दाः,शाखामृगो वानर इत्यभिन्नाः ॥ २३१ ॥
2.231 · p. 28
उपजातिः
गोलाङ्गूल इति प्रोक्तः कृष्णवक्त्रस्तु मर्कटः ।कपेः क्रीडादिकं किञ्चित्कापेयमिति कथ्यते ॥ २३२ ॥
2.232 · p. 29
अनुष्टुप्
शललः शल्लकः श्वावित्तत्सूची शललं शलम् ।व्याघ्रादयो वनचराः पशवः श्वापदाः स्मृताः ॥ २३३ ॥
2.233 · p. 29
अनुष्टुप्
गोधा मुशलिका प्रोक्ता गौधेरास्तत्सुता मताः ।सरटः कृकलासः स्यात्प्रतिसूर्यशयानकः ॥ २३४ ॥
2.234 · p. 29
अनुष्टुप्
आखुर्वृषो मूषकः स्यादुन्दुरः खनकस्तथा ।छुच्छुन्दरी च विज्ञेया विद्वद्भिर्गन्धमूषिका ॥ २३५ ॥
2.235 · p. 29
अनुष्टुप्
ओतुर्विडालो मार्जारो वृषदंशश्च कथ्यते ।जाहको गात्रसङ्कोची मण्डली च बुधैः स्मृतः ॥ २३६ ॥
2.236 · p. 29
अनुष्टुप्
पतन्पतङ्गः पतगः पतत्री,पत्त्री शकुन्तिः शकुनिः शकुन्तः ।वयो विहायो विहगो विहङ्गो,विहङ्गमः पत्त्ररथो गरुत्मान् ॥ २३७ ॥
2.237 · p. 29
उपजातिः
शकुनः खगो नगौकाः पक्षी विर्विष्किरस्तथा विकिरः ।अण्डजनीडजवाजिद्विजाश्च कथिताः समानार्थाः ॥ २३८ ॥
2.238 · p. 29
आर्या
तनूरुहं गरुत्पत्त्रं पतत्रं छदनं छदः ।पिच्छं वाजस्तथा पक्षः पक्षमूलं तु पक्षतिः ॥ २३९ ॥
2.239 · p. 29
अनुष्टुप्
पेशीकोशः स्मृतोऽण्डश्च कुलायो नीड उच्यते ।चञ्चुश्चञ्चूस्तथा त्रोटिर्डयनं गगने गतिः ॥ २४० ॥
2.240 · p. 29
अनुष्टुप्
केकी शिखी शिखण्डी प्रचलाकी वर्हिणः कलापी च ।सर्पाशनो मयूरः शिखावलः श्यामकण्ठश्च ॥ २४१ ॥
2.241 · p. 30
आर्या
वाणी केका शिखा चूडा चन्द्रको मेचकः स्मृतः ।प्रचलाकः शिखण्डश्च कलापो वर्ह उच्यते ॥ २४२ ॥
2.242 · p. 30
अनुष्टुप्
अन्यभृतः परपुष्टः कलकण्ठः कोकिलः पिकः प्रोक्तः ।कलविङ्कश्चटकः स्याद्गृहबलिभुक् नीलकण्ठश्च ॥ २४३ ॥
2.243 · p. 30
आर्या
क्रौञ्चः क्रुङ् स्यात्खञ्जनः खञ्जरीटःकोकश्चक्रश्चक्रवाको रथाङ्गः ।दार्वाघाटः सारसः पुष्कराख्यः,प्रोक्ता सद्भिः सारसी लक्ष्मणा च ॥ २४४ ॥
2.244 · p. 30
शालिनी
अरिष्टः करटः काको बलिपुष्टः सकृत्प्रजः ।एकदृग्बलिभुक् ध्वाङ्क्षश्चिरञ्जीवी च वायसः ॥ २४५ ॥
2.245 · p. 30
अनुष्टुप्
उलूकः कौशिकः प्रोक्तो ध्वाङ्क्षारातिर्निशाटनः ।काकोलो मौकलिर्द्रोणः कृष्णकाको वनाश्रयः ॥ २४६ ॥
2.246 · p. 30
अनुष्टुप्
कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ।किकिदीविः स्मृतश्चाषः शकुन्तो भास उच्यते ॥ २४७ ॥
2.247 · p. 30
अनुष्टुप्
भृङ्गः कलिङ्गो धूम्याटः सारङ्गश्चातको मतः ।व्याघ्राटस्तु भरद्वाजः शुकः कीर उदाहृतः ॥ २४८ ॥
2.248 · p. 30
अनुष्टुप्
आटिः शरारिरातिः स्यादुत्क्रोशः कुररो मतः ।दात्यूहो जलरङ्कुः स्यात्कोयष्टिः शिखरी स्मृतः ॥ २४९ ॥
2.249 · p. 30
अनुष्टुप्
वको वकोटो विज्ञेयो बलाका विस्रकण्ठिका ।आतायी शकुनिश्चिल्लो मद्गुः स्याज्जलवायसः ॥ २५० ॥
2.250 · p. 31
अनुष्टुप्
हंसाः श्वेतच्छदाः प्रोक्ताश्चक्राङ्गा मानसौकसः ।वारला हंसकान्ता स्याद्वरला वरटा तथा ॥ २५१ ॥
2.251 · p. 31
अनुष्टुप्
आताम्रै राजहंसाश्च धार्तराष्ट्राः सितेतरैः ।मलिनैर्मल्लिकाख्याश्च कथ्यन्ते चरणाननैः ॥ २५२ ॥
2.252 · p. 31
अनुष्टुप्
पक्षैराधूसरैर्हंसाः कलहंसा इति स्मृताः ।प्रोच्यन्ते प्राचिकाः श्येनाश्चटिकाः क्षुद्रपक्षिकाः ॥ २५३ ॥
2.253 · p. 31
अनुष्टुप्
जीवञ्जीवकपिञ्जलचकोरहारीतवञ्जुलकपोताः ।कारण्डवकादम्बक्रकराद्याः पक्षिजातयो ज्ञेयाः ॥ २५४ ॥
2.254 · p. 31
गीतिः
मधुकरमधुपमधुव्रतशिलीमुखभ्रमरभृङ्गपुष्पलिहः ।इन्दिन्दिरालिषट्चरणचञ्चरीकालिनो द्विरेफाः स्युः ॥ २५५ ॥
2.255 · p. 31
गीतिः
झिल्लीका चीरी स्यात्सरघा मधुमक्षिका भवेत्क्षुद्रा ।लूतोर्णनाभमर्कटजालिककृमयश्च तुल्यार्थाः ॥ २५६ ॥
2.256 · p. 31
आर्या
पतङ्गः शलभः प्रोक्तः खद्योतो द्योतिरिङ्गणः ।हालाहलश्चाञ्जनिका ज्येष्ठा स्याद्गृहगोधिका ॥ २५७ ॥
2.257 · p. 31
अनुष्टुप्
ग्रामः संवसथो ज्ञेयो ग्रामाधानं च खेटकम् ।ग्रामीणास्तु निगद्यन्ते ग्राम्या ग्रामेयका इति ॥ २५८ ॥
2.258 · p. 31
अनुष्टुप्
ग्रामान्तिकमुपशल्यं पर्यन्तः परिसरः कटः प्रोक्तः ।अवधिर्मर्यादा स्यादाघाटः सीम सीमा च ॥ २५९ ॥
2.259 · p. 31
आर्या
अध्वा पन्थाः पद्धतिरेकपदी वर्त्म वर्तनी सरणिः ।अयनं पदवी मार्गः पद्या च निगद्यते निगमः ॥ २६० ॥
2.260 · p. 32
आर्या
ग्रामयोरन्तरं दीर्घं प्रान्तरं परिकीर्त्यते ।घोष आभीरपल्ली स्यात्पक्कणः शवरालयः ॥ २६१ ॥
2.261 · p. 32
अनुष्टुप्
व्रजः स्याद्गोकुलं गोष्ठं गोवृन्दं गोधनं धनम् ।गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ २६२ ॥
2.262 · p. 32
अनुष्टुप्
उक्षानड्वान्वलीवर्दः ककुद्मान्वृषभो वृषः ।ऋषभः सौरभेयो गौर्वाडवेयोऽथ शाक्वरः ॥ २६३ ॥
2.263 · p. 32
अनुष्टुप्
तर्णकः स्मर्यते वत्सो दम्यो वत्सतरः स्मृतः ।आर्षभ्यः स च विज्ञेयः षण्ढत्वे यस्य योग्यता ॥ २६४ ॥
2.264 · p. 32
अनुष्टुप्
महोक्षः स्यादुक्षतरो वृद्धोक्षस्तु जरद्गवः ।धुरं वहति यो धुर्यो धौरेयः स च कथ्यते ॥ २६५ ॥
2.265 · p. 32
अनुष्टुप्
स्थूरी स्यात्पृष्ठवाह्यस्तु स्कन्धिकः स्कन्धवाहकः ।अंसकूटस्तु ककुदं सास्ना स्याद्गलकम्बलः ॥ २६६ ॥
2.266 · p. 32
अनुष्टुप्
नीचकी च शिरोदेशः स्कन्धदेशो वहः स्मृतः ।नस्योतो नस्तितः प्रोक्तः षोडन् षड्दशनः स्मृतः ।भग्नशृङ्गस्तु कूटः स्याद्विषाणं शृङ्गमुच्यते ॥ २६७ ॥
2.267 · p. 32
अनुष्टुप्
अघ्न्या गौर्माहेयी सुरभिर्बहुला च सौरभेयी च ।उस्रार्जुनी च रोहिण्युक्तानडुही बुधैरनड्वाही ॥ २६८ ॥
2.268 · p. 32
गीतिः
वेहद्वृषभोपगता प्रष्ठौही गर्भिणी वशा बन्ध्या ।धेनुर्नवप्रसूता वष्कयणी प्रौढवत्सा स्यात् ॥ २६९ ॥
2.269 · p. 32
आर्या
अवतोका स्रवद्गर्भा भद्रा गौर्गोमतल्लिका ।अचण्डी सूरता प्रोक्ता वत्सकामा तु वत्सला ॥ २७० ॥
2.270 · p. 33
अनुष्टुप्
ऊधः स्यादापीनं पीनोध्नी पीवरस्तनी प्रोक्ता ।श्रेष्ठा च नैचिकी स्याद्द्रोणदुघा प्रचुरदुग्धा च ॥ २७१ ॥
2.271 · p. 33
metre not recognised
काल्योपसर्या प्रजने प्रसिद्धा,परेष्टुका च प्रचुरप्रसूतिः ।विजायते या प्रतिवत्सरं गौः,समांसमीनेति निगद्यतेऽसौ ॥ २७२ ॥
2.272 · p. 33
उपजातिः
गृष्टिः सकृत्प्रसूता स्यात्पलिक्नी बालगर्भिणी ।गव्यं गोसम्भवं सर्वं करीषं गोमयं स्मृतम् ॥ २७३ ॥
2.273 · p. 33
अनुष्टुप्
ऊधस्यं क्षीरं स्याद्दुग्धं स्तन्यं पयश्च पीयूषम् ।दधिसारं नवनीतं ब्रुवते हैयङ्गवीनं च ॥ २७४ ॥
2.274 · p. 33
metre not recognised
तक्रमरिष्टमुदश्विद्दण्डाहतकालशेयमथितानि ।द्रप्सं दध्यघनं स्यात्सर्पिर्घृतमाज्यमाघारः ॥ २७५ ॥
2.275 · p. 33
आर्या