कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

शेषकाण्डः · नानालिङ्गाध्यायः

इति एकाक्षरौ

इति भगवता यादवप्रकाशन विरचितायां वैजयन्त्यां शेषकाण्डे अभिधेयवल्लिङ्गाध्यायः

शेषकाण्डे नानालिङ्गाध्यायः

सुखाब्ध्यर्का अव्यथिषा अव्यथिष्यौ निशाक्षिती ।अवगीतं मुहुर्दृष्टे निर्वादे गर्हितेऽपि च ॥ १ ॥
8.5.1 · p. 277
अनुष्टुप्
पुमानधिपतिर्मूध्न आवर्तेऽधीश्वरे त्रिषु ।कांचने शारिफलके स्यादष्टापदमस्त्रियाम् ॥ २ ॥
8.5.2 · p. 277
अनुष्टुप्
अंबरीषं रणे वर्षे तृणे नार्ककिशोरयोः ।आत्मनीनः सुते स्याले प्राणधारिणि दूषके ॥ ३ ॥
8.5.3 · p. 277
अनुष्टुप्
आडंबरोऽस्त्री संरंभे पटहे गजगर्जिते ।उदुंबरो द्रुदेहल्योर्ना क्ली हेमाक्षताम्रयोः ॥ ४ ॥
8.5.4 · p. 277
अनुष्टुप्
वचाजमोदयोरुग्रगन्धा ना लशुने सिते ।कलधौतं रूप्यहेम्नोः षण्डस्त्री तु कलध्वनौ ॥ ५ ॥
8.5.5 · p. 277
अनुष्टुप्
कर्णपूरो वतंसे ना क्ली सौगन्धिक उत्पले ।काण्डपृष्ठः क्रीतसुते दत्ते शूद्रासुतांभसोः ॥ ६ ॥
8.5.6 · p. 277
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्री (wrong syllable)
शस्त्राजीवे च यश्चान्यकुलं याति स्वकं विना ।नासा गन्धवहा गन्धवहो मृगनभस्वतोः ॥ ७ ॥
8.5.7 · p. 277
अनुष्टुप्
जलेशयो जलकपौ मत्स्ये पद्मं जलेशयम् ।जीवितेशः प्रेतनाथे दयिते द्रविणागमे ॥ ८ ॥
8.5.8 · p. 277
अनुष्टुप्
जैवातृकश्चन्द्रभिषगायुष्मत्सु कृषीवले ।अम्ललोण्यां दन्तशठा त्रिष्वम्लेऽम्लगुणे तु ना ॥ ९ ॥
8.5.9 · p. 277
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
दुरोदरं नपुं द्यूते पणे द्यूतकरे तु ना ।नारायणी शतावर्यां लक्ष्म्यां गौर्यां च ना हरौ ॥ १० ॥
8.5.10 · p. 277
अनुष्टुप्
निश्चारको निर्गमके पुरीषोत्सर्गिमारुते ।निषद्वरी निशा कामकर्दमौ तु निषद्वरौ ॥ ११ ॥
8.5.11 · p. 277
अनुष्टुप्
निरूपणा नपुं स्त्री च निरीक्षणविचारयोः ।निशाचर्यसती फेरू रक्षः सर्पौ निशाचरौ ॥ १२ ॥
8.5.12 · p. 278
अनुष्टुप्
यूथभ्रष्टे पक्षचरः स्यादेकचरपक्षिणोः ।परायणमभिप्रेते तत्परे परमाश्रये ॥ १३ ॥
8.5.13 · p. 278
अनुष्टुप्
प्रतिष्कशः पुमान् द्यूते त्रिष्वग्रगसहाययोः ।अस्त्री प्रतिसरो हस्तसूत्रे ना तु चमूकटौ ॥ १४ ॥
8.5.14 · p. 278
अनुष्टुप्
आरक्षे व्रणशुद्धौ च नियोज्ये त्वभिधेयवत् ।पारावतः खगातस्योरीषत्पाण्डौ च पारदे ॥ १५ ॥
8.5.15 · p. 278
अनुष्टुप्
नीचे व्रीहाविन्द्रनीले प्राणनाथो यमे प्रिये ।पुण्डरीकं सितच्छत्रे कुष्ठभेदे सितांबुजे ॥ १६ ॥
8.5.16 · p. 278
अनुष्टुप्
ना त्वाम्रे दिग्गजे व्याघ्रे राजिलाहौ गजे ज्वरे ।दीप्त्यां प्रद्योतनं नार्के घोरे प्रतिभयं भये ॥ १७ ॥
8.5.17 · p. 278
अनुष्टुप्
नकुले मूषिकेऽहौ ना गोधायां स्त्री बिलेशयः ।बृन्दारकः पुमान्देवे श्रेष्ठसुन्दरयोस्त्रिषु ॥ १८ ॥
8.5.18 · p. 278
अनुष्टुप्
भागधेयं नपुं भाग्ये दायादे ना करे न षण् ।मस्तुलुंगः शिरः स्नेहे न स्त्री क्ली दधिमण्डके ॥ १९ ॥
8.5.19 · p. 278
अनुष्टुप्
ओतौ चारौ धौतिदेशे मार्जालीयोंऽगशोधने ।महावीरो यज्ञपात्रे गरुडे सुभटे खगे ॥ २० ॥
8.5.20 · p. 278
अनुष्टुप्
वज्रेऽश्वे तनये हंसे शूरेऽग्नौ प्रवरे हरौ ।राजादनं प्रियाले ना क्षीरिकायां पलाशके ॥ २१ ॥
8.5.21 · p. 278
अनुष्टुप्
वारवाणं तु कूर्पासे कवचेऽपि च न स्त्रियाम् ।विश्वंभरा धरित्री स्यादग्नौ विश्वंभरो हरौ ॥ २२ ॥
8.5.22 · p. 278
अनुष्टुप्
विश्वावसुस्तु गन्धर्वभेदे ना स्त्री पुनर्निशि ।वेणौ ना दूर्वावचयोः स्त्री बिले शतपर्व षण् ॥ २३ ॥
8.5.23 · p. 278
अनुष्टुप्
शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ।पलमाने षोडशिका न ना न स्त्री पलद्वये ॥ २४ ॥
8.5.24 · p. 279
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षो (wrong syllable)
सनातनो हृषीकेशे चतुर्वक्त्रे सदातने ।
8.5.25 · p. 279
अनुष्टुप्

इति चतुरक्षराः

आशितंभवमन्नादि तृप्तिः स्यादाशितंभवः ॥ २५ ॥
8.5.25 · p. 279
अनुष्टुप्
पर्याप्तावुपसंपन्नं मृते प्राप्ते सुसंस्कृते ।नक्षत्रनेमी रेवत्यां स्त्री ना विष्णौ हिमद्युतौ ॥ २६ ॥
8.5.26 · p. 279
अनुष्टुप्
मूर्धाभिषिक्तो ना राज्ञि क्षत्रिये चार्थवत् प्रभौ ।हरिचन्दनमस्त्री स्याच्चन्दने देवपादपे ॥ २७ ॥
8.5.27 · p. 279
अनुष्टुप्

इति पञ्चाक्षराः

श्रेष्ठे वृषांगे राजांके ककुदोऽस्त्री ककुन्न षण् ।तपस्वी शिशिरे शोच्ये चन्द्रे मांसी तपस्विनी ॥ २८ ॥
8.5.28 · p. 279
अनुष्टुप्
द्वीपवत्यौ धरानद्यौ द्वीपवानंबुधौ नदे ।धर्मे वाद्ये प्रसृत्वा ना प्रतिपत्तिः प्रसृत्वरी ॥ २९ ॥
8.5.29 · p. 279
अनुष्टुप्
पद्मी गजे पद्मिनी तु नलिन्यां हस्तिनीश्रियोः ।ब्रह्मचारी व्रती स्कन्दो दुर्गा तु ब्रह्मचारिणी ॥ ३० ॥
8.5.30 · p. 279
अनुष्टुप्
भगवत्युमा भगवान् बुद्धे पूज्ये हरे हरौ ।भोगी ग्रामाद्यधिकृते सर्पे सुखिमहीभुजोः ॥ ३१ ॥
8.5.31 · p. 279
अनुष्टुप्metre not read in every line
विहाय महिषीमेकां भोगिन्योऽन्या नृपस्त्रियः ।श्रेयोऽत्यन्तं प्रशस्ते स्यात् कल्याणे धर्ममोक्षयोः ॥ ३२ ॥
8.5.32 · p. 279
अनुष्टुप्
श्रेयसी हस्तिपिप्पल्यामभयारास्नयोरपि ।सरस्वती सरिद्भेदे सरिन्मात्रे गवि क्षितौ ॥ ३३ ॥
8.5.33 · p. 279
अनुष्टुप्
मत्स्याक्ष्यां वाचि गंगायां सरस्वानंबुधौ नदे ।
8.5.35 · p. 280
अनुष्टुप्

इति विषमसंख्याः

विभूतिर्भूतिरैश्वर्यमणिमादिकसंपदोः ॥ ३४ ॥
8.5.34 · p. 280
अनुष्टुप्
ईशेश्वरौ प्रभौ रुद्रे पार्वत्यामीश्वरेश्वरी ।स्वभावे स्यान्निसर्गश्च सृष्टिश्चोत्पादनेऽपि च ॥ ३५ ॥
8.5.35 · p. 280
अनुष्टुप्
गेहे कुलायो नीडोऽस्त्री रेतस्यपि रजो मदः ।
8.5.38 · p. 280
अनुष्टुप्

इति विषमाक्षराः

काश्चित्तात्मार्कधीधातृवाता मूर्ध्नि सुखेऽप्सु कम् ॥ ३६ ॥
8.5.36 · p. 280
अनुष्टुप्
द्युपश्विष्वंशुवज्रांबुभूवाग्दिग्दृक्षु गौर्न षण् ।दृक् स्त्री स्याद्दर्शने बुद्धौ नेत्रे द्रष्टरि तु त्रिषु ॥ ३७ ॥
8.5.37 · p. 280
अनुष्टुप्
स्वोऽस्त्री धने त्रिषु स्वीय आत्मनि स्वजने तु ना ।गूर्गुदे स्त्री प्रयत्ने ना रा न क्ली धनरुक्मयोः ॥ ३८ ॥
8.5.38 · p. 280
अनुष्टुप्
आत्मनि ज्ञातरि ज्ञः स्यान्ना विड्वैश्ये जने न षण् ।तेशब्दः क्रीडने स्त्री स्यात् क्रीडके त्वभिधेयवत् ॥ ३९ ॥
8.5.39 · p. 280
अनुष्टुप्
सेशब्दः सेवने स्त्री स्यात्सेवके त्वभिधेयवत् ।
8.5.43 · p. 280