कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

1,012 verses · 6,994 words tagged · 1,188 marked doubtful (dashed)

चतुर्थः काण्डः (1/4)

धात्र्यां भू-भूमि-भूम्यः स्युः पृथवी पृथिवी पृथा ।धरित्री धरयित्री वसुधा सुधा वसुन्धरा ॥ १ ॥
4.1 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सु (wrong syllable)
विश्वा विश्वम्भरा क्षोणिः क्षोणी तद्वन्महिर्मही ।जगतिर्जगत्युर्वरोर्विरूर्वी ग्मा क्ष्मा क्षमा ॥ २ ॥
4.2 · p. 218
अनुष्टुप्metre not read in every line
अवन्यवनिर्धरणी धरणिर्धारया धरा ।केलिश्च केलिनी ख्याता महास्थल्यम्बरस्थली ॥ ३ ॥
4.3 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
दीर्घादय ईडेलेराश्च त्विडीडौ डान्तगौ मतौ ।अन्दताविड ईडश्च देवभिद्यपि तौ स्मृतौ ॥ ४ ॥
4.4 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इडेले सर्ग-नाडी-गो-बुध-स्त्री-वाक्ष्वपीरिते ।द्यावाभूम्योस्तु रोदस्यौ रोदसी रोदसी तथा ॥ ५ ॥
4.5 · p. 218
अनुष्टुप्
आद्यो ङ्यन्त इदन्तोऽन्यस्तृतीयः सान्तषण्ढगः ।द्यावापृथिव्यौ च दिवस्पृथिव्यौ च तथोदिते ॥ ६ ॥
4.6 · p. 218
अनुष्टुप्
दिवः पृथिव्यौ च क्षारभूम्यामुषरमूषरम् ।इरिणवदीरिणं भूः कृत्रिमोच्चा स्थला स्थलम् ॥ ७ ॥
4.7 · p. 218
अनुष्टुप्metre not read in every line
मृन्मृत्तिकाऽपि सा शस्ता मृत्सा मृत्स्नाऽपि खानिका ।लवणस्य रुमा नान्ता रुमाऽऽबन्तापि कथ्यते ॥ ८ ॥
4.8 · p. 218
अनुष्टुप्
वशिरो वसिरश्चापि सामुद्रलवणे मतौ ।सैन्धवे दन्त-तालव्यादिमं सीतशिवं स्मृतम् ॥ ९ ॥
4.9 · p. 218
अनुष्टुप्
माणीमन्थं माणिबन्धं रौमके, वसुकं वसु ।वस्तकं स्याद्, विड-विटौ पाक्ये, टङ्कस्तु टङ्कणे ॥ १० ॥
4.10 · p. 218
अनुष्टुप्
टङ्कनः पाचनकश्च पाचनस्तुग्घिका पुनः ।खर्ज्जिः स्यात् खर्ज्जिका देशे, विशयी विषयी तथा ॥ ११ ॥
4.11 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
विषयः पुंस्त्रियोर्नीवृदुपोपातस्तु वर्तनम् ।जाङगलो निर्जले देशे जाङगलो जडभूयसि ॥ १२ ॥
4.12 · p. 219
अनुष्टुप्metre not read in every line
नडकीयो नड्वलश्च नडांश्च, बहुशर्करे ।शर्करा शर्करिलोऽपि शर्करावांश्च शार्करः ॥ १३ ॥
4.13 · p. 219
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 रि (wrong syllable)
सिकता-वालुकाप्राये स्यात् सिकतिल-सैकतौ ।सिकतावान्, साखायः शाखिनेडाहाल-डाहलाः ॥ १४ ॥
4.14 · p. 219
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 सि (wrong syllable); pāda 3, syllable 5 सा (wrong syllable)
डहालाश्चेदयश्चैद्याः, साल्वाः सल्वा अपि स्मृताः ।वाह्लिका-वाह्लि-वाह्लीकाः, पाञ्चालाः स्युः पञ्चालवत् ॥ १५ ॥
4.15 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 प (wrong syllable)
कुङ्कणः कौङ्कणोऽप्युक्तो, द्रविडो द्रमिडोऽपि च ।ग्रामे तु वसथः सं-न्यु-प-प्रति-परितः परः ॥ १६ ॥
4.16 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 प्र (wrong syllable)
पल्लि-पल्ल्यौ गृह-गृहसमूह-स्थानकेष्वपि ।सीम-सिमौ क्षेत्र-सीम-गोचर-भू-हयेष्वपि ॥ १७ ॥
4.17 · p. 219
अनुष्टुप्metre not read in every line
मर्यादा घट आघाटः स्थविः स्थिविश्च सीमया ।सीमः सीमा त्रिषु नान्तो मालं ग्रामान्तराटविः ॥ १८ ॥
4.18 · p. 219
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्थि (wrong syllable); pāda 3, syllable 6 षु (wrong syllable)
मालकोऽपि भवेत्क्षेत्रे वप्रो वप्यश्च सम्मतः ।शाकक्षेत्रे स्तृतं शाकं शाकटं शाकशाकिनम् ॥ १९ ॥
4.19 · p. 219
अनुष्टुप्
अणुक्षेत्रे चाणवीनमणव्यमपि, भङ्गवत् ।भाङ्गीनं च भङ्गाक्षेत्रे, उमाक्षेत्रे तथोम्यवत् ॥ २० ॥
4.20 · p. 219
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 भ (wrong syllable)
औमीनं च यवक्षेत्रे यव्यं यवक्यं यावकम् ।माषाक्षेत्रे तु माषीणं माष्यं च, तृतीयाकृते ॥ २१ ॥
4.21 · p. 219
metre not recognised
शम्बाकृतं सम्बाकृतं, वापादौ द्रौण-दौणिके ।द्रोणस्य, खलधाने तु खलस्त्रिषु च, रेणुके ॥ २२ ॥
4.22 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म्बा (wrong syllable)
धूलि-धूल्यौ पांशु-पांसू रजो ना सान्तषण् रजः ।दलौ लोष्टो लेष्टुर्लोष्टुर्नाकौ कुलक-कूलकौ ॥ २३ ॥
4.23 · p. 219
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ले (wrong syllable)
नगरे नगरी द्रङ्ग-द्राङ्गौ पत्तन-पट्टने ।पुरस्त्रिषु पूः पुरिश्च, कन्याकुब्जं तु गाधिपूः ॥ २४ ॥
4.24 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 षु (wrong syllable)
कन्यकुब्जं, शिवपुर्यां कासिस्तालव्य-दन्त्यभृत् ।वराणसी वाराणसी वाणारसी वराणसिः ॥ २५ ॥
4.25 · p. 220
metre not recognised
कासी काश्यथाऽयोध्यायां कोसलोत्तरकोशला ।कर्णपुर्यां चम्पा चण्या, मथुरा मघुरान्विता ॥ २६ ॥
4.26 · p. 220
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 थाऽ (wrong syllable); pāda 3, syllable 5 च (wrong syllable)
मधूपघ्ने, गजाह्वये हस्तिनी हस्तिनायुतात् ।हास्तिनात् पुरं स्तम्बपूः लिप्तं स्यात्ताम-दामतः ॥ २७ ॥
4.27 · p. 220
metre not recognised
तामलिप्ती, विदर्भायां कुडिनी कुण्डिनात् पुरम् ।द्वारकाऽनिकाररेफा, सालस्तालव्य-दन्त्यभृत् ॥ २८ ॥
4.28 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
वरणे प्राकारः पारक् जान्तः क्षौमे तु अट्टवत् ।अट्टालकयुतोट्टालो, वृत्तौ वाटी च वाटिका ॥ २९ ॥
4.29 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
वाटो-वाटं वाटिरिव प्राचीनं च प्रचीरवत् ।मार्गे तालव्य-दन्त्यादिः सरणिः सरणी पथः ॥ ३० ॥
4.30 · p. 220
अनुष्टुप्
पन्थाः पन्थान-पथी वर्त्मनिर्वर्त्म वर्तनिः ।वर्तनी पदवी तद्वत् पदविः, सत्पथे पुनः ॥ ३१ ॥
4.31 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्वतितः पन्थाः, अपथमपन्था गूढवर्त्मनि ।भूमध्ये तु द्व्युकाराप्ता दन्त-तालव्यपूर्वगा ॥ ३२ ॥
4.32 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्थाः (wrong syllable)
शुरुङ्गा सन्धिला सन्धिः, स्थाने तु पदमास्पदम् ।पितृ-प्रेताद्वन-गृहे, धिष्ण्ये सदन-सादने ॥ ३३ ॥
4.33 · p. 220
अनुष्टुप्
गृहं गेहं धाम धामं मन्दिरं मन्दिरा कुटिः ।कुटः कुट्योकः सान्तं षण् पुंस्योकोऽदन्त उच्यते ॥ ३४ ॥
4.34 · p. 220
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कः (wrong syllable)
सत्रं सार्त्रं वस्त्यं पस्त्यं निवासा-ऽऽवास-वासकाः ।आवसथो वसितश्चोदवसितं न्याङ्युग्लयः ॥ ३५ ॥
4.35 · p. 220
metre not recognised
निकाय्य-निकायौ स्यातां स्यादागारमगारवत् ।चतुःशाले चातुःसाली जवनं यवनं समः ॥ ३६ ॥
4.36 · p. 221
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 5 चा (wrong syllable)
यमनं चोपकार्य्यावदुपकार्योपकारिका ।प्रसादनः प्रसादोऽपि देव-भूपगृहे समौ ॥ ३७ ॥
4.37 · p. 221
अनुष्टुप्
मठस्त्रिष्वावसथ्यश्चावसथः स्तूप-तूपकौ ।आयतनविशेषेऽथो मृतचैत्ये तु चैत्रवत् ॥ ३८ ॥
4.38 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
चित्यं च हविर्गेहे तु होत्रं होत्रीयवत्स्मृता ।आथर्वणे शान्तिगृहं शान्तीगृहं, तृणालये ॥ ३९ ॥
4.39 · p. 221
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable); pāda 4, syllable 3 गृ (wrong syllable)
कुटी-कुटि-कुडी तुल्ये, सूतका सूतिका परम् ।गृहं त्वरिष्टे, कारूणां कर्मशालाऽनुवासनम् ॥ ४० ॥
4.40 · p. 221
अनुष्टुप्
अन्वासनमावेशनं, भिल्लसद्मनि पक्वणः ।द्विककारोऽस्त्रियां, हट्टेऽट्टोऽस्त्रियां विपणिः स्त्रियाम् ॥ ४१ ॥
4.41 · p. 221
अनुष्टुप्metre not read in every line
विपणी चाऽपणो, वेश्याश्रये वेशः सवेषकः ।भित्तौ स्याद्भित्तिका कुड्य-कुट्ये अत्र तृतीयकौ ॥ ४२ ॥
4.42 · p. 221
अनुष्टुप्
तृतीयतुर्यवर्गस्थो, कुड्येऽन्तर्निहितास्थनि ।एडुकैडूके औडूपं, वितर्दौ वेदि-वेदिके ॥ ४३ ॥
4.43 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
प्राङ्गणाऽङ्गणे त्वजिरेऽङ्गनं स्याद्वलजे पुनः ।द्वाः स्री द्वारं च बारोपि, परिघेऽर्गलमर्गला ॥ ४४ ॥
4.44 · p. 221
अनुष्टुप्metre not read in every line
अर्गलो तथा वर्गल्यर्गलिका, द्वारयन्त्रके ।ताडकं तालकं चास्योद्घाटयन्त्रे तु तालिका ॥ ४५ ॥
4.45 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 था (wrong syllable)
प्रतिताल्यपि, कपाट्यां कपाटं च कपाटकः ।कवाटः कवाटी तुल्यौ कुवाटोऽररोऽऽररी ॥ ४६ ॥
4.46 · p. 221
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
अररी स्तम्भाद्यधःस्थदारौ प्रोक्ते शिली-शिले ।गोपानसिर्गोपानसी वक्रे वलभिच्छादने ॥ ४७ ॥
4.47 · p. 221
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (syllables merged)
दारौ, देहल्यामुम्बरोदुम्बरोऽम्बुरकास्त्रयः ।बहिर्द्वारप्रकोष्ठे तु प्रघाण-प्रघणौ समौ ॥ ४८ ॥
4.48 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मु (wrong syllable)
प्रघानः प्रघनोऽलिन्दे आलिन्दः पटलस्त्रिषु ।पटं छदिः छादिः सान्ते ल्कीत्वालेऽथेन्द्रकोशके ॥ ४९ ॥
4.49 · p. 222
अनुष्टुप्
तमङ्गस्तवङ्गश्छदिराधारे वलभीभवे ।वलभिर्वर्डभी तद्वद्वडभिश्च्यूडया समम् ॥ ५० ॥
4.50 · p. 222
अनुष्टुप्metre not read in every line
चूला मूलापि, गवाक्षे जालं जालकमित्यपि ।कुसूलस्तालव्यदन्त्यमध्यः स्यादन्नकोष्ठके ॥ ५१ ॥
4.51 · p. 222
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
अधिरोहिण्यां निःश्रेणिः निर्विसर्गाऽविसर्गयुक् ।निःश्रेणी, कोणोऽश्रिरस्रः पालिः पाली च पुत्रितः ॥ ५२ ॥
4.52 · p. 222
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ण्यां (wrong syllable)
का-ल्यौ पञ्चाली पाञ्चाली विच्छन्दका-विछर्दका ।नन्द्यावर्तप्रभृतिषु, समुद्गे संपुटः पुटः ॥ ५३ ॥
4.53 · p. 222
अनुष्टुप्metre not read in every line
मञ्जूषायां तु मञ्जूषा पेटा-पटिक-पेटकाः ।पेडा, व्यवहारिकायां तु वर्धनीवदवर्धनी ॥ ५४ ॥
4.54 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बहुकरो बहुकरा बहुकरा तयेरिते ।धूल्यादौ तु समः कार-कराववकरः स्मृतम् ॥ ५५ ॥
4.55 · p. 222
अनुष्टुप्metre not read in every line
खण्डनभाण्डे तु भवेदुदूखलमुलूखलम् ।उरूखलं किलिञ्जे तु कटः कटी कटं तथा ॥ ५६ ॥
4.56 · p. 222
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ण्ड (wrong syllable); pāda 4, syllable 3 क (wrong syllable)
मुसले मुषलोऽयोग्रमयोनिर्वंशनिर्मिते ।भाण्डे तु कण्डोलकः स्यात्कण्डोलः पिटकः पिटम् ॥ ५७ ॥
4.57 · p. 222
अनुष्टुप्
तितउः चालनी स्त्रीषण्, सूर्पं तालव्यदन्त्ययुक् ।प्रस्फोटनेऽन्तिकायां त्वश्मन्तमश्मन्तकान्वितम् ॥ ५८ ॥
4.58 · p. 222
अनुष्टुप्
अखन्तकमखन्तं च चुल्लि-चुल्ल्यावुदः परे ।हानं धानं ध्मानं च, पिठरस्त्रिषु चोखया ॥ ५९ ॥
4.59 · p. 222
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नं (syllables merged)
उखः स्थालं स्थालिः स्थाली कुण्डकुण्डी च कुण्डिवत् ।कुण्डी कुम्भिः कुम्भी घटे घटी कुटोऽस्त्रियां कुडः ॥ ६० ॥
4.60 · p. 223
metre not recognised
कलसः कलशः कुम्भस्त्रिष्वङ्गारकपात्रिका ।हसन्तिका हसन्ती च हसनी चाम्बरीषवत् ॥ ६१ ॥
4.61 · p. 223
अनुष्टुप्
अम्बारीषं, पिष्टपाकभृत्पृचीषमृजीषवत् ।दर्व्यां खजा खजाका च खजका खजिकापि च ॥ ६२ ॥
4.62 · p. 223
अनुष्टुप्
दारुहस्तके तु तर्द्रूस्तर्दूरपि गलन्तिका ।आडूरालूर्भवेदालुः कर्करीका च कर्करी ॥ ६३ ॥
4.63 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्त (wrong syllable)
करकोऽस्त्री लोहकर्णवत्पात्रे कटहः स्मृतः ।कटाहः कर्परस्तद्वत् खर्परस्त्रितयं त्रिषु ॥ ६४ ॥
4.64 · p. 223
अनुष्टुप्
अलिञ्जरे तु मणिको मणिर्गर्गर्या मन्थनिः ।मन्थनी कलशी तद्वत् कलशिः, क्षुब्धके मथः ॥ ६५ ॥
4.65 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 र्या (wrong syllable)
मथिर्मन्थान-मन्थकौ मथापो मन्थ एव च ।मन्था विशाखा-वैशाखौ खजकी खजका खजा ॥ ६६ ॥
4.66 · p. 223
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्थ (wrong syllable)
खजश्च खजको, मन्थविष्कम्भे कुटरस्तथा ।कुटकः शालाजिरे तु दन्त्यतालव्यपूर्वगः ॥ ६७ ॥
4.67 · p. 223
अनुष्टुप्
सरावो ना दृतिस्तत्र खल्लं खल्लश्च भाण्डिभित् ।ध्रुवका ध्रूवकाऽमत्रे पात्रं पात्री च पात्रकाः ॥ ६८ ॥
4.68 · p. 223
अनुष्टुप्
तद्विशालं स्थालं स्थाली, शैले तु धर-भूधरौ ।भूध्रोऽद्रिश्च शद्रि-सद्री शिखी स्याच्छैखरोपि च ॥ ६९ ॥
4.69 · p. 223
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्था (wrong syllable); pāda 3, syllable 4 श्च (wrong syllable)
क्रौञ्चे क्रुङ् तथा कौञ्जोऽपि, विन्ध्ये मेकल-मेखलौ ।उज्जयन्ते रैवतको रैवतश्चक्रवालवत् ॥ ७० ॥
4.70 · p. 223
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 था (wrong syllable); pāda 3, syllable 5 रै (wrong syllable)
चक्रवाडो लोकालोकाचले, मेरूः सुमेरूवत् ।स्वर्णाद्रावथ कन्दर्यां कन्दरा कन्दरं दरिः ॥ ७१ ॥
4.71 · p. 223
अनुष्टुप्metre not read in every line
कन्दरोऽपि दरो, दर्याः प्रस्थे प्रष्ठोऽपि सानुयुक् ।स्नुर्ना तालव्यमूर्धन्यमध्यौ पाषाणयुग्दृषत् ॥ ७२ ॥
4.72 · p. 224
अनुष्टुप्
शिलाशिल्यौ ग्रावाकारे खनी खानी खनिस्तथा ।निधितडागयोरप्येतौ द्वौ, धातौ तु गैरिकम् ॥ ७३ ॥
4.73 · p. 224
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ग्रा (wrong syllable); pāda 3, syllable 3 त (wrong syllable)
गवेरुकं च कस्सटी खटिनी च खटीयुता ।कठिन्यां ताम्र ऊदम्बमुदुम्बुरमुडुम्बरम् ॥ ७४ ॥
4.74 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्स (wrong syllable)
औदुम्बरं वरिष्ठं स्यात् त्रिकवर्गद्वितीययुक् ।वङ्गे त्रपु त्रपुस्तपुर्द्वे सान्ते त्रीणि षण्ढके ॥ ७५ ॥
4.75 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्त (wrong syllable)
तारे श्वेतं शितं रूप्यं रूप्रं भीरु सुभीरुकम् ।कनके स्वर्णं सुवर्णं स्यान्महारजतान्वितम् ॥ ७६ ॥
4.76 · p. 224
अनुष्टुप्
रजतं हेम हेमोऽस्त्री रुक्मं रुग्मं च रुक्मलम् ।शातकुम्भं शातकौम्भं हिरण्यं हिरणं तथा ॥ ७७ ॥
4.77 · p. 224
अनुष्टुप्
वराटशुक्रयोरप्येतौ स्यातां भर्म-भर्मणी ।शृङ्गी शृङ्गिरलङ्कारसुवर्णेऽथाऽऽरकूटके ॥ ७८ ॥
4.78 · p. 224
अनुष्टुप्
आरोऽस्त्री रिरी रीरी च कांस्यं स्याद्वङ्ग-शुल्वजे ।कंसं च पञ्चलोहे तु सौराष्ट्रं च सौराष्ट्रकम् ॥ ७९ ॥
4.79 · p. 224
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable); pāda 4, syllable 5 सौ (wrong syllable)
पारतः पारदः सूते चलश्च चपलोऽभ्रके ।अभ्रं गिरिजामलं स्याद् गिरिजं चामलं तथा ॥ ८० ॥
4.80 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
शिखिग्रीवे तुच्छाञ्जनतुच्छे पुष्पाञ्जने पुनः ।पौष्पकं पुष्पकं पुष्पं पुष्पकेतुवदाढकी ॥ ८१ ॥
4.81 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च्छा (wrong syllable)
तूबरी तुबरी प्रोक्ता मृत्तालकं मृतालकम् ।मृत्तिका मृत्स्नया मृत्सा, गन्धाश्मनि सुगन्धकः ॥ ८२ ॥
4.82 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
सौगन्धिकः सुगन्धश्च गन्धिको गन्धकोऽपि च ।गोदन्ते हरितालं स्यात् तालमालमलं तथा ॥ ८३ ॥
4.83 · p. 224
अनुष्टुप्
मनोगुप्तायां नेपाली नैपाली च मनः शिला ।शिला सिन्दूरे शृङ्गारे भवेच्छृङ्गारभूषणम् ॥ ८४ ॥
4.84 · p. 225
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 यां (wrong syllable); pāda 3, syllable 5 रे (wrong syllable)
हंसपादे हिङ्गुलोऽस्त्री हिङ्गुलुः स्यादथाश्मजे ।गिरिजं गैरेयं शैलं शैलेयं च शिलाजतु ॥ ८५ ॥
4.85 · p. 225
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 रे (wrong syllable)
बोले गोपरसो गोपो रसो गन्धरसान्वितः ।रत्ने मणिश्च माणिक्यं वैडूर्यं वालवायजे ॥ ८६ ॥
4.86 · p. 225
अनुष्टुप्
वैडूर्यमपीन्द्रनीले महानीलं तथाङ्परौ ।पनिकः पदिकश्चापीन्द्रकीलेऽपि वज्रके ॥ ८७ ॥
4.87 · p. 225
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
हीरश्च हीरको, राजपट्टे प्रोक्तो विराटजः ।वैराटोऽपि चन्द्रकान्ते चान्द्रोऽपि स्फटिके मतम् ॥ ८८ ॥
4.88 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
स्फाटिकं च, शक्तिजे तु मुक्ता मुक्ताफलान्विता ।मौक्तिकं च मकुतिकं भवेन्मुकुतिकं तथा ॥ ८९ ॥
4.89 · p. 225
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable); pāda 3, syllable 4 च (wrong syllable)
वणिग्द्रव्येऽपि, पानीये जीवनीयं च जीवनम् ।नीरं नारं भीरं वा स्त्री-क्लीबयोर्वारे वार्दरे ॥ ९० ॥
4.90 · p. 225
अनुष्टुप्metre not read in every line
उदकोदे दक-दगे कबन्धं बन्ध-मन्धके ।कमन्धमापः स्री भूम्नि आपः सन्तस्त्र्युत्सूत्सकौ ॥ ९१ ॥
4.91 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 स्त्र्यु (wrong syllable)
शम्बरं दन्त-तालव्यादिमं स्याच्छवरः शिवम् ।कृपीटं कृषीटमलं कमलं च शरं सरः ॥ ९२ ॥
4.92 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 कृ (wrong syllable)
सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् ।जलं जडं च सलिरं सरिलं सलिरं तथा ॥ ९३ ॥
4.93 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
सरिरं त्रिपकारं च पिप्पलं, स्यादगाधके ।अस्थाघमस्ताघा-ऽस्तागे गम्भीरं च गभीरवत् ॥ ९४ ॥
4.94 · p. 225
अनुष्टुप्
निम्ने चलागाधयोश्च, धूमिका धूमरी हिमे ।धूममहिष्यथाऽवश्याऽवश्यायौ, वारिधौ पुनः ॥ ९५ ॥
4.95 · p. 225
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 म (wrong syllable)
वार्द्धिर्वारिनिधिरुत्सोत्सू अपांपतिरप्पतिः ।यादसांपतिश्च यादःपतिश्चाप्यकूपारवत् ॥ ९६ ॥
4.96 · p. 226
metre not recognised
अकूवारः पारापारः पारावारोऽपि कथ्यते ।अवारपारस्तरङ्गे भङ्गो भङ्गं महत्पथम् ॥ ९७ ॥
4.97 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
लहरी लहरिः, फेन डिण्डीरः सहिण्डीरकः ।पिण्डीर-दिण्डिरौ तट्यां तटं तटः प्रतीरवत् ॥ ९८ ॥
4.98 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 हि (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
तीरं रोधोऽदन्तः पुंसि रोधः सान्तं नपुंसके ।जलोज्झितेस्मिन् पुलिनं पुरिनं सैकतं तथा ॥ ९९ ॥
4.99 · p. 226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
सिकता, नद्यां ह्रदिनी ह्रादिनी च धुनी धुनिः ।आपगाऽथाप्यपगा श्रोतो दन्त्य-तालव्यगादितम् ॥ १०० ॥
4.100 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्यां (wrong syllable)
स्रोतस्विनी स्रोतस्वती स्रोतोवहा स्रवन्तिका ।द्रवन्त्योषधिभेदेऽप्यमू भवेतां च, गोदया ॥ १०१ ॥
4.101 · p. 226
अनुष्टुप्metre not read in every line
गोदावरी, सुर्यात्मजा तापिस्तापी शतद्रुयुक् ।शुतुद्रिः शुतुद्रुरपि शितद्रुः सरयूयुता ॥ १०२ ॥
4.102 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 र्या (wrong syllable); pāda 3, syllable 4 शु (wrong syllable)
सरयुः कोसलानद्यां, नदीभेदे तु चन्द्रिका ।चन्द्रभागा चन्द्रभागी भागी चान्द्राच्च भागया ॥ १०३ ॥
4.103 · p. 226
अनुष्टुप्
वासिष्ठ्यां गोमती तद्वत् गोतमी स्याद्विपाड्युता ।विपाशोक्ता, वैतरणी वैतरणिरवन्तिगा ॥ १०४ ॥
4.104 · p. 226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त (wrong syllable)
सिप्रा सृपापि, स्वतोऽम्भःसरणे श्रोत उच्यते ।दन्त्य-तालव्ययुग्देहसिरास्वपि प्रवाहके ॥ १०५ ॥
4.105 · p. 226
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 स्व (wrong syllable)
वेणिर्वेणीवक्त्रं वक्त्रं पुटभेदेऽम्बुनिर्गमे ।परिवाह-परीवाहौ नाल-नादौ प्रनालिका ॥ १०६ ॥
4.106 · p. 226
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
प्रणालः प्रणालं तोयमार्गे सरणिः सारणी ।कुल्यायां सिकतायां तु वालुका वालिकापि च ॥ १०७ ॥
4.107 · p. 226
अनुष्टुप्metre not read in every line
बिन्दौ पृषतिः पृषतः पृषत्, पङ्के तु कर्दमः ।दमोऽपि, दीर्घिकायां तु वापिर्वापी च कूपके ॥ १०८ ॥
4.108 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष (wrong syllable)
क्षुद्रे चुरिश्चुरी चुण्ढिश्चुण्ढी च घटीयन्त्रके । उद्घाटकमुद्घाटनमुद्घातनमपि स्मृतम् ॥ १०९ ॥
4.109 · p. 227
कासारे तु तडागः स्यात् तडाकश्च तटाकवत् ।सरः-सरस्यौ स्थानकेऽलवालं चालवालयुक् ॥ ११० ॥
4.110 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स्था (wrong syllable)
आवालोऽस्त्री, उत्स उत्सुः स्रवः प्रस्रवणं झरः ।झरी झरा निर्झरश्च, वह्नावग्निस्तु पुं-स्त्रियोः ॥ १११ ॥
4.111 · p. 227
अनुष्टुप्
दमुना दमूना सन्ता वञ्चतिश्चाङ्कतिस्तथा ।शुष्मा बहिर्बर्हिः शुष्मा नान्तः शुष्मोऽस्त्यदन्तकः ॥ ११२ ॥
4.112 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मू (wrong syllable)
आश्रयाश आशयाश विश्वप्सा नान्तगो मतः ।विश्वप्सोऽपि नान्तो दान्तः, शन्त्रतोऽपि तनूनपात् ॥ ११३ ॥
4.113 · p. 227
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable); pāda 3, syllable 5 ना (wrong syllable)
घासिर्घसुरिर्हवनो हविश्च द्वौ वनात्परौ ।दवो दावो, हेतौ कीला कीलो ज्वालोऽपि ज्वालया ॥ ११४ ॥
4.114 · p. 227
metre not recognised
अर्चिरर्ची सन्तेदन्तावूष्मा नान्तः सहोष्मया ।बाष्पे, तडिति शम्पा स्यात् सम्पा शम्बा च विद्युता ॥ ११५ ॥
4.115 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
विद्युत् सौदामिनी सौदामनी सौदाम्निकान्विता ।सौदाम्नी च सुदाम्नी वा चपला चवला चला ॥ ११६ ॥
4.116 · p. 227
अनुष्टुप्
आकालिकी चाकालिका, वायौ मरुत-मारुतौ ।मरुत् समीर-समरौ सृमरोऽप्यनलानिलौ ॥ ११७ ॥
4.117 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 का (wrong syllable)
जगत्प्राणो-जगत्प्राणौ गन्धाद्वाहि-वाह-वहाः ।वातिर्वातो भवेत् सारो दन्त्य-तालव्यपूर्वगः ॥ ११८ ॥
4.118 · p. 227
अनुष्टुप्metre not read in every line
शबलवर्णेऽपि सरट्-सरडौ टान्त-डान्तगौ ।लघट् च लघिटिः पविः पवनः पवमानवत् ॥ ११९ ॥
4.119 · p. 227
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ब (wrong syllable); pāda 3, syllable 7 प (wrong syllable)
वातूलो वातुलो वातसमूहेऽथासहेऽपि च ।वातविकारस्याऽरण्ये षण्डं शण्डं वनं वनी ॥ १२० ॥
4.120 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त (wrong syllable)