All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
तान्ताः · तश्लोकः
॥ तश्लोकः ॥
सन्नित्यर्चिते साधौ विद्यमानप्रशस्तयोः ।सती पतिव्रता स्त्री स्यात्सती गौरी च कीर्तिता ॥
15.3.1 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स (syllables merged)
वार्त्ते फल्गुन्यरोगे स्यादारोग्ये वृत्तिमत्यपि ।वार्त्ते तु वर्तनोदन्ते वार्ता कृषिकृतौ तथा ॥
15.3.2 · p. 81
अनुष्टुप्
वृत्तं दृढमधीतं च वृत्तं वृत्तौ मृतेऽपि च ।चरित्रच्छन्दसोर्वृत्तं वर्तनातीतयोरपि ॥
15.3.3 · p. 82
अनुष्टुप्
भूतं क्ष्मादौ पिशाचादौ न्याय्ये जन्तूपमानयोः ।भूतं प्राप्तेऽपि वृत्ते च देवयोन्यन्तरेऽपि च ॥
15.3.4 · p. 82
अनुष्टुप्
रक्तं क्षतजकाश्मीरलोहितेषु प्रयुज्यते ।नील्यादिरञ्जिते शुद्धे रक्तं रक्तोऽनुरागिणि ॥
15.3.5 · p. 82
अनुष्टुप्
हस्तः पाणौ च ऋक्षे च केशौघे केशपूर्वकः ।हस्तो गजस्य नासायां शुण्डार्थे स्थूलपूर्वकः ॥
15.3.6 · p. 82
अनुष्टुप्
धातुः श्लेष्मादिरूप्यादिपृथ्व्यादिचक्षुरादिषु ।मनःशिलादिभूवाद्योर्विशेषादस्थ्नि गैरिके ॥
15.3.7 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
क्षत्ता शूद्रात्क्षत्रियाजे सारथिप्रतिहारयोः ।स्मृतः प्रेष्यासुते क्षत्ता क्षत्ता नियुक्तवेधसोः ॥
15.3.8 · p. 82
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 नि (wrong syllable)
वृत्तिः प्रवर्तने ख्याता विवृतौ जीवनेऽपि च ।कौशिकीभारतीत्यादौ नाट्यवृत्तौ च दृश्यते ॥
15.3.9 · p. 83
अनुष्टुप्
वर्तिरौषधिनिर्माणं गात्रानुलेपने स्मृता ।दीपे दीपदशायां च वर्तिशब्द उदाहृतः ॥
15.3.10 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
रीतिर्दग्धसुवर्णादिमले स्यादारकूटके ।प्रचारे च प्रतिस्यन्दे रीतिशब्दः प्रयुज्यते ॥
15.3.11 · p. 83
अनुष्टुप्
लता व्रततिमाधव्योर्लता प्रियङ्गुशाखयोः ।लता दूर्वा च पृक्का च लता ज्योतिष्मती स्मृता ॥
15.3.12 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्रि (wrong syllable)
[44]शुक्तिः सुगन्धे नखनाम्नि मुक्तास्फोटे च शुक्तिर्नयनक्ष्मणे च ।दुर्नामिकायामपि शुक्तिरुक्ता शङ्खे स्मृता शङ्खनखेऽपि शुक्तिः ॥
15.3.13 · p. 83
इन्द्रवज्रा
सीता नभःसरिति लाङ्गलपद्धतौ चसीता दशाननरिपोः सहधर्मिणी च ।सीतं स्मृतं हिमगुणे च तदान्विते चसीतोऽलसे च बहुवारतरौ च दृष्टः ॥
15.3.14 · p. 84
वसन्ततिलका
बृहती क्षुद्रवार्ताकी बृहती कण्टकारिका ।वाचि छन्दसि च ज्ञेया महत्यां बृहती तथा ॥
15.3.15 · p. 84
अनुष्टुप्
आयत्तिः श-- दैर्घ्यप्रभावागामिकालयोः ।मर्यादायां तथा स्नेहे --त्वे वासरे बले ॥
15.3.16 · p. 84
metre not recognised
वनिता जनितात्यर्थरागयोषिति योषिति ।वनितं याचितं ज्ञेयं वनितं सेवितं मतम् ॥
15.3.17 · p. 84
अनुष्टुप्
वासिता स्त्री करिणी स्याद्वासितं सुरभीकृतम् ।ख्याते ध्वाने ज्ञानमात्रे वासितं वस्त्रवेष्टितम् ॥
15.3.18 · p. 84
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
प्रस्मृतोऽर्धाञ्जलौ ज्ञेयः प्रसृतोऽपि च वेगिते ।प्रसृता तु मता जङ्घा विनीतः प्रसृतो मतः ॥
15.3.19 · p. 85
अनुष्टुप्
स्थपतिः संस्मृ- -ऽसौ गीष्पतिक्रतुयाजकः ।प्रासादादिकरः शिल्पी स्थपतिः कञ्चुकी तथा ॥
15.3.20 · p. 85
अनुष्टुप्metre not read in every line
शुद्धान्तश्च विशुद्धान्तः शुद्धान्ता राजयोषितः ।कक्षान्तरे च शुद्धान्तो नृपस्यासर्वगोचरे ॥
15.3.21 · p. 85
अनुष्टुप्
जयन्तः कथितो रुद्रे जयन्तः पाकशासनिः ।जयन्ती वृक्षभेदे स्याज्जययुक्ता च कीर्तिता ॥
15.3.22 · p. 85
अनुष्टुप्
उद्धातः कथितो धीरैः स्खलिते समुपक्रमे ।मरुतोऽभ्यासयोगाय कुम्भकादित्रयेऽपि सः ॥
15.3.23 · p. 85
अनुष्टुप्
विविक्तं रहसि ख्यातमसंपृक्तपवित्रयोः ।विवेकसहि[45]ते पुंसि विविक्तः सद्भिरिष्यते ॥
15.3.24 · p. 85
अनुष्टुप्
विनीतमुपनीतं स्यादपनीते जितेन्द्रिये ।वाणिजे निभृते चैव विनीतः सुवहे हये ॥
15.3.25 · p. 86
अनुष्टुप्
... .... ... ...… ।भारती भगवती सरस्वतीभारती वचनमात्रमुच्यते ॥
15.3.27 · p. 86
रथोद्धताmetre not read in every line
रोहितो हरिणमीनमेदयोःप्लीहशत्रुविटपी च रोहितः ।रोहितं तु ऋजुशक्रकार्मुकेकुङ्कमे सृजि च रोहितं स्मृतम् ॥
15.3.28 · p. 86
रथोद्धता
लोहिते रुधिरकुङ्कुमे स्मृतेलोहितौ नदविशेषभूमिजौ ।लोहितं क्षतजतुल्यवर्णकेलोहितश्च भुजगेऽसुरान्तरे ॥
15.3.29 · p. 86
रथोद्धता
अमृतं पयोघृतजले त्वयाचितेत्रिदशान्नयज्ञविशेषमुक्तिषु ।अमृतो दिवौकसि च तच्चिकित्सके-ऽप्यमृताभयामृतकं त्रिकास्वपि ॥
15.3.30 · p. 87
metre not recognised
आहतं गुणितताडितयोः स्या-दप्रियार्थकमृषावचने च ।... ... ... ... ...… ॥
15.3.31 · p. 87
स्वागताmetre not read in every line
सरस्वती सरिद्भेदे सरिन्मात्रे च वाचि च ।सरस्वती गवि क्वापि सरस्वानम्बुधौ नदे ॥
15.3.33 · p. 87
अनुष्टुप्
प्रतिपत्तिः प्रवृत्तौ स्यात्प्रागल्भ्ये गौरवेऽपि च ।संप्राप्तौ च प्रबोधे च प्रतिप्रत्तिः प्रकीर्तिता ॥
15.3.34 · p. 87
अनुष्टुप्
समाहितः समाधिस्थे प्रतिज्ञाते यमात्मनि ।समाहितं समाधाने निष्पन्नन्यस्तयोरपि ॥
15.3.35 · p. 88
अनुष्टुप्
ऐरावतौ दिग्गजनागभेदा-वैरावताख्यौ उडु[46]नागराजौ ।ऐरावतं वासवकार्मुकं स्या-दैरावती विद्युत्तडिद्विशेषः ॥
15.3.37 · p. 88
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 6 द्यु (wrong syllable)
अभिनिर्मुक्ताभ्युदितौ भृशमुक्तौ यथाक्रमात् ।अस्तमेति यथोदेति ययोस्तयो रविश्च तौ ॥
15.3.38 · p. 88
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क्ता (wrong syllable); pāda 4, syllable 3 स्त (wrong syllable)