कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāradīyākhyanāmamālā

शारदीयाख्यनाममाला Śāradīyākhyanāmamālā

462 verses · 4,677 words tagged · 226 marked doubtful (dashed)

प्रथमः काण्डः · धरावर्गः

॥ इति श्रीव्योमवर्गः समाप्तः ॥

विष्टपं भुवनं विश्वं जगल्लोकश्चराचरम् ।मनुष्यलोकः संसारो नागलोको रसातलम् ॥ १०४ ॥
1.3.104 · p. 12
अनुष्टुप्
पर्वतः शिखरी क्ष्माभृन्नगः शैलोऽचलो गिरिः ।अद्रिः शिलोच्चयो गोत्रो भूधरः सानुमान्धरः ॥ १०८ ॥
1.3.108 · p. 12
अनुष्टुप्
मेरुर्हिमालयो विन्ध्यः कैलासो मलयाचलः ।उदयाद्री रोहणश्च लोकालोकादयो नगाः ॥ १०९ ॥
1.3.109 · p. 12
अनुष्टुप्
नीरं वारि जलं तोयं पानीयं सलिलं कुशम् ।अम्भोऽर्णोऽम्बु पयः पाथः शम्बरं जीवनं वनम् ॥ ११० ॥
1.3.110 · p. 12
अनुष्टुप्
उदकं पुष्करं क्षीरममृतं सर्वतोमुखम् ।कङ्कबन्धं घनरसमापो वा कमलं विषम् ॥ १११ ॥
1.3.111 · p. 13
अनुष्टुप्
समुद्रः सागरः सिन्धुरुदधिः सरितां पतिः ।वारिराशिरकूपारः सरस्वान्मकरालयः ॥ ११२ ॥
1.3.112 · p. 13
अनुष्टुप्
यादःपतिर्जलनिधिरुदन्वानब्धिरर्णवः ।रत्नाकरो मितद्रुश्च पारावारो नदीश्वरः ॥ ११३ ॥
1.3.113 · p. 13
अनुष्टुप्
नदी तरङ्गिणी सिन्धुस्तटिनी निम्नगा धुनी ।श्रो[स्रो]तस्विनी शैवलिनी स्रवन्ती ह्रदिनी सरित् ॥ ११४ ॥
1.3.114 · p. 13
अनुष्टुप्
कूलंकषा निर्झरिणी कर्षूः स्रोतोवहापगा ।रोधोवक्रा जलधिगा द्वीपवत्यब्धिवल्लभा ॥ ११५ ॥
1.3.115 · p. 13
अनुष्टुप्
स्वर्नदी जाह्नवी गङ्गा त्रिस्रोता सुरदीर्घिका ।मन्दाकिनी त्रिपथगा भीष्मसूर्वियदापगा ॥ ११६ ॥
1.3.116 · p. 13
अनुष्टुप्
भागीरथी विष्णुपदी पवित्रा हरशेखरा ।कालिन्दी यमुना सौरी सूर्यपुत्री यमस्वसा ॥ ११७ ॥
1.3.117 · p. 13
अनुष्टुप्
उर्मिस्तरङ्गः कल्लोलो भङ्ग उत्कलिकावलिः ।उल्लोलो लहरी वीचिरावर्तः पयसां भ्रमः ॥ ११८ ॥
1.3.118 · p. 13
अनुष्टुप्
ओघः स्रोतः प्रवाहश्च वेला स्याद्वृद्धिरम्भसः ।कूलं तीरं तटं रोधः पुलिनं सैकतं च तत् ॥ ११९ ॥
1.3.119 · p. 13
अनुष्टुप्
बोहित्थं वहनं पोतो यानपात्रं वहित्रकम् ।द्रोणी तु मङ्गिनी वेडा नौका नौस्तरणिस्तरी ॥ १२० ॥
1.3.120 · p. 13
अनुष्टुप्
उडुपं तु प्लवः कोलस्तरण्डो मेल इत्यपि ।निर्यामकः कर्णधारो नाविकः पोतवाहकः ॥ १२१ ॥
1.3.121 · p. 14
अनुष्टुप्
पृथुरोमा संघचारी मत्स्यो मीनो झषोऽण्डजः ।वैसारिणो विसारी च शम्बरोऽनिमिषस्तिमिः ॥ १२२ ॥
1.3.122 · p. 14
अनुष्टुप्
पाठीनः शफरी शल्की रोहितश्च तिमिंगिलः ।भेकमण्डूकवर्षाभूशालूरप्लवदर्दुराः ॥ १२३ ॥
1.3.123 · p. 14
अनुष्टुप्
कच्छपः कमठः कूर्मो दौलेयः कमठी दुलिः ।यादांसि जलजीवाः स्युस्ते नक्रमकरादयः ॥ १२४ ॥
1.3.124 · p. 14
अनुष्टुप्
उदपानं प्रहिः कूपश्चान्धुर्वापी तु दीर्घिका ।पुष्करिणी खातकं च निपानं तु जलाश्रयः ॥ १२५ ॥
1.3.125 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
सरस्तडागः कासारः सरसी च सरोवरः ।पद्माकरः स एव स्याद्वसन्तः पल्वलं लघु ॥ १२६ ॥
1.3.126 · p. 14
अनुष्टुप्
कमलं पुष्करं पद्ममरविन्दं कुशेशयम् ।अम्भोरुहं तामरसं राजीवं च महोत्पलम् ॥ १२७ ॥
1.3.127 · p. 14
अनुष्टुप्
वि[बि]सप्रसूनं नलिनं शतपत्रं सरोरुहम् ।सहस्रपत्रं जलजं सरोजं सरसीरुहम् ॥ १२८ ॥
1.3.128 · p. 14
अनुष्टुप्
पङ्केरुहं सरसिजमब्जं वारिजमम्बुजम् ।नालीकं पङ्कजाम्भोजे कजं चाह्नि विकासभाक् ॥ १२९ ॥
1.3.129 · p. 14
अनुष्टुप्
रक्तोत्पलं कोकनदं पुण्डरीकं सिताम्बुजम् ।पद्मिनी च कमलिनी नलिनी बिस[सि]नीत्यपि ॥ १३० ॥
1.3.130 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 मलि (syllable split)
अम्भोजिनी नीरजिनी पङ्कजिन्यब्जिनी स्मृता ।अथोत्पलं कुवलयं कुमुदं कैरवं सितम् ॥ १३१ ॥
1.3.131 · p. 15
अनुष्टुप्
इन्दीवरं च तन्नीलोत्पलं रात्रिविकासभाक् ।कुमुद्वती कुमुदिनी कैरविणी शशिप्रिया ॥ १३२ ॥
1.3.132 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
दण्डो नालं मृणालं च बिसतन्तुश्च तन्तुलम् ।द्विरेफो भ्रमरो भृङ्गो रोलम्बोऽलिः शिलीमुखः ॥ १३३ ॥
1.3.133 · p. 15
अनुष्टुप्
इन्दिन्दिरश्चश्चरीकः षट्पदश्च मधुव्रतः ।मधुपोऽली[लिः] मधुकरो मधुलिट् पुष्पलिट् स्मृतः ॥ १३४ ॥
1.3.134 · p. 15
metre not recognisednearly अनुष्टुप्
वल्ली प्रतानिनी वीरुद्व्रततिर्वल्लरी लता ।पुष्पं प्रसूनं कुसुमं सूनं सुमनसः सुमम् ॥ १३५ ॥
1.3.135 · p. 15
अनुष्टुप्
मकरन्दः पुष्परसः परागं पुष्पजं रजः ।पत्रं पर्णं दलं बर्हं पलाशं छदनं छदः ॥ १३६ ॥
1.3.136 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
नवं तत्स्यात्किसलयं प्रवालः पल्लवो नवः ।फुल्लं विकसितं स्मेरं प्रबुद्धं विकचं स्मृतम् ॥ १३७ ॥
1.3.137 · p. 15
अनुष्टुप्
उज्जृम्भितं चोन्मिषितं हसितं च विजृम्भितम् ।स्फुटं प्रफुल्लमुत्फुल्लं विनिद्रं दलितं तथा ॥ १३८ ॥
1.3.138 · p. 15
अनुष्टुप्
संकुचितं मीलितं च निद्राणं मुद्रितं स्मृतम् ।षण्ड आराम उद्यानं विपिनं काननं वनम् ॥ १३९ ॥
1.3.139 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
वाटिकोपवनं दावः कक्षः कान्तारनिःकुटौ ।अटव्यरण्यं गहनं सान्द्रे कुञ्जो निकुञ्जवत् ॥ १४० ॥
1.3.140 · p. 15
अनुष्टुप्
वृक्षो द्रुमस्तरुः शाखी पादपश्च महीरुहः ।अनोकहोंऽह्रिपः सालः पलाशी विटपी कुटः ॥ १४१ ॥
1.3.141 · p. 16
अनुष्टुप्
अगो नगोऽगमो द्रुश्च फलवांश्च वनस्पतिः ।केतकः केतकी जाती चम्पको मल्लिका जपा ॥ १४२ ॥
1.3.142 · p. 16
अनुष्टुप्
बन्धुको यूथिका कुन्द इत्याद्याः पुष्पजातयः ।आम्रो रसालो माकन्दः सहकारश्चूतनूतवत् (?) ॥ १४३ ॥
1.3.143 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सह (syllable split)
रम्भा तु कदली मोचा समौ करकदाडिमौ ।गन्धसारो मलयजः श्रीखण्डश्चन्दनद्रुमः ॥ १४४ ॥
1.3.144 · p. 16
अनुष्टुप्
तैलपर्णिकमेवेदं गोशीर्षं हरिचन्दनम् ।सर्पो भुजंगो भुजगः पन्नगोऽहिर्भुजंगमः ॥ १४५ ॥
1.3.145 · p. 16
अनुष्टुप्
उरगो जिह्मगो भोगी दन्दशूकः सरीसृपः ।दर्वीकरो विषधरो द्विजिह्वः पवनाशनः ॥ १४६ ॥
1.3.146 · p. 16
अनुष्टुप्
काकोदरो दीर्घपृष्ठः पृदाकुः कुण्डली फणी ।आशीविषो गुप्तपादो व्यालो नागो बिलेशयः ॥ १४७ ॥
1.3.147 · p. 16
अनुष्टुप्
चक्षुःश्रवाः काद्रवेयः सर्पराजस्तु वासुकिः ।शेषो नागाधिपोऽनन्तः सहस्रवदनश्च सः ॥ १४८ ॥
1.3.148 · p. 16
अनुष्टुप्
विषस्तु गरलं क्ष्वेडो रसस्तीक्ष्णश्च तद्भिदः ।हालाहलः कालकूटो वत्सनागः प्रदीपनः ॥ १४९ ॥
1.3.149 · p. 16
अनुष्टुप्
सौराष्ट्रिको ब्रह्मपुत्रः काकोलो दरदोऽपि च ।मृगः कुरङ्गो हरिण एणः सारङ्ग एव च ॥ १५० ॥
1.3.150 · p. 16
अनुष्टुप्
वातायुः कृष्णसारश्च रुरुमुख्यास्तु तद्भिदः ।सिंहो मृगेन्द्रः पारीन्द्रो हर्यक्षः केसरी हरिः ॥ १५१ ॥
1.3.151 · p. 17
अनुष्टुप्
कण्ठीरवो महानादो मृगारिर्नखरायुधः ।पञ्चाननो गजारातिः पुण्डरीकस्तु चित्रकः ॥ १५२ ॥
1.3.152 · p. 17
अनुष्टुप्
द्वीपी व्याघ्रश्चित्रकायः शार्दूलः शरभोऽष्टपाद् ।गजो मतङ्गजो हस्ती मातङ्गः कुञ्जरः करी ॥ १५३ ॥
1.3.153 · p. 17
अनुष्टुप्
इभः स्तम्बेरमः कुम्भी दन्ती दन्तावलो द्विपः ।द्विरदः सिन्धुरो नागः सामयोनिर्महामृगः ॥ १५४ ॥
1.3.154 · p. 17
अनुष्टुप्
अनेकपश्च करटी करेणुः पीलुवारणौ ।घोटकस्तुरगो वाजी तुरंगोऽश्वस्तुरंगमः ॥ १५५ ॥
1.3.155 · p. 17
अनुष्टुप्
अर्वा वाहो हयः सप्तिर्गन्धर्वो वीतिरेव च ।काम्बोजाः सैन्धवा देश्या अ[आ]जानेया वनायुजाः ॥ १५६ ॥
1.3.156 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अश्वा वामी च वडवा किशोरो बालघोटकः ।अनश्च शकटो गन्त्री शताङ्गः स्यन्दनो रथः ॥ १५७ ॥
1.3.157 · p. 17
अनुष्टुप्
शिबिका याप्ययानं च दोला प्रेङ्खा सुखासनम् ।वाहनं धोरणं यानं पत्रं युग्यं गतिर्ध्वजः ॥ १५८ ॥
1.3.158 · p. 17
अनुष्टुप्
ध्वजश्च केतनं केतुः पताका चिह्नमेव च ।मार्गोऽध्वा निगमः पन्था पदवी वर्त्म पद्धतिः ॥ १५९ ॥
1.3.159 · p. 17
अनुष्टुप्
अयनं सरणिः पथ्या रथ्या वीथी च संचरः ।उक्षा गौर्वृषभोऽनड्वान्भद्रः शार्करशर्करौ ॥ १६० ॥
1.3.160 · p. 17
अनुष्टुप्
बलीवर्दः सौरभेयः ककुद्माञ्शांकरो वृषः ।सुरभिर्गौरनड्वाही सौरभेयी च रोहिणी ॥ १६१ ॥
1.3.161 · p. 18
अनुष्टुप्
तम्पा तम्बार्जुनी धेनुर्माहेयी च निलिम्पिका ।क्रमेलकोष्ट्रकरभा दासेरः कण्टकाशनः ॥ १६२ ॥
1.3.162 · p. 18
अनुष्टुप्
वराहः शूकरः कोलो गर्दभो रासभः खरः ।कुक्कुरः सारमेयः श्वा भषणः श्वानमण्डलः ॥ १६३ ॥
1.3.163 · p. 18
अनुष्टुप्
शाखामृगो मर्कटश्च वनौका वानरः कपिः ।शृगालो जम्बुकः क्रोष्टा फेरुगोमायुफेरवः ॥ १६४ ॥
1.3.164 · p. 18
अनुष्टुप्
उरभ्रो मेण्ढको मेष एडकोऽविहुडोरणाः ।अजस्तु छगलश्छागश्छगो बस्तः स्तभः पशुः ॥ १६५ ॥
1.3.165 · p. 18
अनुष्टुप्
अग्निर्वह्निर्बृहद्भानुर्दहनो ज्वलनोऽनलः ।वैश्वानरः कृष्णवर्त्मा चित्रभानुर्धनंजयः ॥ १६६ ॥
1.3.166 · p. 18
अनुष्टुप्
आशुशुक्षणिरप्पित्तं जातवेदा हुताशनः ।हव्यवाहो हुतवहो बर्हिः शुष्मा विभावसुः ॥ १६७ ॥
1.3.167 · p. 18
अनुष्टुप्
आश्रयाशो वायुसखः पावको हुतभुक्शिखी ।वृषाकपिर्वीतिहोत्रः कृशानुश्छागवाहनः ॥ १६८ ॥
1.3.168 · p. 18
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
हिरण्यरेताः सप्तार्चिः शोचिष्केशस्तनूनपात् ।कृपीटयोनिर्दमुना रोहिताश्व उषर्बुधः ॥ १६९ ॥
1.3.169 · p. 18
अनुष्टुप्
स्वाहापतिः शुचिः शुक्रो बर्हिर्ज्योतिर्विरोचनः ।ज्वालाजिह्वः सप्त मन्त्रः शुष्मा धूमध्वजोऽपि च ॥ १७० ॥
1.3.170 · p. 18
अनुष्टुप्
वडवानल और्वश्च वाडवो वडवामुखः ।संवर्तकः समुद्राग्निर्दवो दावो वनानलः ॥ १७१ ॥
1.3.171 · p. 19
अनुष्टुप्
सुवर्णं कनकं स्वर्णं हिरण्यं हेम काञ्चनम् ।चामीकरं शातकौम्भं गाङ्गेयं भर्म हाटकम् ॥ १७२ ॥
1.3.172 · p. 19
अनुष्टुप्
कार्तस्वरं जातरूपं कलधौतं च कर्बुरम् ।तपनीयं च कल्याणं रुक्मं जाम्बूनदं वसु ॥ १७३ ॥
1.3.173 · p. 19
अनुष्टुप्
अष्टापदं भूरिचन्द्रो महारजतभूत्तमे ।दुर्वर्णं रजतं रूप्यं तारं खर्जूरमित्यपि ॥ १७४ ॥
1.3.174 · p. 19
अनुष्टुप्
रत्नं वसु मणिस्तस्य भेदा मरकतादयः ।वैडूर्यवज्रमाणिक्यनीलमौक्तिकविद्रुमाः ॥ १७५ ॥
1.3.175 · p. 19
अनुष्टुप्
द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् ।अर्थो लक्ष्मीः स्वापतेयं रिक्थमृक्थ तथा वसु ॥ १७६ ॥
1.3.176 · p. 19
अनुष्टुप्
भूतिर्विभूतिरैश्वर्यमणिमादिकमष्टधा ।अणिमा महिमा चैव गरिमा लघिमा तथा ।प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ १७७ ॥
1.3.177 · p. 19
अनुष्टुप्
महापद्मस्तथा पद्मः शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दौ नीलश्च खर्वश्च निधयो नव ॥ १७८ ॥
1.3.178 · p. 19
अनुष्टुप्
अस्यां श्रीहेममालायां हर्षकीर्तिकवेः कृतौ ।देवव्योमधरावर्गैः काण्डोऽयं प्रथमोऽजनि ॥ १७९ ॥
1.3.179 · p. 19
अनुष्टुप्