कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सरस्वत्

sarasvatपुं · masc.

In 17 kośas: 20 synonym verses, 7 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1074 · p. 42
पारावारः सागरोऽवारपारोऽकूपारोदध्यंर्णवा वीचिमाली ।यादः स्रोतोवार्नदीशः सरस्वान्सिन्धुदन्वन्तौ मितद्रुः समुद्रः ॥ १०७३ ॥आकरो मकराद्रत्नाज्जलान्निधिधिराशयः ।द्वीपान्तरा असंख्यास्ते सप्तैवेति तु लौकिकाः ॥ १०७४ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.29 · p. 43
जम्बालेचकिलौ पङ्कः कर्दमश्च निषद्वरः ।शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः ॥ १०९० ॥भिद्य उध्यः सरस्वांश्च द्रहोऽगाधजलो ह्रदः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.652 · p. 74
रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः ।पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥
metre not recognised
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर नवमोपदेशः Bālaprabodhikā 9.167 · p. 81
समुद्रो जलधिर्वार्धिसारभिच्छरधिः कधिः ।कन्धिः सरस्वान्रत्नाङ्गः पयस्वान् पवनानुगः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर दशमोपदेशः Bālaprabodhikā 10.180 · p. 82
शाद्वलः शादहरितो वेतस्वान्बहुवेतसः ।सरस्वोऽनड्वलोऽनड्वान् कुमुद्वान्कुमुदाधिकः ॥ १८० ॥
अनुष्टुप्
genderविadj.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 66 · p. 6
परिहासक्रमो जिह्मकण्ठः शुण्ढः प्रियंवदः ।हंसः सरस्वान् कृष्णाक्षः कलकण्ठः सितासितः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.29 · p. 347
स चाप्यप्रवहार्थः स्याद् भिद्यउद्ध्यो द्रहोऽपि च ।वहः सरस्वान्प्रवहः प्रवाहो रोध इत्यपि ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.15 · p. 100
प्रसन्नमच्छं विमलं कलुषेऽनच्छमाविलम् ।पिच्छिलं स्याद्विजयिनं द्राग्भृतं तत्क्षणोद्धृतम् ॥ऋक्षरं वारिधारा स्याद्घर्घरो वारिनिःस्वनः ।देशं विनाद्भिरन्वीतमन्वीपं भेद्यलिङ्गकम् ॥पारावारः समुद्रो जलनिधिरुदधिर्वीचिमाली समीचःपारापारश्च पारीस्तिमिरपि पुरणः स्यात्सरस्वानुदन्वान् ।गङ्गानाथो नदीनोदरथि-कधि-महाकच्छ-शीतांशुताता-कूपारावारपारा भुविरविष-पयो एगप्से(?)पांपतिश्च ॥ १५ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा: pāda 2, syllable 16 ग (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.55 · p. 105
गिरेर्नदी गिरिणदी तथा गिरिनदी मता ।क्लीबाव्ययं चोपनदं तथोपनदि च स्मृतम् ॥सप्तगोदावरं सप्तगङ्गं द्वियमुनं तथा ।देशे तून्मत्तगङ्गं स्यात्तथा लोहितगङ्गकम् ॥पारेगङ्गं तु गङ्गायाः पारे पूर्ववदीरितम् ।वहो नदो भिद्य उद्ध्यः सरस्वत्सम(प्त?)सिन्धवः ॥हिरण्यबाहुः शोणः स्यात्स्वर्णवाहोऽप्यसौ भवेत् ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 26 · p. 12
समुद्रो वारिराशिश्च सरस्वान् सागरोऽर्णवः ।सीमोपकण्ठं तीरञ्च पारं रोधोऽवधिस्तटम् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.352 · p. 48
अवारपाराकूपारौ उदन्वान्मकराकरः ।रत्नाकरः सरस्वांश्च यादःपतिजलाशयौ ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.371 · p. 50
सरस्वांश्चोध्यभिद्यौ च ह्रदोऽगाधजलो द्रहः ।कूपोऽन्धुरुदपानोऽथ नेमी स्यात्तन्त्रिका स्त्रियाम् ॥ ३७१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.278 · p. 20
समुद्रः सागरः सिन्धुः सरस्वानर्णवोऽम्बुधिः ।अकूपारो जलनिधिः पारावारः पयोनिधिः ॥ २७८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.112 · p. 13
समुद्रः सागरः सिन्धुरुदधिः सरितां पतिः ।वारिराशिरकूपारः सरस्वान्मकरालयः ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1867 · p. 304
वारीशो वारिराशिश्च सरस्वान् धरणीप्लवः ।अकूवारो महाकच्छोऽकूपारो मकरालयः ॥ १८६७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1906 · p. 312
उद्ध्यो नदो वहो भिद्यः सरस्वान् बृहती नदी ॥ १९०६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.32 · p. 38
सत्त्ववृत्तास्त्रिषु द्वे ते पीडापर्याय ईरितः ।समुद्रः सागरः सिन्धुः सरस्वान् सरितां पतिः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.316 · p. 43
रत्नाकरः पयोराशिः पारावारः पयोनिधिः ।सरस्वानूर्मिमाली च तत्प्रभेदाः स्युरुत्तरे ॥ ३१६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.29 · p. 156
ताम्रपर्णी कृष्णवर्णा गोमत्याद्याश्च निम्नगाः ।नदः सरस्वान् भिद्योद्ध्यौ कुल्या कर्षूः कृता नदी ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.57
देवसूर्यौ विवस्वन्तौ सरस्वन्तौ नदार्णवौ ॥ ५७ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तश्लोकः Dharaṇikośa 15.3.33 · p. 87
सरस्वती सरिद्भेदे सरिन्मात्रे च वाचि च ।सरस्वती गवि क्वापि सरस्वानम्बुधौ नदे ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1933 · p. 216
सरस्वांस्तु समुद्रे ना नदे चाथ नपुंसकम् ।धनञ्जयेन पठितमाकाशेऽथ स्त्रियामियम् ॥ १९३३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1936 · p. 216
भेद्यलिङ्गं तु रसिके रभसेन समीरितम् ।सरोयुक्ते च जानीयात् सत्ययुक्ते तु सत्यवत् ॥ १९३६ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.661 · p. 83
स्यात् सरस्वत्सरस्यत्योरथ सांयात्रिकं नपि ।प्रभाते पोतवणिजि ना (तु ? थ) साव्वँत्सरस्त्रिषु ॥ ६६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.175 · p. 226
सदागतिर्ना वातार्कमोक्षेषु च सदीश्वरे ।सरस्वान्नदभेदेऽब्धौ पुंसि स्याद्रसिकेऽन्यवत् ॥सरस्वती च वाग्देवीवाणीस्त्रीरत्नगोषु च ।सत्यवती व्यासमातृनारदर्च्चीकयोषिति ॥समुद्रान्ता तु कार्यासीपृक्कादुरालभासु च ।समाहितो निर्विवादे प्रतिज्ञातेऽभिधेयवत् ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 8.5.35 · p. 280
मत्स्याक्ष्यां वाचि गंगायां सरस्वानंबुधौ नदे ।
अनुष्टुप्

सरस्वत् as a meaning in nānārtha verses