All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
यान्ताः · यार्धश्लोकः
॥ यार्धश्लोकः ॥
कन्ये राश्यौषधीभेदौ कन्ये कुमारिकास्त्रियौ ।रथ्यो रथस्य वोढा रथ्या रथौघविशिखयोः ॥
25.2.1 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable); pāda 4, syllable 6 शि (wrong syllable)
सौम्यः सोमसुते मुग्धेऽभास्वरे सोमदैवते ।साध्यो योगे साधनीये साध्याः स्युर्दशदेवताः ॥
25.2.2 · p. 150
अनुष्टुप्
[72] वन्ध्यः स्यादफलो वृक्षो वन्ध्या चापत्यवर्जिता ।सूर्योऽर्कस्तत्प्रिया सूर्या सूर्या स्यात्काचिदोषधिः ॥
25.2.3 · p. 150
अनुष्टुप्
कक्ष्या प्रकोष्ठे हर्म्यामदेः काञ्च्यां मध्येभबन्धने ।लक्ष्यं छद्मनि विख्यातं लक्ष्यं संख्याविशेषके ॥
25.2.4 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शल्यश्च शल्यके रागे शङ्कौ च मदनद्रुमे ।मत्स्यो मीने विराटाख्ये देशेऽपि च जनान्तरे ॥
25.2.5 · p. 151
अनुष्टुप्
कायः शरीरे लक्षे च संघाते ब्रह्मदैवते ।प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः ॥
25.2.6 · p. 151
अनुष्टुप्
क्षयौ निलयकल्पान्तौ क्षयोऽपचयरोगयोः ।चयस्त्वाचयने वृन्दे प्राकारे मूलबन्धने ॥
25.2.7 · p. 151
अनुष्टुप्
रूप्यं प्रशस्तरूपं स्याद्रूप्यं रजतमिष्यते ।भाग्यं शुभात्मकं दैवं केवलं च शुभाशुभम् ॥
25.2.8 · p. 151
अनुष्टुप्
सह्यं विख्यातमारोग्यं सह्यौ सोढव्यपर्वतौ ।पाक्यं विदुर्यवक्षारे विटाख्यलवणेऽपि च ॥
25.2.9 · p. 151
अनुष्टुप्
चित्यं मृतकचैत्ये स्याच्चित्या मृतचितौ स्मृता ।मेध्यं पूतं वचा मेध्या मेध्या स्यात्सूक्ष्मपुष्पिका ॥
25.2.10 · p. 152
अनुष्टुप्
पेयं पानीयमाख्यातं पेया प्रपा च कीर्तिता ।याम्या तु भरणी ऋक्षं याम्या स्याद्दिक्च दक्षिणा ॥
25.2.11 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
वन्यं वनभवे वन्या जलारण्यसमूहयोः ।ग्राम्यं स्त्रीकरणेऽश्लीले ग्राम्यः स्यात्प्राकृतो जनः ॥
25.2.12 · p. 152
अनुष्टुप्
भव्यं श्रेयसि योग्ये च भव्यं भाविनि सुन्दरे ।मध्यं न्यायेऽवकाशे च लग्नके चावलग्नके ॥
25.2.13 · p. 152
अनुष्टुप्
याप्यं कुत्सितमिच्छन्ति याप्यं स्याद्यापनीयकम् ।संख्यं युद्धे च संख्या स्यादेकत्वादिविचारयोः ॥
25.2.14 · p. 152
अनुष्टुप्
पुण्यं त्रितयमुद्दिष्टं श्रेयःसुकृतसुन्दरम् ।दूष्यं पटकुटी प्रोक्ता दूष्यं दूषणमर्हति ॥
25.2.15 · p. 152
अनुष्टुप्
वीर्यं शुक्रे प्रभावे च बले तेजसि च स्मृतम् ।अर्घ्यं तु स्याद्यदर्घार्थमर्घ्योऽसौ योऽर्घमर्हति ॥
25.2.16 · p. 152
अनुष्टुप्
माल्यं सुमनसां माला माल्यं सुमनसोऽपि च ।धिष्ण्यं स्थाने च ऋक्षे च धिष्ण्योऽग्नौ धिष्ण्यमालये ॥
25.2.17 · p. 153
अनुष्टुप्
कश्यं प्रतोदमश्वानां कशार्हं मध्यमात्रकम् ।आस्यं वक्त्रान्तरे वक्त्रे आस्या च स्थितिरुच्यते ॥
25.2.18 · p. 153
अनुष्टुप्
चैत्यमायतनं विद्याच्चैत्यमुद्देशपादपः ।मलयो देश आरामे चन्दने पर्वतान्तरे ॥
25.2.19 · p. 153
अनुष्टुप्
वलयः कण्ठरोगे स्याद्वलयं कङ्कणं विदुः ।अनयो विपदि दैवे व्यसने दुर्णयेऽपि च ॥
25.2.20 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 दि (wrong syllable)
प्रणयः प्रेमणि ख्यातो याच्ञाविश्रम्भयोरपि ।अत्ययोऽतिक्रमे कृच्छ्रे दोषे च नाशदण्डयोः ॥
25.2.21 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
संनयः समवाये स्यात्पृष्ठस्थायिबलेऽपि च ।आशयं विदुराधारं स्यादभिप्राय आशयः ॥
25.2.22 · p. 154
अनुष्टुप्
विजया तिथ्यन्तरं गौरी विजयौ तु जयार्जुनौ ।अभये निर्भयोशीरे अभया च हरीतकी ॥
25.2.23 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 विज (syllable split)
तपस्या तपसां चर्या तपस्यो मासि फाल्गुने ।चक्षुष्या शुभगा प्रोक्ता चक्षुष्यमञ्जनादिकम् ॥
25.2.24 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्य (wrong syllable)
द्वितीया कथ्यते जाया पूरणी स्याच्च यद्द्वयोः ।अभिख्या कीर्तिता कीर्तावभिख्या नामशोभयोः ॥
25.2.25 · p. 154
अनुष्टुप्
वदान्यो दानशीले स्याद्वदान्यो वर्णवागपि ।पर्जन्यो मेघशब्दे स्यादिन्द्रे च ध्वनदम्बुदे ॥
25.2.26 · p. 154
अनुष्टुप्
भुजिण्या प्रैष्यमात्रे स्याद्भुजिष्यश्चानधीनकः ।प्रणाय्योऽसम्मते ख्यातश्चाभिलाषविवर्जिते ॥
25.2.27 · p. 155
अनुष्टुप्
प्रकीर्यः पूतिकरजे विनिकीर्ये च की[74]र्तितः ।अहार्यं ब्रुवते शैलं यच्च हर्तुं न शक्यते ॥
25.2.28 · p. 155
अनुष्टुप्
कुलायो नीडवद्दृष्टः स्थाने गेहे च पक्षिणाम् ।ऊर्णायुरिष्यते मेष ऊर्णायुर्मेषकम्बलः ॥
25.2.29 · p. 155
अनुष्टुप्
संस्त्यायः संनिवेशे स्यात्संघाते च प्रकीर्तितः ।उपायः सामभेदादावुपायः स्यादुपागतिः ॥
25.2.30 · p. 155
अनुष्टुप्
चाम्पेयश्चम्पके ख्यातश्चाम्पेयो नागकेशरे ।कालेयो दैत्यभेदे स्यात्कालेयं कालखण्डकम् ॥
25.2.31 · p. 155
अनुष्टुप्
आत्रेयो मुनिरात्रेयी सरिद्भेदो रजस्वला ।शैलेयं तु सुगन्धि स्याच्छैलेयं तु शिलान्तरम् ॥
25.2.32 · p. 156
अनुष्टुप्
ऐणेयमेण्याश्चर्माद्यं स्त्रीरतबन्धभेदयोः ? ।अश्वीयं हितमश्वस्य वृन्दमश्वस्य च स्मृतम् ॥
25.2.33 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
इन्द्रियं तु हृषीके स्यादिन्द्रियं चेतसि स्मृतम् ।सौकर्ये स्यादनायासः सौकर्यं सूकरक्रिया ॥
25.2.34 · p. 156
अनुष्टुप्
सौभाग्यं स्यात्सुभगता ग्रहयोगः स कीर्तितः ।सौरभ्यमाहुः सौगन्ध्यं सौरभ्यं च मनोज्ञताम् ॥
25.2.35 · p. 156
अनुष्टुप्
ब्राह्मण्यं ब्राह्मणत्वे स्यात्समूहे च द्विजन्मनाम् ।प्रसव्यं कविभिः प्रोक्तं प्रतिकूलानुकूलयोः ॥
25.2.36 · p. 156
अनुष्टुप्
हिरण्यं मानभेदे स्याद्धने हेमन्यकुप्यके ।ब्रह्मण्यो ब्रह्मसाधुः स्याद्ब्रह्मण्यश्च शनैश्चरः ॥
25.2.37 · p. 156
अनुष्टुप्
नेपथ्यं स्यादलंकारे रङ्गवाट्येऽपि च स्मृतम् ।अपसव्यं प्रतिकूलमपसव्यं च दक्षिणम् ॥
25.2.38 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
उपकार्या नृपावासो या चोपकारमर्हति ।प्रववनीयं समाख्यातं प्रवाच्ये च प्रवक्तरि ।प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये ॥
25.2.39 · p. 157
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)