वेणु
veṇuपुं · masc.In 21 kośas: 23 synonym verses, 8 as a nānārtha head word, 35 as a meaning of another word.
वंशो वेणुर्यवफलस्त्वचिसारस्तृणध्वजः ।मस्करः शतपर्वा च स्वनवान्स तु कीचकः ॥ ११५३ ॥
अनुष्टुप्
genderपुंmasc.
वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ॥शतपर्वा यवफलो वेणुमस्करतेजनाः ।
अनुष्टुप्
genderपुंmasc.
त्वचिसारश्च यो वंशो वेणुत्वक्सारमस्कराः ।स्वनन्ति येऽनिलोद्धूता वेणवस्ते तु कीचकाः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
तोषिणी वर्जिनी बाला विकटान्ता तरङ्गिणी ।दार्व्यां दारुहरिद्रा स्यात् वेणौ यवफलः स्मृतः ॥ २५१ ॥
अनुष्टुप्
genderपुंmasc.
स्यादिक्षुः खड्गपत्रश्च तत्सारे चन्द्रमारुतम् ।अनन्तकुसुमो वेणुः केतकी तु रजस्वला ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
मधुरो मधुशिग्रुः स्यात्सुगन्धो बहुलच्छदः ।अपि केसरिपर्यायोप्यथ वेणुर्महाबलः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
पिच्छोला स्वरनौकार्था झल्लरी झल्लरिः स्त्रियौ ।झर्झरश्चाथ वेणुस्तु वंशो विवरनालिका ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
स्याच्छाकशाकिनं चैवमिक्षुशाकटकादयः ।वंशो वेणुर्यवफलो वंशी कर्मार-मस्करौ ॥ ६०० ॥
अनुष्टुप्
genderपुंmasc.
वंशे यवफलो वेणुः शतपर्वा तृणध्वजः ।मस्करस्त्वचिसारस्त्वक्सारकर्मारतेजनाः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधः ।वेणौ तु वंशकर्मारौ मृत्युपुष्पस्तृणध्वजः ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
धत्तूरः कनकः प्रोक्तः केतकः क्रकचच्छदः ।कपित्थस्तु दधिफलो वेणुर्वंशस्तृणध्वजः ॥ ७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
genderपुंmasc.
मृदङ्गो मुरजो झिल्ली झिल्लिका कांस्यतालिका ।वेणुर्वंशी मुरलिका सुर्नाईकाष्टभेरिका ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
वंशादिकं तु सुषिरमानद्धं मुरजादिकम् ।विपञ्ची वल्लकी वीणा मुरलीवंशवेणवः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
हस्तिनः शिरसि दन्तौ दंष्ट्रा शुनवराहयोः ।मेघो मत्स्यो भुजङ्गमो वेणुर्मौक्तिकयोनयः ॥ १८५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable); pāda 3, syllable 7 ङ्ग (wrong syllable)
genderपुंmasc.
वंशो वेणुश्च कर्मारः शतपर्वा च मश्करः ।तृणध्वजोऽपि त्वक्सारस्त्वचिसारश्च तेजनः ॥ २०६५ ॥
अनुष्टुप्
genderपुंmasc.
युद्धवाद्यस्य पर्यायश्चान्ये भेदाः शलादयः ।मुखवाद्यं वभ्रूताली वेणुर्विवरनालिका ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
वज्रो वज्रद्रुमो वज्रा सिहुन्तश्च गुडा गुहा ।अस्त्री विडङ्गं वेणुश्च तण्डुलाश्चित्रतण्डुलाः ॥
अनुष्टुप्
genderपुंmasc.
उच्चटाख्ये त्वम्ब्लपत्रे क्वचित् केचित् प्रचक्षते ।वंशो वेणुर्यवफलो रम्भ-त्वकसार-तेजनाः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्वक (syllable split)
genderपुंmasc.
इन्द्रनीलमहनीलौ समौ मुक्ता तु मौक्तिकम् ।वराहशङ्खमत्स्याहिमेघद्विरदवेणवः ॥ १४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
genderपुंmasc.
त्वक्सारस्तेजनो वंशस्त्वचिसारस्तृणध्वजः ।मृत्युपुष्पो यवफलो वेणुः कर्मारमस्करौ ॥ ६५८ ॥
अनुष्टुप्
genderपुंmasc.
एकोनविंशतिर्मुद्रा विष्णोरुक्ता मनीषिभिः ।शङ्खचक्रगदापद्मवेणुश्रीवत्सकौस्तुभाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
श्रीगोपालार्चने वेणुर्नृहरेर्नारसिंहिका ।वराहस्य च पूजायां वाराहाख्यां प्रदर्शयेत् ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कटुभंगं शृंगिबेरमार्द्रमार्द्रकमस्त्रियौ ।वेणौ तु वंशकर्मारौ मृत्युपुष्पस्तृणध्वजः ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
वेणु as a meaning in nānārtha verses
- धरणिकोश यवफलयवफलः स्मृतो वेणौ कुटजेऽपि प्रयुज्यते । मदकलस्तु मत्तेभे मदेनाव्यक्तवागपि ॥ Dharaṇikośa 27.2.44
- धरणिकोश वंशवंशः संघे कुले वेणौ वाद्यभाण्डे विशेषतः । नासाविवरदेशे च पृष्ठमध्यास्थि च स्मृतम् ॥ Dharaṇikośa 29.3.5
- कोषकल्पतरु कीचकरसे सूतकोऽस्त्री जनौ त्वन्त्यलिङ्गः पशौ लूनकोऽथ त्रये भिन्नवाची । पुमान्कीचको दैत्यभेदे च वेणौ बधौ( ? )हीरको वृत्तभेदे तु षण्ढे ॥ ६८ ॥ Koṣakalpataru 6.1.68
- कोषकल्पतरु कार्मुकचापे च वेणावपि कार्मुकं स्यात् ॥ १०० ॥ Koṣakalpataru 6.1.100
- कोषकल्पतरु कुण्डलिन्स्यात्कुण्डली वारिपतौ पराभः सकुण्डले वेणुकरीरयोस्तु । नारङ्गके पुंसि च चोलकी स्या- त्स्याच्चर्मपाणौ फलकी च मत्स्ये ॥ ४४ ॥ Koṣakalpataru 6.21.44
- कोषकल्पतरु किष्कुपर्वन्इक्षौ तु किष्कुपर्वा पोटगले स्यात्तथा वेणौ । वृषपर्वा शर्वासुरशृङ्गारिकसेरुषु प्रोक्तम् ॥ ६६ ॥ Koṣakalpataru 6.21.66
- कोषकल्पतरु यवफलवेणौ भवेद्यवफलः कुटजे च मांस्यां हालाहलस्तुरगलालसमाह्वसर्पे । ज्येष्ठ्यां न योषिति विषेऽथ कुतूहलं स्या- च्छस्तेऽपि कौतुक उदीरितमेवमेव ॥ ७२ ॥ Koṣakalpataru 6.28.72
- कोषकल्पतरु ध्वनिमालास्त्रीणां दन्तक्षतभिदि मणिमाला स्यात्तथा हारे । वेणौ तु ध्वनिमाला वीणायां काहलायां च ॥ ८१ ॥ Koṣakalpataru 6.28.81
- कोषकल्पतरु वंशपशुर्मृगादौ प्रमथे च मेषे तिर्यक्षु सर्वेष्वसुमत्सु पुंसि । वेषोऽपि दुःखव्यवसाययोस्तु क्लेशोऽपि रागादिषु संप्रदिष्टः । वंशस्तु पृष्ठावयवे च वेणौ कुले च वर्गेऽप्यथ दंश आद्ये ॥ ९ ॥ Koṣakalpataru 6.30.9
- नानार्थार्णवसंक्षेप ऌएलखेलो वेणौ स्त्रियां खेला लीलायामथ खोडवाक् । ना कुलाये त्रिपुटके त्रि तु खञ्जेऽथ गव्यवाक् ॥ ३२३ ॥ Nānārthārṇavasaṃkṣepa 2.5.323
- नानार्थार्णवसंक्षेप वंशवंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले । नासोर्ध्वास्थ्नीक्षुभेदे च वंशवाद्ये तु सा स्त्रियाम् ॥ ११८३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1183
- नानार्थार्णवसंक्षेप अणीचिअणीचिस्तु पुमान् वेणौ त्रिषु शाकटिके मत । असौम्येऽक्षण्यदृष्टिः स्त्री दृष्टिहीने तु भेद्यवत् ॥ १३९ ॥ Nānārthārṇavasaṃkṣepa 4.139
- नानार्थार्णवसंक्षेप कर्माररभसस्त्वाह पटहे नान्दीवृक्षे च पुंस्यमुम् । कर्मारस्तु पुमान् वेणावयस्कारे द्वयोरथ ॥ ३६० ॥ Nānārthārṇavasaṃkṣepa 4.360
- नानार्थार्णवसंक्षेप कार्मुकवेणौ त्रिस्तु प्रभवति कर्मणे तत्र वस्तु यत् । कावृकः कृकवाकौ द्वे पीतमस्तककोकयोः ॥ ४४२ ॥ Nānārthārṇavasaṃkṣepa 4.442
- नानार्थार्णवसंक्षेप त्वक्सारवेणौ तृणद्रुमाख्येषु तालहिन्तालकादिषु । क्ली तु तत्प्रसवे स्त्री तु त्वक्सारा वल्लिषु स्मृता ॥ ८२६ ॥ Nānārthārṇavasaṃkṣepa 4.826
- नानार्थार्णवसंक्षेप तेजनधनदस्याथ वेणौ ना तेजनः शरसंज्ञके । स्तम्बे च स्त्री तु मूर्वायां ज्योतिष्मत्यां च तेजनी ॥ ८८७ ॥ Nānārthārṇavasaṃkṣepa 4.887
- नानार्थार्णवसंक्षेप न्यंशुकनहुषस्तु पुमान् पूर्वराजभेदे द्वयोः पुनः । मनुष्ये न्यंशुकस्तु स्याच्चन्द्रे वेणौ पुमांस्तथा ॥ १००५ ॥ Nānārthārṇavasaṃkṣepa 4.1005
- नानार्थार्णवसंक्षेप यवफलमेघनादो मेघघोष इन्द्रजित्तण्डुलीययोः । वेणौ तु स्याद्यवफलस्तथा कुटजपादपे ॥ १०० ॥ Nānārthārṇavasaṃkṣepa 6.100
- नानार्थार्णवसंक्षेप यवफलअथो यवफलो वेणौ कुटजाख्यद्रुमे च ना । अत्रापि पूर्ववत् सादि पुमांस्तु स्याद्यथासुखः ॥ ५१२ ॥ Nānārthārṇavasaṃkṣepa 6.512
- नानार्थार्णवसंक्षेप शतपर्वन्जाते तु तत्र त्रिर्लिङ्गसमासाद्यत्र पूर्ववत् । शतपर्वा तु ना वेणौ स्त्री दूर्वावचयोरपि ॥ ६०५ ॥ Nānārthārṇavasaṃkṣepa 6.605
- शिवकोष कण्टककण्टकः कोरके वेणौ पद्मबीजे तु कण्टकम् । स्त्री शाल्मलीकछुरयोः करकः सारलट्वयोः ॥ १९ ॥ Śivakoṣa 1.3.19
- शिवकोष शतपर्वकवेणाविक्षुभिदि स्त्री तु षड्ग्रन्थानीलदूर्वयोः । स्वादुकण्टक इत्येष क्षुरे कोल्यां विकङ्कते ॥ ७५ ॥ Śivakoṣa 1.5.75
- शिवकोष तेजनतेजनो ना शरे वेणौ तेजोह्वामूर्वयोः स्त्रियाम् । दहनोऽरुष्करे चित्रे धमनो नडनिम्बयोः ॥ २५४ ॥ Śivakoṣa 16.1.254
- शिवकोष किष्कुपर्वन्किष्कुपर्वा पुमानिक्षौ वेणौ पोटगलेऽपि च । कुञ्जराशनशब्दस्तु शल्लक्यामपि पिप्पले ॥ २८२ ॥ Śivakoṣa 16.3.282
- शिवकोष मृत्युपुष्पमृत्युपुष्पो नले काशे भूतावासेक्षुवेणुषु । रक्तपुष्पः कुरबकागस्तिशाल्मलिरोहिणि ॥ ३०१ ॥ Śivakoṣa 17.3.301
- शब्दरत्नावली किष्कुपर्वन्धातुवादरते कांश्यकारे कारन्धमी पुमान् । स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् ॥ इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् । अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते ॥ कपिभिद्गन्धकभृङ्गे पुंसि स्याद्गन्धमादनः । पर्वते न स्त्रियामेष सुरायां गन्धमादनी ॥ मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् । यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥ Śabdaratnāvalī 7.20.133
- शब्दरत्नावली ध्वनिनालाध्वनिनाला काहलायां स्याद्वेणुवीणयोः स्त्रियाम् ॥ Śabdaratnāvalī 7.28.108
- शब्दरत्नावली यवफलभद्रकाली च गन्धोल्यां कात्यायन्यामपि स्त्रियाम् । महाकालो महादेवे किम्पाके प्रथमान्तरे ॥ भवेन्मदकलो पचगजेऽव्यक्तप्रलापिनि । महाबलो बृहद्वीर्ये सीसकेऽपि च न द्वयोः ॥ महानीलो भृङ्गराजे मणिनागविशेषयोः । मणिमाला स्त्रियां हारे लक्ष्म्यां दन्तक्षतान्तरे ॥ मुक्ताफलञ्च कर्पूरे मौक्तिके लवलीफले । भवेद्यवफलो मांसकूटजप्लक्षवेणुषु ॥ रजस्वला पुष्पवत्यां महिषे तु रजस्वलः ॥ Śabdaratnāvalī 7.28.112
- शब्दरत्नाकर क्ष्वेलक्ष्वेला स्त्री सिंहनादे ना विषवेणुशलाकयोः । विलेखप्राज्ञयोः पुंसि कृष्टिराकर्षणे स्त्रियाम् ॥ १९०२ ॥ Śabdaratnākara 4.1.1902
- शब्दरत्नाकर वंशवेणौ वेश्मौर्ध्वकाष्ठे च खड्गांशे वाद्यभेदके । व्रजा गोष्ठाध्वनिवहा गोश्वासे वाहने वहः ॥ १९९३ ॥ Śabdaratnākara 4.1.1993
- शब्दरत्नाकर रेवटना स्वर्णघर्षणग्राव्णि रोषणः सरुषि त्रिषु । रेवटो वेणुवातूलविषवैद्येषु रेवटम् ॥ २१५२ ॥ Śabdaratnākara 4.1.2152
- त्रिकाण्डशेष कार्मुकवेणौ ना कार्मुकं चापे गुणवृक्षेऽपि कूपकः । कल्को विभीतके तैलादिशेषे चाथ कञ्चुकः ॥ १३ ॥ Trikāṇḍaśeṣa 3.3.13
- वैजयन्ती वंशभोजने लेपने लेपो लोकः स्याद्विष्टपे जने । वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ॥ ५२ ॥ Vaijayantī 6.1.52
- वैजयन्ती कण्टककुंभीरपुच्छे च जलस्थाने त्वृक्षर ऋत्विजि । वेणौ द्रुमांगे रोमाञ्चे क्षुद्रशत्रौ च कण्टकः ॥ १४ ॥ Vaijayantī 7.1.14
- वैजयन्ती शतपर्वन्विश्वावसुस्तु गन्धर्वभेदे ना स्त्री पुनर्निशि । वेणौ ना दूर्वावचयोः स्त्री बिले शतपर्व षण् ॥ २३ ॥ Vaijayantī 8.5.23