All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
स्वरादिकाण्डः · स्वर्गवर्गप्रकाशः (1/5)
युस्मदस्मत् कतिष्णान्तसंख्याव्ययमलिङ्गकम् ।प्रायेसा क्लीबे मेव स्यात् क्रियाव्ययविशेषणम् ॥
2.1.1 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बे (wrong syllable)
स्वरव्ययं देवलोक-सुरलोक-फलोदयाः ।स्वर्गावरोह-त्रिदिव-स्वर्लोक-नागमन्दराः ॥
2.1.2 · p. 2
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क (wrong syllable)
ऊर्ध्वलोक-सुखाधार-सौरिक-त्रिदशालयाः ।द्वे स्त्रियौ द्यौ-दिवौ शक्रभुवनञ्च त्रिपिष्टपम् ॥
2.1.3 · p. 2
अनुष्टुप्
दिवानमपि चेच्छन्ति नान्तं न बहुसन्मतम् ।देवतायां सुपर्वाणस्त्रिदशास्त्रिदिवौकसः ॥
2.1.4 · p. 2
अनुष्टुप्
देवाः सुमनसो लेखा निर्जरा अमृतान्धसः ।अमर्त्या ऋभवोऽस्वप्ना विबुधा दानवारयः ॥
2.1.5 · p. 2
अनुष्टुप्
स्वाहाभुजः क्रतुभुजो गीर्वाणा दनुजद्विषः ।बृन्दारका दिविषदो द्युषदो द्यौषदः सुराः ॥
2.1.6 · p. 2
अनुष्टुप्
अमरा स्वर्गिनः शौभा निलिम्पाः सुचिरायुषः ।आदित्या आदितेयाः स्युः स्थिरा अदितिनन्दनाः ॥
2.1.7 · p. 2
अनुष्टुप्
दिवौकसः स्युर्वसुनास्त्रिदिवेशा दिवौकसः ।बह्निमुखा देवयवो दैवतानीह पुंसि वा ॥
2.1.8 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ह्नि (wrong syllable)
आदित्या द्वादश प्रोक्तास्तुषितास्त्रिंशदेव हि ।विश्वे-देवा दश प्रोक्ताः साध्या द्वादश कीर्तिता ॥
2.1.10 · p. 2
अनुष्टुप्
आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः ।महाराजिकनामानो द्वे शते विंशतिस्तथा ॥
2.1.11 · p. 2
अनुष्टुप्
रुद्रा एकादश प्रोक्ता वसवोऽष्टौ समीरिताः ।विद्याधराप्सरः सिद्धगन्धर्वयक्षकिन्नराः ॥
2.1.12 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्व (wrong syllable)
रक्षःपिशाचभूताश्च गुह्यका देवयोनयः ।असुरे स्युर्दितिसुताः पूर्वदेवाः क्रतुद्विषः ॥
2.1.13 · p. 2
अनुष्टुप्
सुरद्विट्-पुघसेन्द्रारि-दनुजेष्टिपचास्थिराः ।दैत्यदानवदैतेयसुरारित्रिदशारयः ॥
2.1.14 · p. 2
अनुष्टुप्
बृद्धो मुनीन्द्रो भगवान् श्रीघनः सुगतो मुनिः ।समन्तभद्रः सर्वज्ञो धर्मचक्रस्तथागतः ॥
2.1.16 · p. 2
अनुष्टुप्
लोकजिन्मारजित् शास्ता स्याद्दशार्णी गुणाकरः ।अकणिष्ठस्त्रिशरणो बुधो वज्री विनायकः ॥
2.1.18 · p. 3
अनुष्टुप्
वागशनिर्जितारिः स्यादर्हणोऽर्हन् महासुखः ।गौतमः शाक्यसिंहः स्यान्मायादेवीसुतः खजित् ॥
2.1.19 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
शौद्धदनिश्च सर्वार्थसिद्धः शाक्यमुनिश्च सः ।अर्कबन्धुः श्वेतकेतुः कूर्मकेतुर्महामुनिः ॥
2.1.20 · p. 3
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
पञ्चज्ञानः सर्वदर्शी महाबोधिर्महाबलः ।बहुक्षयस्त्रिमूर्तिः स्यात् सिद्धार्थः शक इत्यपि ॥
2.1.21 · p. 3
अनुष्टुप्
ब्रह्मा स्वयम्भुर्लोकेशो देवदेवः प्रजापतिः ।धाता हिरण्यगर्भः स्यात् पद्मगर्भः पितामहः ॥
2.1.22 · p. 3
अनुष्टुप्
परमेष्ठी सुरज्येष्ठः स्रष्टा स्याद्गुणसागरः ।विधाता द्रुहिणो वेधा विरिञ्चिश्चतुराननः ॥
2.1.23 · p. 3
अनुष्टुप्
विरिञ्चो वेदगर्भोऽपि बहुरेताः स्वभूर्विधिः ।सन्ध्यारामो सुधावर्षी कृपाद्वैतः खसर्पणः ॥
2.1.24 · p. 3
अनुष्टुप्
सनत् शतधृतिः कञ्जः कञ्जजो द्रुघनः प्रभुः ।चिन्तामणिः पद्मपाणिर्द्रुघनः स्यात् पुराणगः ॥
2.1.26 · p. 3
अनुष्टुप्
अष्टाकर्णो हंसरथः सर्वकर्ता चतुर्मुखः ।कृष्णो विष्णुर्वासुदेवो वैकुण्ठः केशवो विधुः ॥
2.1.27 · p. 3
अनुष्टुप्
नारायणो हृषीकेशो माधवो गरुडध्वजः ।गोविन्दः पुण्डरीकाक्ष उपेन्द्रो विष्टरश्रवाः ॥
2.1.28 · p. 3
अनुष्टुप्
दामोदरश्चक्रपाणिः पद्मनाभचतुर्भुजः ।दैत्यारिः श्रीहरिः शौरिः कंसारिर्नृहरिर्विभुः ॥
2.1.29 · p. 3
अनुष्टुप्
श्रीगर्भः श्रीकरः श्रीमान् श्रीधरः श्रीनिकेतनः ।श्रीकान्तः श्रीपतिः श्रीशः प्रभु श्रीवत्सलाञ्छनः ॥
2.1.31 · p. 3
अनुष्टुप्
विश्वक्सेनो बलिध्वंसी वनमाली त्रिविक्रमः ।अधोक्षजोऽसुररिपुर्मुकुन्दो मुरलीधरः ॥
2.1.32 · p. 3
अनुष्टुप्
अजितः स्याज्जितामित्रः ऋतधामा सनातनः ।एकशृङ्गो विश्वरूपः शशबिन्दुः पुनर्वसुः ॥
2.1.35 · p. 4
अनुष्टुप्
आदिदेवः श्रीवराहः सहस्रवदनस्त्रिपात् ।ऊर्ध्वदेवो हविर्गृध्नुर्यादवोऽरिष्टसूदनः ॥
2.1.36 · p. 4
अनुष्टुप्
धेनुकारिः सोमसिन्धुर्विरिञ्चिर्धरणीधरः ।बहुमूर्धा बर्धमानः शतानन्दः वृषान्तकः ॥
2.1.38 · p. 4
अनुष्टुप्
मथुरेशो द्वारकेशो रन्तिदेवो वृषाकपिः ।वसुदेवः कृष्णपिता शूर आनकदुन्दुभिः ॥
2.1.39 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कृ (wrong syllable)
बलदेवः पुलम्बघ्नो रुक्मिदर्पो हलायुधः ।कालिन्दीभेदनः कामः कामपालो मधुप्रियः ॥
2.1.41 · p. 4
अनुष्टुप्
नीलाम्बरो हलधरो हलभृत्तालभृद्बलः ।तालाङ्कः शीरपाणिः स्यात् सौनन्दी मुषली हली ॥
2.1.42 · p. 4
अनुष्टुप्
स्यादेककुण्डलो रामो लाङ्गली मुष्टिकान्तकः ।कामः पञ्चशरो मारः प्रद्युम्नो मदनः स्मरः ॥
2.1.44 · p. 4
अनुष्टुप्
रागरज्जुः कलाकेलिर्मधुदीपो रतिप्रियः ।कन्दर्पो मन्मथोऽनङ्गो दर्पको मकरध्वजः ॥
2.1.45 · p. 4
अनुष्टुप्
शम्बरारिर्जवाभीरुर्मधुसारथिरङ्गजः ।संकल्पयोनिः पुष्पास्त्रः पुष्पधन्वा मनोभवः ॥
2.1.46 · p. 4
अनुष्टुप्
रूपास्त्रः आत्मभूः कार्ष्णिः कुसुमेषुरनन्यजः ।नागचूर्णो मनसिजो मनोभूः कुसुमायुधः ।शमन्तको विश्वकेतुर्ब्रह्मसूर्मीनकेतनः ॥
2.1.47 · p. 4
अनुष्टुप्metre not read in every line
इकारः कथितो ह्यत्र काम पर्याय ईरितः ।कामपत्नी रागलता कामिः कामकला रतिः ॥
2.1.48 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
ब्रह्मसूरनिरुद्धः स्याद् विश्वकेतुरूषापतिः ।ऊषा प्रीतिजुषा बाणसुताऽनिरुद्धभाविनी ॥
2.1.49 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable); pāda 4, syllable 3 नि (wrong syllable)
लक्ष्मीः श्रीरिन्दिरा पद्मा कमला च हरिप्रिया ।पद्मालया जलधिजाभार्गवी सा च मा रमा ॥
2.1.50 · p. 5
अनुष्टुप्
अस्य शङ्खः पाञ्चजन्यः चक्रञ्चास्य सुदर्शनः ।गदा कौमोदकी चास्य कौमोदीत्यपि सा मता ॥
2.1.51 · p. 5
अनुष्टुप्
खड्गोऽस्य नन्दको हस्ते मणिरस्य स्यमन्तकः ।हृदये कौस्तुभो देवमानकः सुरतोषकः ॥
2.1.52 · p. 5
अनुष्टुप्
रुक्मिणी सत्यभामाद्या रमण्यः कमलापतेः ।मथुरा मधुरा तस्य पुरी द्वारावती परा ॥
2.1.53 · p. 5
अनुष्टुप्
द्वारवती द्वारकापि कामाद्यास्तनया वृथः ।रत्नाङ्कः सर्वतोभद्रो दारुकश्चास्य सारथिः ॥
2.1.54 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
सनकाद्याः पारिषदाः कीर्ताद्या मातरो मताः ।गरुडो बज्रतुण्डः स्याद् वैनतेयः सुधाहरः ॥
2.1.55 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
नागान्तकः स्वर्णपक्षः सुपर्णो हरिवाहनः ।पक्षिसिंहो विष्णुरथः कामायुः पन्नगाशनः ॥
2.1.56 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 वि (wrong syllable)
द्विजराजः खगपतिस्तार्क्ष्यो भुजगदारणः ।काश्यपिर्गजकूर्माशी किराताशी खगेश्वरः ॥
2.1.57 · p. 5
अनुष्टुप्
शिनौका उन्नतीशश्च मरुत्वान् सुविवादपि (?) ।शाल्मली सुमुखो विणुवाहुगः स्याद्भुजङ्गभुक् ॥
2.1.59 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 वि (wrong syllable)
दाशरथिर्दाशरथः कौशल्येयो रघूद्वहः ।सुग्रीवेशो बालिहन्ता राघवः कौशिकप्रियः ॥
2.1.61 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable)
कौशल्यानन्दनः श्रीशः सत्यो दशमुखान्तकः ।पिता दशरथश्चास्य भवेत् पङ्क्तिरथोऽपि सः ॥
2.1.63 · p. 5
अनुष्टुप्
वैदेही मैथिली भौमी जानकी जनकात्मजा ।सीता शीता च भूपुत्री सत्या लक्ष्मीसमाह्वया ॥
2.1.64 · p. 5
अनुष्टुप्
सौमित्रिरपि सौमित्रो लक्ष्मणो लक्षणोऽपि च ।इन्द्रजिद्विजयी स्यात्तु शत्रुघ्नः शत्रुमर्दनः ॥
2.1.65 · p. 5
अनुष्टुप्
भरतः सत्यसन्धः स्यात् कौशल्या कोशलात्मजा ।स्यात् केकयी च कैकेयी कैकयी भरतप्रसूः ॥
2.1.66 · p. 6
अनुष्टुप्
शत्रुघ्नजननी मित्रा सुमित्रा लक्ष्मणप्रसूः ।रामचन्द्रपुरी सौरी सायोध्योत्तरकोशला ॥
2.1.67 · p. 6
अनुष्टुप्
वाहनं रामचन्द्रस्य हनूमान् हनुमानपि ।आञ्जनेयो योगचयो मारुतिः पवनात्मजः ॥
2.1.68 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यो (wrong syllable)
हिडिम्बापतिरुद्ग्रीवो रामदूतोऽर्जुनध्वजः ।लङ्कादाही मरुत्वान् स्यात् कपीन्द्रो रजतद्युतिः ॥
2.1.69 · p. 6
अनुष्टुप्
शिवः पशुपतिः शम्भुरीश ईशान ईश्वरः ।शूली च ईश्वरः शर्वः शितिकण्ठस्त्रिलोचनः ॥
2.1.70 · p. 6
अनुष्टुप्
गिरीशो गिरिशस्तीव्रः कपर्दी चन्द्रशेखरः ।महेश उग्रः श्रीकण्ठः शङ्करः प्रमथाधिपः ॥
2.1.71 · p. 6
अनुष्टुप्
गङ्गाधरो वामदेवः क्रतुध्वंसी महानटः ।लेलिहानो भवभीरुर्भीषणो भैरवो भवः ॥
2.1.73 · p. 6
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 व (wrong syllable)
कृशानुरेता विश्वेशः सर्वज्ञो नीललोहितः ।रुद्रः स्थाणुः स्मरहरो जयन्तस्त्रिपुरान्तकः ॥
2.1.75 · p. 6
अनुष्टुप्
बहुरूपः कृत्तिवासाः सन्ध्यानाटी कपालभृत् ।मृत्युञ्जयः सुप्रसादः कालकण्ठो कृषाकपिः ॥
2.1.76 · p. 6
अनुष्टुप्
चन्द्रापीडः शूलधरो वृषाङ्को वृषभध्वजः ।शिविपिष्टो भूतनाथः शिपिविष्टो वरेश्वरः ॥
2.1.77 · p. 6
अनुष्टुप्
विश्वेश्वरो विश्वनाथः काशीनाथः कुलेश्वरः ।अस्थिमाली विशालाक्षो हिण्डीप्रियस्तमोहरः ॥
2.1.78 · p. 6
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प्रि (wrong syllable)
विषमाक्षो विरुपाक्षो भद्रः स्यात् पांशुचन्दनः ।ऊर्ध्वरेता महाकालः शूलपाणिर्यमान्तकः ॥
2.1.79 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable)
वृषपर्वाऽन्धकरिपुर्नन्दीश्वर उमापतिः ।स्यादष्टमूर्तिरघीशो भूतेशः खेचरो मृडः ॥
2.1.80 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
भृङ्गीशश्चार्धनारीशः पिनाकी रसनायकः ।कपर्दोऽस्य जटा शम्भोः पिनाकः स्यात् शरासनम् ॥
2.1.81 · p. 6
अनुष्टुप्
अजगावमाजगावं तत्स्यादजगवं त्रिधा ।अजकावमिति प्रायस्त्रिधा न बहुसम्मतम् ॥
2.1.82 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
महेशस्य पारिषदाः प्रमथाः पशवो गणाः ।मातरस्त्वस्य कथिताः शब्दशास्त्रानुसारतः ॥
2.1.83 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्य (wrong syllable)
ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा ।कौमारी स्यात्तु चामुण्डा काली च शिवदूतिका ॥
2.1.84 · p. 7
अनुष्टुप्
अस्याङ्गभूषणं भस्म विभूतिर्भूतिरस्य तु ।ऐश्वर्यमणिमाद्यष्टसिद्धयः सर्वसाधिकाः ॥
2.1.85 · p. 7
अनुष्टुप्
अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।ईशिता वशिता चैव तथा कामावसायिता ॥
2.1.86 · p. 7
अनुष्टुप्
अस्यैव हस्ते खट्वाङ्गं पांशुलं वाहनं वृषः ।अजकीव आजकावो दक्षौ हरिहरात्मकः ॥
2.1.87 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
स्यातामस्य द्वारपालौ सुप्रीतौ भृङ्गिनन्दिनौ ।नाडीस्नेहो भृङ्गवीटिर्भृङ्गी भृङ्गविटः शलः ॥
2.1.88 · p. 7
अनुष्टुप्
महाभीमो महाकालो नन्दिर्लङ्कामनोऽपि च ।नन्दिकेश्वर इत्येष नन्दिपर्याय ईरितः ॥
2.1.91 · p. 7
अनुष्टुप्
दुर्गा भवानी रुद्राणी शर्वाणी शारदाम्बिका ।चण्डी चण्डवती चण्डा चण्डिका चण्डनायिका ॥
2.1.92 · p. 7
अनुष्टुप्
मृडाणी गिरिजा काली मङ्गला सर्वमङ्गला ।नारायणी महामाया पार्वती वैष्णवी शिवा ॥
2.1.93 · p. 7
अनुष्टुप्
माहेश्वरी महादेवी हिण्डी हैमवतीश्वरी ।ईश्वरा कोट्टवी षष्ठी माधवी गणनन्दिनी ॥
2.1.94 · p. 7
अनुष्टुप्
जयन्ती भार्गवी रम्भा गौरी सिंहरथा सती ।अपर्णा भ्रामरी दक्षकन्या महिषमर्दिनी ॥
2.1.95 · p. 7
अनुष्टुप्
उमा हेरम्बजननी सावित्री कृष्णपिङ्गला ।वृषाकपायी लम्वा स्यात् सर्वाणी हिमशैलजा ॥
2.1.96 · p. 7
अनुष्टुप्
कार्तिकेयप्रसूराद्या नित्या विद्या शुभङ्करी ।सात्त्विकी राजसी भीमा तामसी नन्दनन्दिनी ॥
2.1.97 · p. 7
अनुष्टुप्
गणनाथो गणपतिर्गणेशो गणनायकः ।लम्बोदरः करिमुखो हेरम्बो मूषिकाञ्चनः ।एकदन्तः पुष्टिकान्तो गजदन्तो गजाननः ॥
2.1.99 · p. 8
अनुष्टुप्metre not read in every line
द्वैमातुरो विघ्नराजो विघ्नेशो विघ्ननाशनः ।एकदंष्ट्रो विघ्नहारी वज्रतुण्डो गणाग्रणीः ॥
2.1.101 · p. 8
अनुष्टुप्
कार्तिकेयः सिद्धसेनः पार्वतीनन्दनो गुहः ।महासेनस्तारकजित् कुमारः शिखिवाहनः ॥
2.1.102 · p. 8
अनुष्टुप्
देवसेनापतिः शम्भुतनयः क्रौञ्चदारणः ।अग्निभूर्बाहुलेयः स्याद् बालचर्यः षडाननः ॥
2.1.103 · p. 8
अनुष्टुप्
स्कन्दो विशाखः सेनानीः स्वामी द्वादशलोचनः ।कृकवाकुध्वजः शक्तिधरः षाण्मातुरः स्थिरः ।शरजन्मा महाबाहुर्युद्धरङ्गः शिखिध्वजः ॥
2.1.104 · p. 8
अनुष्टुप्
इन्द्रः सुरपतिः शक्रो मरुत्वान् मेघवाहनः ।शतमन्युः सुनासीरो वज्रपाणिः पुरन्दरः ॥
2.1.105 · p. 8
अनुष्टुप्
विश्वम्भरः सहस्राक्षो देवराजः शचीपतिः ।जम्भभेदी पर्वतारिर्बलारातिर्दिवस्पतिः ॥
2.1.106 · p. 8
अनुष्टुप्
संक्रन्दनो हरिहयः सुत्रामा गोत्रभिद्वृषा ।पर्जन्यः कौशिकः स्वाराट् मघवा पाकशासनः ॥
2.1.107 · p. 8
अनुष्टुप्
बृद्धश्रवाः शतधृतिर्विडौजा देवताधिपः ।लेखर्षभो नाकनाथ ऋभुक्षा पूर्वदिक्पतिः ॥
2.1.108 · p. 8
अनुष्टुप्
बास्तोष्पतिः पुलोमारिर्वज्री नमूचीसूदनः ।अर्हः प्राचीनबर्हाः स्याद् वृत्रहाऽऽखण्डलो हरिः ॥
2.1.109 · p. 8
अनुष्टुप्metre not read in every line
पृतनाषाट् दुश्च्यवनस्तपस्तङ्कः शतक्रतुः ।शची पुलोमजेन्द्राणी माहेन्द्री जयवाहिनी ॥
2.1.110 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दु (wrong syllable)
ऐन्द्री शताबरी च स्यादियमिन्द्रस्य भाविनी ।महेन्द्रनगरी सा स्यादमराप्यमरावती ॥
2.1.111 · p. 8
अनुष्टुप्
पूषभाषा सुरपुरी तस्य श्वेतहयो हयः ।उच्चैःश्रवा वृषणाश्वः सारथिस्तस्य मातलिः ॥
2.1.112 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
अस्योद्यानं कन्दसारं नन्दनमिन्द्रकाननम् ।प्रासादो वैजयन्तोऽस्य पुत्रः स्यात् पाकशासनिः ॥
2.1.113 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
जयो जयन्तो जयनित्यस्य कन्या च ताविषी ।जयन्ती देवसेना च मातङ्गोऽभ्रमुवल्लभः ॥
2.1.114 · p. 9
अनुष्टुप्
ऐरावतः सदादानः सुदामा श्वेतकुञ्जरः ।ऐरावणोऽभ्रमातङ्गो हस्तिमल्लो गजाग्रणीः ॥
2.1.115 · p. 9
अनुष्टुप्
नागमल्लश्चतुर्दन्तो मल्लनागोऽस्य चायुधम् ।शतकोटिः पविः शम्वो दम्भलिर्गविकण्ठकः ॥
2.1.116 · p. 9
अनुष्टुप्
अस्त्रियौ वज्रकुलिशौ भिदुरं भिदिकञ्च गौः ।द्वयोरशनिरभ्रोत्थं मेघभूतिर्गिरिज्वरः ॥
2.1.117 · p. 9
अनुष्टुप्
व्योमयानं दिव्यरथो विमानोऽस्त्री सुभद्रकम् ।देवर्षयो नारदाद्याः सभा देवसभा शुभा ॥
2.1.118 · p. 9
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
सुधर्मा च सुधर्मा स्यादमृतं निर्जरं सुधा ।पीयूषमपि पेयूषं समुद्र-नवनीतकम् ॥
2.1.119 · p. 9
अनुष्टुप्
स्वर्णदी स्याद्वियद्गङ्गा स्वर्गङ्गा सुरदीर्घिका ।मन्दाकिनी देवभूतिः स्वर्णपद्मा सुरेश्वरी ॥
2.1.120 · p. 9
अनुष्टुप्