कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वंशी

vaṃśīस्त्री · fem.

In 6 kośas: 9 synonym verses, 1 as a nānārtha head word.

सानेयिका स्यात् सानेयी सानिका सा च कथ्यते ।वंशी च वंशिका तल्ये अन्तीकाप्यन्तिरन्तिका ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.28 · p. 78
पाठिका स्यान्मधुकरी पाठो वंशश्च कीर्त्यते ।द्रगण(ड)स्तूर्यगण्डः स्याद्वंशी तु मुरली स्त्रियौ ॥स्यात्पुष्करं वाद्यमुखं टट्टरी पटहध्वनि ।वीणया तूपगायेद्यस्त्रिष्वसावुपवीणयन् ॥वीणावादो वैणिकः स्यान्नाडिध्व(?)स्ताडवादकः ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.600 · p. 184
स्याच्छाकशाकिनं चैवमिक्षुशाकटकादयः ।वंशो वेणुर्यवफलो वंशी कर्मार-मस्करौ ॥ ६०० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 292
पाय्यं हस्तादिभिस्तत्र वंशी तु त्रसरेणुकः ।षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1184 · p. 144
वंशी वन्यस्तु पुंसि स्याद् धान्ये मर्कटकाह्वये ।वेत्रे च स्त्री तु वन्या स्याद् वनवृन्दे लतान्तरे ॥ ११८४ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.221 · p. 16
मृदङ्गो मुरजो झिल्ली झिल्लिका कांस्यतालिका ।वेणुर्वंशी मुरलिका सुर्नाईकाष्टभेरिका ॥ २२१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.428 · p. 30
अथ वंशी च मुरली वंशिका वंशनालिका ।सानेयिका च सानेयी सानिका सूरनालिका ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.32 · p. 310
स्यात्तद्धितेऽपवादोऽयं त्रिलिङ्गत्वे स्त्रियामिह ।क्वचिदल्पविवक्षायां मृणाल्यादिरपि स्त्रियाम् ॥मृणाल्यल्पं मृणालन्तु प्रणाली मुषली घटी ।ह्रस्वो वंशस्तु वंशी स्यात्कुम्भीपाठी पटी नटी ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1819 · p. 221
रूपकाणि दशैतानि वंशो वंश्यथ खुङ्कणी ।किंनरी काण्डवीणा च कुवीणा सारिका च सा ॥ १८१९ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1183 · p. 144
वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ।नासोर्ध्वास्थ्नीक्षुभेदे च वंशवाद्ये तु सा स्त्रियाम् ॥ ११८३ ॥
अनुष्टुप्