कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सरिद्भेद

saridbheda

In 4 kośas: 0 synonym verses, 8 as a meaning of another word.

सरिद्भेद as a meaning in nānārtha verses

  • धरणिकोश सरस्वत्सरस्वती सरिद्भेदे सरिन्मात्रे च वाचि च । सरस्वती गवि क्वापि सरस्वानम्बुधौ नदे ॥ Dharaṇikośa 15.3.33
  • धरणिकोश आत्रेयआत्रेयो मुनिरात्रेयी सरिद्भेदो रजस्वला । शैलेयं तु सुगन्धि स्याच्छैलेयं तु शिलान्तरम् ॥ Dharaṇikośa 25.2.32
  • कोषकल्पतरु अधृष्यसरिद्भिदि स्त्री परुषस्य भावे पारुष्यमिन्द्रस्य वनेऽपि षण्ढे । ना गीष्पतौ स्यादथ ना भुजिष्यः सहाय उक्तः करसूत्रकेऽन्त्ये ॥ ७७ ॥ Koṣakalpataru 6.26.77
  • कोषकल्पतरु त्रिस्रोतस्सरिद्भेदेऽथ साधीयानतिसाध्वतिवाढयोः । मेघाम्बुध्योः पयोधा ना विबुद्धैः परिकीर्तितः ॥ ३१ ॥ Koṣakalpataru 6.31.31
  • शब्दरत्नावली चर्मण्यतीचन्द्रकान्तः कैरवे स्यान्मणिभेदे च पुंस्ययम् । चर्मण्यती सरिद्भेदकदलीद्रुमयोः स्त्रियाम् । चित्रगुप्तो धर्मराजे पुंसि तस्मैव लेखके ॥ Śabdaratnāvalī 7.16.162
  • शब्दरत्नावली रहस्यापानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46
  • शब्दरत्नावली कावेरीकटप्रूः कौणये पुंसि हाहि(?) रुद्रेऽक्षदेवने । कन्दरं कन्दरादर्यां कन्दूरस्त्वङ्कुशे पुमान् ॥ काश्मीरं कुङ्कुमे टङ्के क्लीबं पुष्करमूलके । कावेरी पण्यनार्याञ्च सरिद्भेदहरिद्रयोः ॥ Śabdaratnāvalī 7.27.62
  • वैजयन्ती सरस्वतीश्रेयसी हस्तिपिप्पल्यामभयारास्नयोरपि । सरस्वती सरिद्भेदे सरिन्मात्रे गवि क्षितौ ॥ ३३ ॥ Vaijayantī 8.5.33