All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · सान्ताः
॥ इति षान्ताः ॥
एकसाः ।
सः स्यात्परोक्षे रतिनायके चसूये समीचि त्रितये प्रदिष्टम् ।लक्ष्म्यां तु सा स्यादथ
6.31.1 · p. 377
उपजातिः
द्विसाः ।
तिक्तादिके बोलकपारदे चद्रवेषु शृङ्गारमुखेषु वीर्ये ।स्त्री सल्लकीकङ्गुमहीवृकीषुजिह्वासु रास्नास्वपि कीर्तितोऽयम् ॥
6.31.3 · p. 377
उपजातिः
भासस्तु गोष्ठस्थित(?)कुक्कुटे स्या-द्गृध्रे च कान्तावथ दास उक्तः ॥ ७३ ॥
6.31.73 · p. 377
इन्द्रवज्रा
चेट्यां च[87b]रासस्तु रवे च भाषा-सच्छृङ्खलाभीरकखेलयोश्च ।कोलाहलेऽथोऽयुजि भाप्रभावेतथा मयूखे च पुमांस्तु माः स्यात् ॥ ७७ ॥
6.31.77 · p. 378
उपजातिःmetre not read in every line
चन्द्रे च मासेऽप्यथ वेणुभेदेवासो गृहे स्यादपि हेमचूडे ।अवस्थितौ सिंहमुखौषधे स्त्रीमासस्तु चन्द्रे नरि मासि न स्त्री ॥
6.31.7 · p. 378
उपजातिः
सद्योजपुत्रादिकयोश्च वत्सो-ऽन्तिमे तु वक्षोर्थकमामनन्ति ।गुत्सं[ तु ]गुच्छाभमुशन्ति पुंसिव्यासो मुनौ विस्तृतिवाचकश्च ॥ ७९ ॥
6.31.79 · p. 378
उपजातिः
त्रासो भये स्यान्मणिदोषकेऽथहंसः परात्माच्युतभास्करेषु ।निर्लोभभूपे तुरगप्रभे[दे]विहंगभेदेऽपि च योगिभेदे ॥ ८० ॥
6.31.80 · p. 378
उपजातिः
मन्त्रस्य भेदेऽपि शरीरवायु-भेदेऽथ कंसो दनुजान्तरे ना ।न स्त्री तु कांस्येऽपि च कांस्यपात्रेमानान्तरेंऽसस्तु भवेत्स्त्रियां न ॥ ८१ ॥
6.31.81 · p. 378
इन्द्रवज्रा
स्कन्धे विभागेऽप्यथ मांसमस्त्रीस्यादामिषे स्त्री जटिलार्थकः स्यात् ।काकोलिकायामथ पुंसि वह्नि-कुबेरयोक्त्रह्र[88a]दरश्मिदेवे ॥ ८२ ॥
6.31.82 · p. 378
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 कु (wrong syllable)
वसुर्द्वयोनस्तु धने सुवर्णेरत्ने च वृद्ध्यौषधकेऽन्यवत्तु ।स्वादौ च नासा त्विह नासिकायांद्वारोर्ध्वदारुण्यपि संप्रदिष्टा ॥ ८३ ॥
6.31.83 · p. 378
उपजातिः
मृत्सा शुभायां मृदि वासिकायांहिंसा वधे चौर्यविधौ प्रदिष्टा ।शंसा तु वाञ्छावचसोर्मिसिस्तुमांस्यां तु दीप्ये शतपुष्पिकायाम् ॥ ८४ ॥
6.31.84 · p. 379
इन्द्रवज्रा
छत्रोषधे स्त्री त्विह बुद्धिशक्त्या-युधे च कासूर्विकलोक्तिषु स्यात् ।प्रसूर्जनन्यामपि वामिकायांतथा कदल्यामपि वीरुदर्थे ॥ ८५ ॥
6.31.85 · p. 379
उपजातिः
त्रिसाः ।
स्यात्पादरोगेऽप्यलसोऽतिजीर्णेद्रुमान्तरे स्यात्कृतिमन्थरे च ।स्त्री हंसपद्यां रभसस्तु वेगेहर्षे द्वयोः कोषनिबन्धकेऽपि ॥ ८६ ॥
6.31.86 · p. 379
उपजातिः
वाते तथात्मन्यतसः स्त्रियां तुक्षुमाभिधायामवसोऽर्कराज्ञोः ।अम्भोनिधौ स्यान्नभसोऽब्दकालेक्लीबेऽन्तरिक्षेऽप्यथ पुक्कसः स्यात् ।चण्डालके च श्वपचे स्त्रियां तुस्यान्नीलिकायामपि कालिकायाम् ।वनीयके स्याल्लभसो धनेऽन्त्ये-ऽर्वदोरके स्त्री पनसो[88b]द्रुभेदे ॥ ८७ ॥
6.31.87 · p. 379
उपजातिःtwo metres in one verse
कपौ च रुग्भिद्यथ वाच्यवत्स्या-त्पर्णासके स्यात्सुरसो द्विलिङ्गः ।स्त्रियां तुलस्यामथ सारसः स्यात्कुरङ्गके शीतकरेऽम्बुजेऽन्त्ये ॥ ८८ ॥
6.31.88 · p. 379
उपजातिः
श्रीवास उक्तो वृकधूपविष्ण्वोःसरोरुहेऽन्त्येऽप्यथ साहसं स्यात् ।बलात्कृतौ स्यात्कृतकार्यके चदमे शयौ वाहस ईरितोऽत्र ॥ ८९ ॥
6.31.89 · p. 380
उपजातिः
वार्निर्गमे स्यात्सुनिषण्णकेऽथस्याल्लालसा तर्षविशेषकेऽपि ।औत्सुक्ययाच्ञास्वपि युग्मलिङ्गासमास उक्तोऽपि समर्थवाची ॥ ९० ॥
6.31.90 · p. 380
उपजातिः
संक्षेपणे द्वंद्वमुखादिषु स्या-न्ना कीकसः स्यात्कृमिजातिवाची ।अस्थ्न्यन्तिमे पायस ईरितो नाश्रीवासवृक्षे परमान्नकेऽन्त्ये ॥ ९१ ॥
6.31.91 · p. 380
इन्द्रवज्रा
स्याद्वायसो ध्वाङ्क्ष इहागरुद्रौश्रीवासवृक्षेऽप्यथ काकमाच्याम् ।स्त्रियां मलप्वामथ मानसं स्या-त्सरोविशेषे हृदये तथैव ॥ ९२ ॥
6.31.92 · p. 380
उपजातिः
आख्यायिकापरिच्छेदेऽप्याश्वासो निर्वृते मतः ।अभ्यासो निकटेऽभ्यर्णेऽथोच्छ्वासो गद्यबन्धके ॥ ९३ ॥
6.31.93 · p. 380
अनुष्टुप्
गुणान्तरे तथा[89a]श्वासे प्राणने च प्रकीर्तितः ।इष्वासोऽस्त्री धन्विनि स्यात्कोदण्डे च प्रकीर्तितः ॥ ९४ ॥
6.31.94 · p. 380
metre not recognised
भावे विलासो नरि केलिवाचीवीतंसमस्त्री मृगपक्षिणां च ।बन्धामुपाये मृगपक्षिणां चविश्वासहेतोरपि वस्त्रभेदे ॥ ९५ ॥
6.31.95 · p. 380
इन्द्रवज्रा
उत्तंसमस्त्रीह शिखास्रजि स्या-त्स्यात्कर्णपूरे ऽप्यवतंस एवम् ।बीभत्स आद्ये गदितो जुगुप्सा-भवे रसे चार्जुनपाण्डवे च ॥ ९६ ॥
6.31.96 · p. 380
उपजातिः
क्रूरेऽन्यवत्स्याद्विकृतेऽथ विद्वान्प्राज्ञे बुधे चात्मविदि त्रिलिङ्गः ।भूयांस्तु भूयिष्ठगतो विशेष्य-लिङ्गोऽव्ययं स्यात्पुनरर्थकेऽसौ ॥ ९७ ॥
6.31.97 · p. 381
इन्द्रवज्रा
ज्यायांस्तु वृद्धे च तथा प्रशस्येघृते हविः स्याच्चरमे च होम्ये ।रेपस्त्ववद्ये कृपणेऽधमे चक्रूरेऽन्यवत्स्यादथ पुंसि वेधाः ॥ ९८ ॥
6.31.98 · p. 381
उपजातिः
विष्णौ बुधे ब्रह्मणि चाथ पापे-ऽपराध आगोऽथ पुरीषदीप्त्योः ।रूपेऽपि वर्चोऽथ सुधांशुपुत्रेपुमांश्च वेदे त्वभिलाषके च ॥ ९९ ॥
6.31.99 · p. 381
उपजातिः
छन्दो यदृच्छाचरणे च पद्य-भेदेऽप्यदन्तस्तु पुमान्समार्थः ।एनोऽपराधे कलुषे मन[89b]स्तुचित्ते धियां पुंसि भवेन्न रोदः ॥ १०० ॥
6.31.100 · p. 381
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 10 न (wrong syllable)
स्वर्गे धरण्यां च पृथक्प्रयोगेसहप्रयोगेऽपि तथामनन्ति ।स्याद्रोदसीत्यव्ययमप्यथौजोदीप्तौ प्रकाशे च बलेऽपि षण्ढे ॥ १ ॥
6.31.1 · p. 381
उपजातिः
रजो गुणे रेणुपरागयोश्चस्यादार्तवेऽन्त्येऽथ पुमानदन्तः ।क्षीरे च नीरे च पयो वयस्तुखगे च बाल्यादिषु यौवने च ॥ २ ॥
6.31.2 · p. 381
उपजातिः
श्रेयस्तु धर्मे कुशले च मोक्षे-ऽन्यवत्प्रशस्येऽप्यथ योषिति स्यात् ।रास्नाभयावारणपिप्पलीषुस्रोतोऽम्बुवेगेन्द्रिययोर्द्वयोने ॥ ३ ॥
6.31.3 · p. 381
उपजातिः
अदन्तमाद्येऽप्यथ पारदे स्या-च्छुक्रे च रेतोऽथ तमोऽन्धकारे ।गुणे च शोकेऽथ विधुंतुदेऽस्त्रीतमस्तथा पुंसि तु राहुवाचि ॥ ४ ॥
6.31.4 · p. 382
उपजातिः
ओकोऽन्ति[मे]सद्मनि चाश्रयेऽन्त्येऽथानो जनन्यां शकटे च भक्ते ।भक्तस्थले चाथ शिरः प्रधानेसेनाग्रभागेऽपि च मस्तके च ॥
6.31.35 · p. 382
इन्द्रवज्रा
पुमानदन्तोऽथ तपोऽपि धर्मेदर्भे च कृच्छ्रादिषु लोकभेदे ।माघे तु न स्त्री शिशिरे तु पुंसितपस्तथा ग्रीष्मऋतौ तु पुंसि ॥ ६ ॥
6.31.6 · p. 382
उपजातिः
स[90a]रस्तडागे न नरे जलेऽन्त्ये-ऽथोषः प्रभाते श्रुतिरन्ध्रके ज्ञैः ।नपुंसि संध्यार्थकमङ्गना तुस्याद्देवतायामथ खे नभः स्यात् ॥ ७ ॥
6.31.7 · p. 382
उपजातिःmetre not read in every line
पुमान्पयोदे च मृणालसूत्रेपतद्ग्रहे श्रावणमासके च ।वर्षासु च स्याच्चरमेऽप्यदन्तंबलेऽनुवेगे तर एवमाहुः ॥ ८ ॥
6.31.8 · p. 382
उपजातिः
सहो बले ज्योतिषि मार्गशीर्ष-हेमन्तयोः पुंसि भवेत्तथैव ।रहो विविक्ते सुरते च तत्त्वेरहं च तद्वत्प्रवदन्ति सन्तः ॥ ९ ॥
6.31.9 · p. 382
उपजातिः
महस्तथा तेजसि चोत्सवेऽन्त्ये*दस्तथाङ्कस्तु शरीरचिह्ने ।पाथो जलेऽन्नेऽप्यथ पक्ष उक्तंछदे च वर्षार्धकपक्षयोश्च ॥ १० ॥
6.31.10 · p. 383
उपजातिःmetre not read in every linenearly उपजातिः
वक्षो हृदि स्याद्वृषभे तु पुंसिनोधा मुनौ स्तव्यगतोऽन्यवच्च ।योगः समाधौ समये तथान्त्येरोकोऽस्त्रियां नावि तरित्रयेऽपि ( ? ) ॥
6.31.41 · p. 383
इन्द्रवज्रा
ना वर्हिरग्नौ कुशगस्तु न स्त्रीज्वालारुचोरर्चिरनादिलिङ्गम् ।पाथिः समुद्रे नरि लोचनेऽन्त्येवपुस्तु भव्याकृतिदेहयोश्च ॥ १२ ॥
6.31.12 · p. 383
उपजातिः
[90b]धनुः पियालद्रुमधन्विनोर्नान स्त्री भवेद्धन्वनि राशिभेदे ।तपुः पुमानग्निविपक्षसूर्येचाशीः स्त्रियां स्याद्धितशंसनेऽपि ॥ १३ ॥
6.31.13 · p. 383
उपजातिः
भुजंगदंष्ट्रासु च तादृगासीःस्याद्राक्षसी रात्रिमटाङ्गनायाम् ।दंष्ट्रार्थिका चाप्यथ तामसी स्या-न्महानिशायामपि भद्रकाल्याम् ॥ १४ ॥
6.31.14 · p. 383
उपजातिः
चतुःसाः ।
घनरस उक्तो नीरे निर्यासे मोरटे सान्द्रे ।कर्पूरे सिद्धरसेऽस्त्रियां भवेत्पीलुपर्ण्यर्थे ॥ १६ ॥
6.31.16 · p. 384
metre not recognised
तामरसं तु सरोजे ताम्रे स्वर्णेऽपि संप्रोक्तम् ।व्याडिप्रभृतिषु च रसे सिद्धरसः स्यान्महारसस्तूक्तः ॥ १७ ॥
6.31.17 · p. 384
उद्गीतिः
खर्जूरे च कसेर्वां भवति तथा कोशकारैश्च ।रासेरसस्तु रासे रससिद्धौ स्याद्बलौ तद्वत् ॥ १८ ॥
6.31.18 · p. 384
metre not recognised
षष्ठीजागरगोष्ठ्यां शृङ्गारे स्यात्परीहासे ।श्वःश्रेयसं तु भद्रे परमानन्दे च शर्मणि च ॥ १९ ॥
6.31.19 · p. 384
metre not recognised
निःश्रेयसं तु मोक्षे कल्याणे चन्द्र[91a]खण्डे च ।कुम्भीनसस्तु[भुजगे]सविषज्वालादृशि प्रोक्तः ॥ २० ॥
6.31.20 · p. 384
metre not recognised
स[ल]वणमातरि योषिन्मलीमसं पुष्पका[सी]से ।लोहे मलिने परवद्यज्ञे स्यात्पौर्णमासो ना ॥ २१ ॥
6.31.21 · p. 384
metre not recognised
योषित्तु पूर्णिमायामधिवासः स्यान्निवासेऽपि ।संस्कारे गन्धाद्यैर्दशमुखखड्गे तु चन्द्रहासोऽसौ ॥ २२ ॥
6.31.22 · p. 384
उद्गीतिः
विभावसुः स्यात्तरणौ च हार-भेदे हुताशे सुरगाथकेषु ।निशि स्त्रियां भे तु पुनर्वसुः स्या-त्कात्यायने स्यादथ राजहंसः ॥ २३ ॥
6.31.23 · p. 384
उपजातिः
नृपोत्तमे स्यात्कलहंस आद्येऽवध्वंस उक्तोऽप्यवचूर्णनेऽपि ।निन्दापरित्यागगतोऽथ मूर्वा-द्राक्षास्वपि स्यादिह दुग्धिकासु ॥ २५ ॥
6.31.25 · p. 384
उपजातिः
स्त्रियां मधुरसा नीलञ्जसा विद्युत्सरिद्भिदोः ।अप्सरोभिदि हृष्टे तु प्रचेताः पश्चिमाधिपे ॥ २६ ॥
6.31.26 · p. 384
अनुष्टुप्
ज्योतिष्मत्यां सुमेधाः स्त्री मुनौ ना सन्मतौ त्रिषु ।स्त्री भूम्नि पक्षे सुमनाः स्त्री मालत्यां सुरे पुमान् ॥ २७ ॥
6.31.27 · p. 385
अनुष्टुप्
खगे विहाया नरि खे तु[91b] न स्त्रीसिंहे नगौकाः शरभे खगे च ।तादृक् त्वगौका अतियूनि बाल्ये-नुजे कनीयानपि भेद्यलिङ्गः ॥ २८ ॥
6.31.28 · p. 385
उपजातिःmetre not read in every line
योगे वरीयानतियूनि वर्षेश्रेष्ठेऽथ दीर्घायुरशीतरश्मौ ।काके तथा शाल्मलिपादपे चभवेच्चिरंजीविनि वाच्यलिङ्गः ॥ २९ ॥
6.31.29 · p. 385
उपजातिः
उदर्चिरग्नौ त्रिषु तूत्प्रभे स्या-त्सुरे पुनश्चातकके दिवौकाः ।सप्तार्चिरग्नौ त्रिषु घोरदृष्टौत्रिस्रोतसं प्राहुरिह द्युनद्याम् ॥ ३० ॥
6.31.30 · p. 385
उपजातिः
सरिद्भेदेऽथ साधीयानतिसाध्वतिवाढयोः ।मेघाम्बुध्योः पयोधा ना विबुद्धैः परिकीर्तितः ॥ ३१ ॥
6.31.31 · p. 385
अनुष्टुप्
पञ्चसाः ।
चन्द्रे स चित्रपूपे तथेन्द्रजाले नभश्चमसः ।हिङ्गुरसे पिचुमन्दे न स्त्री स्याद्धिङ्गुनिर्यासः ॥ ३२ ॥
6.31.32 · p. 385
metre not recognised
स्याद्दिव्यचक्षुरेष त्रितये गन्धज्ञसद्दृष्ट्योः ।अग्नौ हिरण्यरेता दिननाथे तद्वदुक्तोऽयम् ॥ ३३ ॥
6.31.33 · p. 385
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 द्दृ (wrong syllable); pāda 4, syllable 7 क्तोऽ (wrong syllable)