प्राकाम्य
prākāmyaक्ली · neut.In 10 kośas: 10 synonym verses, 5 as a meaning of another word.
लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा ।यत्र कामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥ २०२ ॥
अनुष्टुप्
genderक्लीneut.
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा ।अणिमा महिमा चैव गरिमा लघिमा तथा ॥प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ।
अनुष्टुप्
genderक्लीneut.
विभूतिर्भूतिरैश्वर्यमणिमा महिमा पुनः ।गरिमा लघिमा प्राप्तिः प्राकाम्यं चेशिताऽष्टधा ॥ १०६ ॥
अनुष्टुप्
genderक्लीneut.
स्यात्स्वाच्छन्द्यानुमननं प्राकाम्यं चावसर्गकः ।ऐतिह्यं ना द्वयोर्वार्ता किंवदन्ती पुरातनी ॥ ६६ ॥
अनुष्टुप्
genderक्लीneut.
गरिमा महिमा चैव अणिमा लघिमा तथा ।ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमित्यपि ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
भूतिर्विभूतिरैश्वर्यमणिमादिकमष्टधा ।अणिमा महिमा चैव गरिमा लघिमा तथा ।प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ १७७ ॥
अनुष्टुप्
genderक्लीneut.
प्राकाम्यं वशितेशित्वं लधिमा महिमाऽणिमा ॥ २४६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।ईशिता वशिता चैव तथा कामावसायिता ॥
अनुष्टुप्
genderक्लीneut.
प्राप्तिरपि प्राकाम्यं भाषितमैश्वर्यमष्टविधम् ।उमा भवानी रुद्राणी शर्वाणी पार्वती सती ॥ ५७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अवसर्गः प्राकाम्यं स्वाच्छन्द्यानुमननमित्यपि च ।आकल्पक उत्कण्ठा चिन्ताकर्मण्यथास्त्यानम् ॥ २८ ॥
उपगीतिःmetre not read in every line
genderक्लीneut.
प्राकाम्य as a meaning in nānārtha verses
- कोषकल्पतरु परि-इष्हृदयप्रीतिनिदानेच्छार्थे स्याद्रोचते तद्वत् । आशंसते तथाशास्ते नाथते च शुभैषणे ॥ इच्छति स्यात्प्रतिज्ञाने प्राकाम्ये मार्गणे परेः । स्यादात्मनेपदे गर्धयतिर्वञ्चयतिस्तथा ॥ प्रतारणेऽर्थेऽन्यत्रोभौ परस्मैप[184a]दिनौ मतौ । चतति चदत्यर्थयते नाथति वनुते च नाधतेऽर्दति च । याचति च याचते स्याद्विथते स्याद्वेथते तद्वत् । स्याद्भिक्षते च याच्ञावाचिन एते च धातवो गदिताः । जिघ्रति शिङ्घति गन्धग्रहणे धमति स्मृतं धमने । आङः स्यादुदरापूरे ध्मातिः शब्देऽप्युपात्परः । प्रादर्थिः प्रार्थनाघातप्रेरणास्वरिसंरुधि ॥ व्रतचारे प्रतेर्विघ्नेऽर्थवैरूप्ये च वै द्विष्ये । समो वनोतिरालो* तथा प्रोक्तो वशीकृतौ ॥ Koṣakalpataru 3.5.25
- कोषकल्पतरु परीष्टिवसनादिना विशुद्धे संसृष्टं संगते च स्यात् । अवटुस्त्ववटे कूपे कृकाटिकायां परीष्टिस्तु । परिचर्यामार्गणयोः प्राकाम्येऽन्वेषणे च स्त्री । गन्धोल्यामपि हंस्यां वरटा त्रिपुटा त्रुटित्रिवृतोः ॥ ४० ॥ Koṣakalpataru 6.10.40
- कोषकल्पतरु पर्याप्तिआसत्तिः स्त्री लाभे सङ्गे पर्याप्तिस्तु त्राणे प्राप्तौ । प्राकाम्येऽथो निर्वृत्तिः स्याद्वैराग्यादौ पञ्चत्वेऽपि ॥ ४० ॥ Koṣakalpataru 6.16.40
- शब्दरत्नावली परीष्टिपर्कटी प्लक्षवृक्षे स्यात्पूगादेर्नूतने फले । परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणेऽपि च ॥ Śabdaratnāvalī 7.11.48
- शब्दरत्नावली ?किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50