All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · वनौषधिवर्गः (6/15)
कुस्तुम्बरी हृद्यगन्धा वेसना कटु मद्रिका ।कुस्तुम्बरु स्त्रियां न स्याद्धन्याकं च वितुन्नकम् ॥ ८९ ॥
2.3.89 · p. 183
अनुष्टुप्
अजमोदा तु मिथुने मोदा स्यादुग्रगन्धिका ।खराश्वा हृद्यगन्धा च ब्रह्मदर्भा च कारवी ॥ ९० ॥
2.3.90 · p. 183
अनुष्टुप्
यवानिका[59b] मयूरश्च दीप्यः स्याल्लोचमस्तकः ।यवानो भूकदम्बः स्याद्भूतीको यवसाह्वयः ॥ ९१ ॥
2.3.91 · p. 183
अनुष्टुप्metre not read in every line
दीप्यो यवानिकाथान्यश्छोहरः पारसीयकः ।शतपुष्पा घोषवती शताह्वा कारवी मिसिः ॥ ९२ ॥
2.3.92 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घो (wrong syllable)
बहुपुष्पा सितच्छत्रा घोषा स्यान्माधवी शता ।अतिच्छत्रा तु महती छत्राऽवाक्पुष्पिका च सा ॥ ९३ ॥
2.3.93 · p. 183
अनुष्टुप्
अजाजी युज्यमाना स्याद्दीर्घको जीरकोऽस्त्रियाम् ।कणा च कणजीरश्च जरणो मेध्यमित्यपि ॥ ९४ ॥
2.3.94 · p. 183
अनुष्टुप्
कृष्णाजाजी वर्षकाली मोचाटश्च सुगन्धकः ।कलिकृष्णोपकाली स्यात्कलिका कारवी च सा ॥ ९५ ॥
2.3.95 · p. 183
अनुष्टुप्
उपकुञ्ची च कुञ्ची च पृथ्वीका सुषवी पृथुः ।स्यात्स्थूलकं भूमि * * दमनं माधवं च तत् ।सहस्रवेधि जतुकं बाह्लीकं हिङ्गुरस्त्रियाम् ।रामठं सूपधूपि स्याज्जरणं गूढगन्धि च ।तथा शूलघ्नमुदितं हरिद्रा तु निशाह्वया ॥ ९६ ॥
2.3.96 · p. 183
अनुष्टुप्metre not read in every line
विश्वेष्टा हरिता पीता पीतनी काञ्चनी तथा ।वेश्या पि[60a]ण्डा भद्रलता वर्णिनी वरवर्णिनी ॥ ९७ ॥
2.3.97 · p. 183
अनुष्टुप्metre not read in every line
दीर्घरङ्गा च पिञ्जा च भद्रा रोमशमूलिका ।योषित्प्रिया तुरंगा च जयन्ती विषनाशिनी ॥ ९८ ॥
2.3.98 · p. 183
अनुष्टुप्
शाकादिवासनद्भाडं(?) वेषवार उपस्करः ।शुण्ठी कणा च मरिचं कणामूलं च धान्यकम् ॥दाडिमं काञ्जिकं चेति वेसवारीयसप्तकम् ।शाकस्य भवनं क्षेत्रं क्लीबे स्याच्छाकशाकटम् ॥ ९९ ॥
2.3.99 · p. 183
अनुष्टुप्
स्याच्छाकशाकिनं चैवमिक्षुशाकटकादयः ।वंशो वेणुर्यवफलो वंशी कर्मार-मस्करौ ॥ ६०० ॥
2.3.600 · p. 184
अनुष्टुप्
शतपर्वा सुपर्वा च त्वचिसारस्तृणध्वजः ।मृत्युबीजः किलाटी च सतीनो रभकश्च यः ॥ १ ॥
2.3.1 · p. 184
अनुष्टुप्
तेजनः शब्दमालस्तु कीचको वायुना स्वनन् ।इक्ष्वालिको रामशरो वेत्रो गुन्द्रश्च तेजनः ॥ ३ ॥
2.3.3 · p. 184
अनुष्टुप्
पर्फरीकः पोटगलो नलोऽस्त्री मृत्युपुष्पकः ।धमनः शून्यमध्यश्च नड-नर्तक-रन्ध्रिणः ॥ ३ ॥
2.3.3 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
वंशादेरङ्कुरोऽस्त्री स्यात्करीरोऽथ तुका तुगाः ।तुगाक्षीरी तवक्षीरी त्वक्क्षीरी नादिमे शुभा ॥ ४ ॥
2.3.4 · p. 184
अनुष्टुप्
[60b]वैदेही क्षीरिका वांशी वंशकृद्वंशलोचना ।कम्बिः कुशा वंशखण्डे पत्राल्यां युगुले किटी ॥गुडे साधुर्य इक्षुः स्याद्गौडिकः स विशेष्यवत् ।स्याद्वांशभारिकश्चैक्षुभारिकस्तस्य वोढरि ॥इक्षुर्मधुतृणो भूरिरसः स्यादसिपत्रकः ॥ ५ ॥
2.3.5 · p. 184
अनुष्टुप्
गण्डी च गण्डकीवेणुनिःसृतो मृत्युपुष्पकः ।तृणराजः किष्कुपर्वा रसालो गुडदारु च ॥ ६ ॥
2.3.6 · p. 184
अनुष्टुप्
वेणुबीजं वेणुयवो वैणवं वेणुसंभवम् ।इक्षुमूलं मोरटं स्यादिक्ष्वाली चेक्षुबालिका ।रक्तेक्षुरित्कटः सूक्ष्मपत्रः कक्कटिका(?)पि सः ॥ ७ ॥
2.3.7 · p. 184
अनुष्टुप्metre not read in every line
रसालः पुण्ड्रकः पौण्ड्रः सुकुमारक इत्यपि ।दीर्घपर्वा तु कान्तारो वांसिको नीलयष्टिका ॥ ८ ॥
2.3.8 · p. 184
अनुष्टुप्
नेपालाद्या इक्षुभेदा अथ बर्हिः कुशोऽस्त्रियौ ।कुथो दर्भो यज्ञियः स्यात्पवित्रं यज्ञभूषणम् ॥ ९ ॥
2.3.9 · p. 184
अनुष्टुप्
श्वेतदर्भः पूतिदर्भो ह्रस्वदर्भो लवः कुशः ।क्षुरच्छदः संस्तरः स्यात्कुतपो मुनिशस्त्रकम् ॥ १० ॥
2.3.10 · p. 184
अनुष्टुप्
पिञ्जलं कुशवर्तिः[6la] स्यात्सग्रन्थि तु पवित्रकम् ।मुञ्जो विपूय इक्ष्वाकुः स्थूलदर्भः पितामहः ॥ ११ ॥
2.3.11 · p. 185
अनुष्टुप्metre not read in every lineLatin letters: la
शराह्व इत्कटोऽन्यस्तु भद्रमुञ्जो दृढत्वचः ।स्याद्ब्रह्ममेखलश्चाथ काशोऽस्त्री श्वेतचामरः ॥ १२ ॥
2.3.12 · p. 185
अनुष्टुप्
इक्षुपुष्पः स्वादुकन्दो दुषिका चेक्षुबालिका ।बल्वजो ना भूम्नि* स्यादुलपश्च प्रकीर्तितः ॥इक्षुः शालिः कुशः काशः शरः स्यात्तृणपञ्चकम् ।रौहिषं रोबलं(?) पूति भूतीकं कतृणं तृणम् ॥ १३ ॥
2.3.13 · p. 185
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ना (syllables merged)
ध्यामकं मुद्गलं पौरं श्यामकं विषगन्धिकम् ।दवदग्धं देवजग्धं दग्धं बिन्दुचितं वरम् ॥ १४ ॥
2.3.14 · p. 185
अनुष्टुप्
धूमगन्धं गन्धपोटमालनं पाचनं च तत् ।मालातृणं गुह्यबीजं बधिरं ध्वनिबोधनम् ॥ १५ ॥
2.3.15 · p. 185
अनुष्टुप्
पालघ्नो गोमयप्रेष्ठं छत्रातिच्छत्रकावपि ।भूतृणं च वियन्मूलं दूर्वा तु शतपर्विका ॥ १६ ॥
2.3.16 · p. 185
अनुष्टुप्
सहस्रवीर्या-भार्गव्यौ रुहानन्ता च मङ्गला ।हरिता हरिताली च श्यामाङ्गी शीतवल्लरी ॥ १७ ॥
2.3.17 · p. 185
अनुष्टुप्
गोलोमी च नमस्कार्या श[61b]तवीर्या च दुर्मरा ।विरजा मण्डली रुद्धशाद्वलं शल्यमस्त्रियाम् ॥ १८ ॥
2.3.18 · p. 185
अनुष्टुप्metre not read in every line
रणप्रियं वीरतरं वीरं वीरणमित्यपि ।उशीरमस्त्री तन्मूलमभयं नलदं च तत् ॥ १९ ॥
2.3.19 · p. 185
अनुष्टुप्
समगन्धं च सेव्यं च तत्पुनर्बहुमूलकम् ।देवदत्तं मृणालं स्याल्लामज्जं त्वमृणालकम् ॥ २० ॥
2.3.20 · p. 185
अनुष्टुप्
दीर्घमूलं शान्तमूलमवदाहं जलाशयम् ।सुनालं स्याल्लघुलयं लयं लघु च तोयजम् ॥ २१ ॥
2.3.21 · p. 185
अनुष्टुप्
इष्टकापथमप्युक्तं ह्रीबेरं त्वम्बुसंज्ञकम् ।बालकं पिङ्गलं तिक्तमुदीच्यं केशनाम च ॥ २२ ॥
2.3.22 · p. 185
अनुष्टुप्
बर्हिष्ठं स्यादाचमनमरिष्टं वज्रवद्रुचम् ।गुथो वृत्ततृणः शृण्टो गुडाकः पृथुकन्दकः ।गुच्छकन्दतृणं गुण्ठशृङ्गवेराभमूलकः ॥ १८ ॥
2.3.18 · p. 186
अनुष्टुप्
तृणमस्त्री द्वयोगर्मुन्नीवारादि नडादि च ।विकारे गर्मुदादीनां गार्मुतं मौञ्जमन्यवत् ।तृणं तु न स्त्री पर्पं च यवसं चार्जुनं च तत् ॥ २० ॥
2.3.20 · p. 186
अनुष्टुप्
शष्पं बालतृणं घासस्तृणता त्रिणता [62a]समे ।तृण्या स्त्री यावससंघे नड्मा तु नडसंहतिः ॥ २१ ॥
2.3.21 · p. 186
metre not recognised
बद्धे तु तृणसंघाते पूली लिङ्गत्रये भवेत् ।कुष्माण्डः स्यात्पुष्पफलः कर्क्कारुः स्त्री महाफलः ॥ २३ ॥
2.3.23 · p. 186
अनुष्टुप्
पीतका च घृणावासी सोमा स्थिरफलाऽमृता ।कुम्भाण्डी सोमगृष्टिर्द्विस्पृ (?) त्केवारुश्च कर्कटी ॥ २४ ॥
2.3.24 · p. 186
अनुष्टुप्
त्रपुसी शङ्कुलोर्वारुश्चिर्भिटी वालुकी स्फुटी ।मधुरा सा गुडफला कालिङ्गं तु कलिङ्गजम् ॥ २५ ॥
2.3.25 · p. 186
अनुष्टुप्
कृष्णबीजमथ द्वंद्वे तुम्ब्यलाबुस्त्रिलिङ्गका ।मधुरा सा राजपला राजालाबुरलाबुनी ॥ २६ ॥
2.3.26 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
शाकालाबूः स्तम्बकः स्यादिक्ष्वाकुस्तु महाफला ।वीणाफला तिक्तबीजा कटुतुम्बी च दुग्धिनी ॥ २७ ॥
2.3.27 · p. 186
अनुष्टुप्
राजपुत्री पिण्डफला राजन्यप्रवरा च सा ।बृहत्फला व्यालपत्री लोमशा स्वादु कर्कटा ॥ २८ ॥
2.3.28 · p. 186
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
गजदन्तफलैर्वारुवरा सा मूत्रलापि सा ।त्रपुसं च सुधावासो मूत्रलं लघुवालुकम् [62b] ॥ २९ ॥
2.3.29 · p. 186
अनुष्टुप्
हस्तिपर्णी पाण्डुपत्रा दीपनी कटु-वालुकी (के) ।चिर्भिटं स्वादु गोदुग्धं तथा गोरक्षकर्कटी ॥ ३० ॥
2.3.30 · p. 186
अनुष्टुप्
सुखावासं शीर्णवृन्तं वनत्रपुसकं मतम् ।मधुरान्या कर्क्कटकी वर्द्धमाना महाफला ॥ ३१ ॥
2.3.31 · p. 187
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 क (wrong syllable)
घण्टालिका स्वादुलुङ्गी देवदूता मधूच्छदा ।मधुवल्ली बीजपूर्णा मधुकर्कटिका च सा ।चीना कण्ठीनकं चीना तिन्दुकं तिण्डिशं च तत् ॥ ३२ ॥
2.3.32 · p. 187
अनुष्टुप्metre not read in every line
छागडं मिथुने तु स्यात्पटोलः कर्कशच्छदः ।राजिफलः पाण्डुफलः पटुस्तिक्तक इत्यपि ॥ ३३ ॥
2.3.33 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 जि (wrong syllable)
ज्यौत्स्नी जाली च राजीमास्तिक्तकश्चामृताफलः ।कुलकं कूलकोऽस्त्री स्यादथ राजपटोलकः ॥ ३४ ॥
2.3.34 · p. 187
अनुष्टुप्
ऊर्ध्वा सीतो बीजगर्भो रमणं त्वस्य पत्रकम् ।कोशातकी कोशावती घण्टाली श्वेतघोषिका ॥ ३५ ॥
2.3.35 · p. 187
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 शा (wrong syllable)
कृमिच्छिद्रा जालिनी च स्यान्मृदङ्गफलापि सा ।ज्यौत्स्ना पटोलिका जाली कर्क्कोटी कृतवेधनम् ॥ ३६ ॥
2.3.36 · p. 187
अनुष्टुप्
क्ष्वेडं [63a] धामार्गवो घोषो महाजाली तु पीतकः ।राजकोशातकी हस्तिपर्णी कर्क्कोटिकी तथा ॥ ३७ ॥
2.3.37 · p. 187
अनुष्टुप्metre not read in every line
धामार्गवः कोशफलोऽथैमी स्याद्धस्तिघोषिका ।महाकोशातकी च स्यात्तत्फलं जाङ्गुलं भवेत् ॥ ३८ ॥
2.3.38 · p. 187
अनुष्टुप्
वातिंगणं तु वृन्ताकं वार्ताकं तु नृलिङ्गकम् ।वार्ताकुः स्त्री चोरभाण्डी भण्टाकी शाकनायिका ॥ ३९ ॥
2.3.39 · p. 187
अनुष्टुप्
वार्ताककुसुमे प्रोक्तं पकुटं पुनपुंसकम् ।बिम्बी विद्रुमपाकी स्यात्तुण्डिकेरी च तुण्डिका ।पीलुपर्णी रक्तफला स्याद्विद्रुमफलापि सा ॥ ४० ॥
2.3.40 · p. 187
अनुष्टुप्metre not read in every line
छर्द्दन्योष्ठफला गाह्ला काञ्चनी तिन्तिडी च सा ।कटिल्लकः कारवेल्लो नासासंवेदनः कटुः ॥ ४१ ॥
2.3.41 · p. 187
अनुष्टुप्
उग्रकाण्डश्च कण्डीरः कारवल्लयम्बुवल्ल्यपि ।बृहदल्ली वृक्षवल्ली सुषवी सुकुमारिका ॥ ४२ ॥
2.3.42 · p. 187
metre not recognisednearly अनुष्टुप्
अल्पा तु क्षुद्रकाख्या*वन्ध्या कर्कोटिकी पुनः ।कुमारिका नागरिपुर्विषकण्टकिनी तथा ॥ ४३ ॥
2.3.43 · p. 188
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निष्फला मज्जदमनी देवी सा [63b] च मनोहरा ।विषमुष्टिः क्षुद्रमुष्टिः केशमुष्टिः सुमुष्टिका ॥ ४४ ॥
2.3.44 · p. 188
metre not recognised
काकाण्डो लावुकाकाण्डा खट्वा पर्यङ्कपादिका ।दधिपुष्पी कोश (ल?) शिम्बिर्भवेच्छूकरपादिका ॥ ४५ ॥
2.3.45 · p. 188
अनुष्टुप्
कुशिम्बिवल्ली कुत्साम्रशिम्बिः पुस्तकशिम्बिका ।फलशाकप्रभेदाः स्युर्व्याघ्राटं फाम्फटं तथा ॥ ४६ ॥
2.3.46 · p. 188
अनुष्टुप्
गोविन्दं रामकूष्माण्डं चित्रकूष्माण्डमित्यपि ।सर्वच्छत्रं भूमिकन्दं शिलीध्रं कवकं च तत् ॥ ४७ ॥
2.3.47 · p. 188
अनुष्टुप्
शिलीनं गोमयच्छत्रं गोनासं भूतकेसरम् ।भूमिस्फोटश्छत्रकश्च छत्राकं तु नपुंसके ।अजशृङ्गी हरिद्रा च विदारी सारिवामृता ॥ ४८ ॥
2.3.48 · p. 188
अनुष्टुप्
बलाख्यं पञ्चमूलं स्यादथ त्विक्षुरसैर्यकौ ।शतावरी च हिंस्रा च सुषेणः कण्टकाभिधम् ॥ ४९ ॥
2.3.49 · p. 188
अनुष्टुप्
नागरातिविषा मुस्तं त्रयमेतत्त्रिकार्षिकम् ।गुडूचीमिश्रितं चैतच्चतुर्भद्रं प्रकीर्तितम् ॥ ५० ॥
2.3.50 · p. 188
अनुष्टुप्
कुरण्टाद्या अग्रबीजा मूलजास्तूत्पलादयः ।इक्ष्वाद्याः पर्वजाः प्रो[64a]क्ताः स्कन्धजाः शल्लकीमुखाः ॥ ५० ॥
2.3.50 · p. 188
metre not recognised
सम्मूर्छजास्तृणाद्याः स्युः शाल्याद्या बीजसंभवाः ।इत्यौषधीकदम्बस्य षडेते मूलजातयः ॥ ५३ ॥
2.3.53 · p. 188
अनुष्टुप्
इति वनौषधिवर्गः ।
सिंहो हरिः पञ्चशिखो मृगेन्द्रो मृगारि-नागारि-नखायुधाः स्युः ।पारीन्द्र-कण्ठीरव-जङ्गमाद्रि-शैलाट-विक्रान्त-सकृत्प्रजाश्च ॥ १ ॥
2.3.1 · p. 189
उपजातिः
हर्यक्ष-पञ्चास्य-गभीरनादाः स्याच्छ्वेतपिङ्गश्च स केसरी च ।अष्टापदस्तूर्ध्वचतुष्पदः स्यादूर्ध्वेक्षणः स्याच्छरभो हरिद्विट् ॥ २ ॥
2.3.2 · p. 189
इन्द्रवज्रा
मृगराजः पञ्चनखः शार्दूलः श्वेतपिङ्गलः ।व्याघ्रो द्वीपी द्वीपिनोऽस्त्री हिंसीरोऽप्यथ चित्रकः ॥ ३ ॥
2.3.3 · p. 189
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
गुहाशयः पुण्डरीकः कर्बुरस्तीक्ष्णदंष्ट्रकः ।मृगादनस्तरक्षुः स्यात्तरक्षोप्यथ शूकरः ॥ ४ ॥ ५ ॥
2.3.4 · p. 189
अनुष्टुप्
सूकरः सूचिरोमा च भूमिदारः किरः किरिः ।स्थूलनासो वक्रदंष्ट्रो घृष्टिर्गृष्टिश्च घोषिलः ॥ ६ ॥
2.3.6 · p. 189
अनुष्टुप्
कोलः किटिः स्तब्धरोमा दंष्ट्री पोत्री च रोमशः ।वराहश्च मदारः [64b] स्याच्छिरोमर्मा बहुप्रजाः ॥ ७ ॥
2.3.7 · p. 189
metre not recognised
मुस्ताद-क्रोड-कुद्दाल-दंष्ट्रास्त्र-मुखलाङ्गलाः ।भवेदाखनिकश्चण्डः पीनस्कन्धो महांस्त्वयम् ॥ ८ ॥
2.3.8 · p. 189
अनुष्टुप्
क्रमरो विद्वरस्तु स्यात्तत्र ग्राम्येऽथ पोत्रिणः ।मुखाग्रभागः पोत्रं स्याद् घुरी घोणाथ भेद्यवत् ॥ ७ ॥
2.3.7 · p. 189
अनुष्टुप्
वाराहकं वराहेण निर्वृत्तेष्वथ वानरः ।कपिः कीशो वनौकाश्च प्लवङ्गः प्लवगः प्लवः ॥ ९ ॥
2.3.9 · p. 189
अनुष्टुप्
प्लवंगमः पूर्वगामी दुर्मुखश्च वलीमुखः ।शाखामृगो ग्राममृगोऽस्थिभञ्जो मण्डलो हरिः ॥ १० ॥
2.3.10 · p. 189
अनुष्टुप्
कपिलो मर्कटश्चाथ गोलाङ्गूलोऽसिताननः ।वाली वालिः शक्रसुतः सुग्रीवस्त्वर्कनन्दनः ॥ ११ ॥
2.3.11 · p. 189
अनुष्टुप्
तारापतिर्हनूमांस्तु हनुमान्वज्रकङ्कटः ।त्रेतामल्लो मारुतिः स्यादाञ्जनेयोऽर्जुनध्वजः ॥ १२ ॥
2.3.12 · p. 190
अनुष्टुप्
अक्षान्तकः केसरिजो भास्करच्छात्र इत्यपि ।कपिस्वभावः कापेयमथ भल्लूक-भल्लुकौ ॥ ११ ॥
2.3.11 · p. 190
अनुष्टुप्
ऋक्षो भालूक-भाल्लूकावच्छभल्लोऽपि भल्लवत् ।पिङ्गरोमा च[65a] नीलाण्डोऽप्यथ खड्गश्च खैलिकः ॥ १२ ॥
2.3.12 · p. 190
अनुष्टुप्metre not read in every line
खड्गी वाध्रीणसोऽपि स्याद्गण्डको महिषः पुनः ।कृष्णशृङ्गो दंशभीरुः शृङ्गी च यमवाहनः ॥ १३ ॥
2.3.13 · p. 190
अनुष्टुप्
रजस्वलो जरन्तः स्यात्कासरः सैरिभो महः ।वाहारिर्हेरम्बो धीरस्कन्ध-रक्ताक्ष-लालिकाः ॥ १४ ॥
2.3.14 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
स्याद्धंस-कालीतनयौ लुलायोऽपि घनाघनः ।अरण्यजेऽस्मिन्गवलो गवलं शृङ्गमस्य च ॥ १५ ॥
2.3.15 · p. 190
अनुष्टुप्
द्वंद्वेऽश्वमहिषं वैरे हयस्य महिषस्य वा ।जायमानविषाणाग्रः कग्रहो महिषीशिशुः ॥ १६ ॥
2.3.16 · p. 190
अनुष्टुप्
पिण्डारो महिषीपालः शृगालस्तु सृगालवत् ।क्रोष्टु-जम्बुक-जम्बूक-कृश्व-फेरव-फेरवः ॥ १७ ॥
2.3.17 · p. 190
अनुष्टुप्
फेरण्डः कुरवो भूरिमाय-गोमायु-वञ्चकाः ।मृगधूर्तो घोररासी भरुजश्च शिवा स्त्रियाम् ॥ १८ ॥
2.3.18 · p. 190
अनुष्टुप्
उल्कामुखी दीप्तजिह्वा शृगाली क्रोष्ट्रिका च सा ।किखिः स्त्रियामल्पशिवा लोपाकः पृथुफेरवः ॥ १९ ॥
2.3.19 · p. 190
अनुष्टुप्
भवेद्गृण्डिवलश्चाथ कोक ईहामृगो वृकः ।वनश्वा[65b] छागशत्रुश्च तिलिञ्छश्च मृगादनः ॥ २० ॥
2.3.20 · p. 190
अनुष्टुप्metre not read in every line
सर्पारिर्नकुलो बभ्रः पिङ्गलाङ्कुष-कैदिराः ।ठिकुरो गृहबभ्रुः स्यान्मकुलारिस्तु सूचकः ।मार्जालीयश्च मार्जार-पिङ्गनेत्रे बिडालकः ॥ २१ ॥
2.3.21 · p. 190
अनुष्टुप्
ह्रीकुरोतुश्च मायावी चित्राङ्गो वृषदंशकः ।मैनाद आखुभुग्दीप्तनेत्रो जिह्वापिबश्च सः ॥ २२ ॥
2.3.22 · p. 191
अनुष्टुप्
शालिस्तु गन्धमार्जारः फूत्यण्डः पुष्कलश्च सः ।पिङ्गलोडुबिडालः स्यादातुर्वनबिडालकः ॥ २३ ॥
2.3.23 · p. 191
अनुष्टुप्
ग्राम्यो वन्यस्तापजातः पक्षमार्जार-विद्गरौ ।सुगन्धिवृषणश्चेति षण्मार्जारभिदः स्मृताः ॥ २४ ॥
2.3.24 · p. 191
अनुष्टुप्
जाहको गात्रसंकोची मण्डली शल्यकः पुमान् ।सूचीधृक् सूचकी श्वाविच्छ*लः शललं शली ॥ २५ ॥
2.3.25 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शललस्तच्छलाकायां शलली शललं शलम् ।बिलेशया पञ्चनखी गोधा घोरप्रदा च सा ॥ २६ ॥
2.3.26 · p. 191
अनुष्टुप्
कृष्णसर्पात्तु गोधायां यो जातः स्याच्च[66a]तुष्पदः ।तत्र गौधेर-गौधार-गौधेया दुर्विषः क्वहिः ॥ २७ ॥
2.3.27 · p. 191
अनुष्टुप्metre not read in every line
मृगः कुरङ्गः सारङ्गोऽजिनयोनिः कुरंगमः ।मृडीकः किं च वातायुः प्रियाक्षश्च मरूकवत् ॥ २८ ॥
2.3.28 · p. 191
अनुष्टुप्
हरिणश्च समीची तु हरिणी च कुरंगमी ।स नैशो नैशिकश्च स्यान्निशायां वा हरेद्यदि ।दक्षिणेर्मा तु स मृगो यो व्याधैर्दक्षिणे क्षतः ॥ २९ ॥
2.3.29 · p. 191
अनुष्टुप्
स सपत्राकृतोऽन्योऽपि सपत्रेषुप्रवेशनात् ।योऽतिव्यथावानेवं स्यान्निष्पत्राकृत इत्यपि ॥ ३० ॥
2.3.30 · p. 191
अनुष्टुप्
परपार्श्वे सुपुङ्खेषुनिर्गमात्त्रिष्वमी त्रयः ।द्वयोर्वातप्रमीर्वातमजो योऽभ्यनिलं व्रजन् ॥ ३१ ॥
2.3.31 · p. 191
अनुष्टुप्
एणः कृष्णः कृष्णसारः कमलोऽथैणमस्य यत् ।चर्माद्यमेण्यास्त्वैणेयं त्रितयेऽथ कुरङ्गकः ।चतुरश्चारुगामी च किंचिल्लोहितकृष्णकः ॥ ३२ ॥
2.3.32 · p. 191
अनुष्टुप्metre not read in every line
चारुष्कः स्याच्चारुतनुः पृषतश्चित्रबिन्दुकः ।छिक्कारः कालपुच्छः स्याद्गोकर्णो दीर्घशृङ्गकः ॥ ३३ ॥
2.3.33 · p. 191
अनुष्टुप्
आधो निष्क्रान्तदन्तः स्यात्सुग[66b]न्धीर्मदतीमृगः ।* * * * * * * स्याद्वनगौश्चामरोऽपि च ।न्यङ्कुस्तु बहुशृङ्गः स्याद्रोहित्स्त्री रोहिताङ्गना ॥ ३५ ॥
2.3.35 · p. 192
अनुष्टुप्metre not read in every line
चमूरुः स्याच्चित्रमृगो रुरुर्मेघान्तशृङ्गमुक् ।कदली कन्दली चीनश्चमूरु-प्रियकावपि ।समूरुश्चेति हरिणा अमी अजिनयोनयः ।रिष्यर्श्य-रङ्कु * * * * * * * * * * *अष्टमश्चाष्टमश्च स्यात्पश्वङ्गावयवेऽन्यवत् ।* * * * * * * * रोहिताद्या मृगाः परे ॥ ३७ ॥
2.3.37 · p. 192
अनुष्टुप्metre not read in every line
गवयः स्याद्वनगवो गोसदृक्षोऽश्ववारणः ।पशुस्तिर्यञ्चलिः सर्वे वनजाः पशवो मृगाः ॥ ३८ ॥
2.3.38 · p. 192
अनुष्टुप्
सिंहादीनां स्त्रियां जातौ सिंही व्याघ्री च शूकरी ।वानरी हरिणी च स्याच्छम्बरी गवयीति दिक् ॥कडंकरं त्वर्हति यः कडंग(क)र्यः स भेद्यवत् ।पशुः कडंग(क)रोऽपि स्याच्चारिः स्त्री पशुभोजनम् ॥मृगेन्द्राद्या गवाद्याश्च सर्वे स्युः पशुजातयः ।रोमन्थो ना पशूनां यद्भवेच्चर्वितचर्वणम् ॥स रोमन्थायमानो यो हनुना व[67a]र्तयत्यमुम् ।गन्धर्वः शरभो रामः सृमरो गवयः शशः ॥ ३९ ॥
2.3.39 · p. 192
अनुष्टुप्metre not read in every line
इत्यादयो मृगेन्द्राः स्युः शशस्तु मृदुलोमकः ।लम्बकर्णो लोमकर्णः शूलिकश्च बिलेशयः ॥ ४० ॥
2.3.40 · p. 192
अनुष्टुप्
शशोर्णमन्ते तल्लोम्नि पृथुस्वल्पोदरा पुनः ।शशाभा मृगमाता स्यान्मुसली तु गृहोलिका ॥ ४१ ॥
2.3.41 · p. 192
अनुष्टुप्
गृहगोधा च माणिक्या मुशली च गृहोलिका ।कुड्यमत्स्या भित्तिपल्ली हालिनी तु हलाहलः ॥ ४२ ॥
2.3.42 · p. 192
अनुष्टुप्
स्यादञ्जनाधिका चाञ्जनिका स्थूलाञ्जना पुनः ।ब्राह्मणी रक्तपुच्छा च ज्येष्ठाथ सरटोऽण्डजः ॥ ४३ ॥
2.3.43 · p. 192
अनुष्टुप्
प्रतिसूर्यः शयानश्च कृकलासो घनोन्मदः ।मूषकोऽस्त्री द्वयोराखुर्मूखिको दहरो वृषः ।पुमांसो अयमियं वा आखुः ।निद्रीरेकारो(?) मूषकशब्दः पुंनपुंसकयोः ।आखुः*वक्र(?)दशना खनिका तुन्दुरून्दुरौ ॥ ४४ ॥
2.3.44 · p. 192
अनुष्टुप्metre not read in every line
वृषलोचन-सूच्यास्य-कर्व-गर्ताट-पापकाः ।नखी बिलेशयः पिङ्गो गन्धाखुः पुंवृषः स्मृतः [67b] ॥ ४५ ॥
2.3.45 · p. 192
अनुष्टुप्
छुछुन्दरी गन्धमूषी राजपुत्री सुमूषिका ।मूषिका जातिपुंयोगे मौषिकारस्तु तत्सुतः ।गिरिका बालमूषी च दीर्घतुण्डी तु घुर्घुरी ॥ ४६ ॥
2.3.46 · p. 192
अनुष्टुप्metre not read in every line
मृत्कीरी च दिवान्धा च लूता स्त्री जालकारिका ।जालिका तन्त्रवायोर्णनाभमर्कटका कृमिः ॥ ४७ ॥
2.3.47 · p. 192
अनुष्टुप्
अष्टपादूर्णनाभिः स्याल्लालास्रावः क्रिमिः कृमिः ।नीलङ्गुः कृकलश्च स्यान्नीलाङ्गुः कृमिरान्तरः ।नीलाङ्वादिर्द्वीन्द्रियोऽथ द्वंद्वे कीटो बहिर्भवः ॥ ४८ ॥
2.3.48 · p. 192
अनुष्टुप्metre not read in every line
अन्तर्जाश्च बहिर्जाश्च पुलका उभयेऽपि ते ।अणुः कृमिः कीकसः स्यात्काष्ठलेखकरो घुणः ॥कोशकारः कीटतन्तुर्गुणिमध्यः पलोधरः ।उद्दंशो मत्कुणो रक्तबीजः खट्वाकृमिश्च सः ॥ ४९ ॥
2.3.49 · p. 192
अनुष्टुप्
पिपीलकाद्याः कृमयस्त्रीन्द्रिया अथ पीलकः ।पिपीलकोऽथ हीनाङ्गो हीरा प्रोक्ता पिपीलका ॥ ५० ॥
2.3.50 · p. 192
अनुष्टुप्
ब्राह्मणी स्थूलशी[68a]र्षा स्याद्वम्री तूपपदी तथा ।उपजिह्वोपदेही च रिक्षा-लिक्षे समार्थके ॥ ५१ ॥
2.3.51 · p. 192
अनुष्टुप्metre not read in every line
घृतेली पिङ्गकपिशो यूषा षट्पदिकौदनी ।यूकालो मक्षिकालश्च त्रिषु यूकादिसंयुतः ॥विषशृङ्गी शृङ्गरोमा परणस्तृणषट्पदः ।गोपालिका महाभीरुर्गोमयोत्था तु गर्दभी ॥ ५२ ॥
2.3.52 · p. 192
अनुष्टुप्
स्यात्कोणकुण उद्दंश-किटिभोत्कुण-मत्कुणाः ।इन्द्रगोपस्ताम्रकृमिः कैटिरोऽग्निरजोऽन्तिमे ॥ ५३ ॥
2.3.53 · p. 194
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ता (wrong syllable)