All kośas › Amarakośa
नामलिङ्गानुशासनम् Amarakośa
2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)
प्रथमं काण्डम् · स्वर्गवर्गः
अथ स्वर्गवर्गः ।
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ।सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६ ॥
1.1.6
अनुष्टुप्
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥आदितेया दिविषदो लेखा अदितिनन्दनाः ।आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥
1.1.9
अनुष्टुप्
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥
1.1.11
अनुष्टुप्
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ।शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
1.1.12
अनुष्टुप्
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥
1.1.15
अनुष्टुप्
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
1.1.17
अनुष्टुप्
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ।पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ।पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ।वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः ।पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ।वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥
1.1.22
अनुष्टुप्
विष्णुपुंनारायणपुंकृष्णपुंवैकुण्ठपुंविष्टरश्रवस्पुंदामोदरपुंहृषीकेशपुंकेशवपुंमाधवपुंस्वभूपुंदैत्यारिपुंपुण्डरीकाक्षपुंगोविन्दपुंगरुडध्वजपुंपीताम्बरपुंअच्युतपुंशार्ङ्गिन्पुंविष्वक्सेनपुंजनार्दनपुंउपेन्द्रपुंइन्द्रावरजपुंचक्रपाणिपुंचतुर्भुजपुंपद्मनाभपुंमधुरिपुपुंवासुदेवपुंत्रिविक्रमपुंदेवकीनन्दनपुंशौरिपुंश्रीपतिपुंपुरुषोत्तमपुंवनमालिन्पुंबलिध्वंसिन्पुंकंसारातिपुंअधोक्षजपुंविश्वम्भरपुंकैटभजित्पुंविधुपुंश्रीवत्सलाञ्छनपुंपुराणपुरुषपुंयज्ञपुरुषपुंनरकान्तकपुंजलशायिन्पुंविश्वरूपपुंमुकुन्दपुंमुरमर्दनपुंवसुदेवपुंआनकदुन्दुभिपुं
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ।सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥
1.1.24
अनुष्टुप्
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
1.1.26
अनुष्टुप्
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया ॥इन्दिरा लोकमाता मा क्षीरोदतनया रमा ।भार्गवी लोकजननी क्षीरसागरकन्यका ॥ २७ ॥
1.1.27
अनुष्टुप्
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ।कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ।अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ २८ ॥
1.1.28
अनुष्टुप्
गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः ।नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ २९ ॥
1.1.29
अनुष्टुप्
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥
1.1.34
अनुष्टुप्
शम्भुपुंईशपुंपशुपतिपुंशिवपुंशूलिन्पुंमहेश्वरपुंईश्वरपुंशर्वपुंईशानपुंशङ्करपुंचन्द्रशेखरपुंभूतेशपुंखण्डपरशुपुंगिरीशपुंगिरिशपुंमृडपुंमृत्युञ्जयपुंकृत्तिवासस्पुंपिनाकिन्पुंप्रमथाधिपपुंउग्रपुंकपर्दिन्पुंश्रीकण्ठपुंशितिकण्ठपुंकपालभृत्पुंवामदेवपुंमहादेवपुंविरूपाक्षपुंत्रिलोचनपुंकृशानुरेतस्पुंसर्वज्ञपुंधूर्जटिपुंनीललोहितपुंहरपुंस्मरहरपुंभर्गपुंत्र्यम्बकपुंत्रिपुरान्तकपुंगङ्गाधरपुंअन्धकरिपुपुंक्रतुध्वंसिन्पुंवृषध्वजपुंव्योमकेशपुंभवपुंभीमपुंस्थाणुपुंरुद्रपुंउमापतिपुंअहिर्बुध्न्यपुंअष्टमूर्तिपुंगजारिपुंमहानटपुं
कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः ।प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ॥ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।वारीही च तथेन्द्राणी चामुण्डा सप्त मातरः ॥ ३५ ॥
1.1.35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा ।अणिमा महिमा चैव गरिमा लघिमा तथा ॥प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ।
1.1.17
अनुष्टुप्
उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ ३६ ॥शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ।अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ।
1.1.18
अनुष्टुप्
कार्तिकेयो महासेनः शरजन्मा षडाननः ।पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः ।षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ।
1.1.21
अनुष्टुप्metre not read in every line
इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥पुलोमजा शचीन्द्राणी नगरी त्वमरावती ।
1.1.23
अनुष्टुप्
इन्द्रपुंमरुत्वत्पुंमघवन्पुंबिडौजस्पुंपाकशासनपुंवृद्धश्रवस्पुंसुनासीरपुंपुरुहूतपुंपुरन्दरपुंजिष्णुपुंलेखर्षभपुंशक्रपुंशतमन्युपुंदिवस्पतिपुंसुत्रामन्पुंगोत्रभिद्पुंवज्रिन्पुंवासवपुंवृत्रहन्पुंवृषन्पुंवास्तोष्पतिपुंसुरपतिपुंबलारातिपुंशचीपतिपुंजम्भभेदिन्पुंहरिहयपुंस्वराज्पुंनमुचिसूदनपुंसंक्रन्दनपुंदुश्च्यवनपुंतुराषाह्पुंमेघवाहनपुंआखण्डलपुंसहस्राक्षपुंऋभुक्षिन्पुंपुलोमजास्त्रीशचीस्त्रीइन्द्राणीस्त्रीअमरावतीस्त्री
ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः ।शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥ ४७ ॥
1.1.47
अनुष्टुप्
व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः ।
1.1.28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ ।नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५१ ॥
1.1.51
अनुष्टुप्
स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ।घृताची मेनका रम्भा उर्वशी च तिलोत्तमा ॥सुकेशीमञ्जुघोषाद्याः कथ्यन्तेऽप्सरसो बुधैः ।
1.1.34
अनुष्टुप्
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५३ ॥बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः ।आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४ ॥रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः ।हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५५ ॥सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ।शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५६ ॥
1.1.56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
अग्निपुंवैश्वानरपुंवह्निपुंवीतिहोत्रपुंधनञ्जयपुंकृपीटयोनिपुंज्वलनपुंजातवेदस्पुंतनूनपात्पुंबर्हिस्पुंशुष्मन्पुंकृष्णवर्त्मन्पुंशोचिष्केशपुंउषर्बुधपुंआश्रयाशपुंबृहद्भानुपुंकृशानुपुंपावकपुंअनलपुंरोहिताश्वपुंवायुसखपुंशिखावत्पुंआशुशुक्षणिपुंहिरण्यरेतस्पुंहुतभुज्पुंदहनपुंहव्यवाहनपुंसप्तार्चिस्पुंदमुनस्पुंशुक्रपुंचित्रभानुपुंविभावसुपुंशुचिपुंअप्पित्तक्लीऔर्वपुंवाडवपुंवडवानलपुं
उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी ।क्षारो रक्षा च दावस्तु दवो वनहुताशनः ॥ ५७ ॥
1.1.57
अनुष्टुप्
धर्मराजः पितृपतिः समवर्ती परेतराट् ।कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ ५८ ॥कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ।
1.1.40
अनुष्टुप्
राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ ५९ ॥रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः ।यातुधानः पुण्यजनो नैरृतो यातुरक्षसी ॥ ६० ॥
1.1.60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ।समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥नभस्वद्वातपवनपवमानप्रभञ्जनाः ।
1.1.43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले ॥उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः ।(अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् ॥भाषणादि निमेषादि तद्व्यापाराः क्रमादमी) ॥ ६३ ॥
1.1.63
अनुष्टुप्
शरीरस्था इमे रंहस्तरसी तु रयः स्यदः ।जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥सत्वरं चपलं तूर्णमविलम्बितमाशु च ।
1.1.46
अनुष्टुप्
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
1.1.67
अनुष्टुप्
कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः ।मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८ ॥किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः ।यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ॥ ६९ ॥
1.1.69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)