कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अणिमन्

aṇimanपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.202 · p. 12
लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा ।यत्र कामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.17
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा ।अणिमा महिमा चैव गरिमा लघिमा तथा ॥प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.106 · p. 391
विभूतिर्भूतिरैश्वर्यमणिमा महिमा पुनः ।गरिमा लघिमा प्राप्तिः प्राकाम्यं चेशिताऽष्टधा ॥ १०६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.37 · p. 10
गरिमा महिमा चैव अणिमा लघिमा तथा ।ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमित्यपि ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.177 · p. 19
भूतिर्विभूतिरैश्वर्यमणिमादिकमष्टधा ।अणिमा महिमा चैव गरिमा लघिमा तथा ।प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ १७७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.246 · p. 33
प्राकाम्यं वशितेशित्वं लधिमा महिमाऽणिमा ॥ २४६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.86 · p. 7
अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।ईशिता वशिता चैव तथा कामावसायिता ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.56 · p. 8
क्षारस्तु भस्म भसितं रक्षाभूतिविभूतयः ।अणिमा महिमा लघिमा गरिमेशित्वं वशित्वं च ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.