भस्मन्
bhasmanक्ली · neut.In 19 kośas: 14 synonym verses, 14 as a meaning of another word.
समिदिन्धनमेधेध्मतर्पणैधांसि भस्म तु ॥ ८२७ ॥स्याद्भूतिर्भसितं रक्षा क्षारः पात्रं स्रुवादिकम् ।
अनुष्टुप्
genderक्लीneut.
उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी ।क्षारो रक्षा च दावस्तु दवो वनहुताशनः ॥ ५७ ॥
अनुष्टुप्
genderक्लीneut.
एधस्तर्पणमिन्धनमेधः समिदिध्म इत्यभिन्नार्थाः ।भूतिर्भसितं भस्म क्षारं रक्षा च निर्दिष्टा ॥ ६९ ॥
आर्या
genderक्लीneut.
भसितं भस्म भूतिः स्यादग्न्युत्पात उपाहितः ।यमः पितृपतिर्दण्डनाथो दण्डधरो हरिः ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
अङ्गारस्तु प्रशान्तार्चिरिङ्गालः कलिकाग्निविट् ।वीरचूर्णं तु भसितं निर्गुरुर्भस्म इत्यपि ॥ ५४ ॥
अनुष्टुप्
genderक्लीneut.
इङ्गालोऽप्यथ निर्वाणे कोकिलः सरसेऽरसे ।स्त्रियां रक्षा विभूतिः स्यात् क्लीबे भसितभस्मनी ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
खतमालोऽब्दवाही च धूम्या स्त्री धूमसंहतिः ।रक्षा भूतिश्च भसितं पर्वटं भस्म चार्वटम् ।गृहधूमो धुन्धुमारस्त्रिष्वाग्नेयं भवादिषु ॥ १३५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderक्लीneut.
दग्धः प्रज्वलितः प्लुष्टो हेतिर्ज्वालाशिखार्च्चिषः ।अङ्गारेङ्गालौ रक्षा तु भसितं भस्म भूतिवत् ॥ ११८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लौ (wrong syllable)
genderक्लीneut.
भसितं भस्म भूतिश्च रक्षा क्षारश्च कथ्यते ॥ १३८० ॥
अनुष्टुप्
genderक्लीneut.
अस्याङ्गभूषणं भस्म विभूतिर्भूतिरस्य तु ।ऐश्वर्यमणिमाद्यष्टसिद्धयः सर्वसाधिकाः ॥
अनुष्टुप्
genderक्लीneut.
अरणी समिधि त्वेध एधः सान्तं तथेन्धनम् ।नान्तादन्ते तु इध्मेध्मे रक्षाभस्मनि क्षारवत् ॥ ३०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)
genderक्लीneut.
क्षारस्तु भस्म भसितं रक्षाभूतिविभूतयः ।अणिमा महिमा लघिमा गरिमेशित्वं वशित्वं च ॥ ५६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
भासतं भस्म भूतिः स्यादग्न्युत्पात उपाहितः ।यमः पितृपतिर्दण्डधरो महिषवाहनः ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
भस्मन् as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् भूतिवीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि ॥ ६९ ॥ Amarakośa 3.3.69
- धरणिकोश क्षारचारः पियालवृक्षे स्याच्चारोऽपसर्पबन्धयोः । क्षारः स्याल्लवणद्रव्ये चूर्णादौ काचभस्मनोः ॥ Dharaṇikośa 26.2.8
- कोषकल्पतरु भूतिभूतिस्तु संपद्गजभूषणे स्या- ज्जातौ तथा भस्मनि च प्रदिष्टम् । स्यूतिस्तु संतानकसीवनेषु स्यूतौ भवेदूतिरिहावनेऽपि ॥ ५५ ॥ Koṣakalpataru 6.16.55
- कोषकल्पतरु पार्परपुंसि वास्तव्यके वाणिजे नीवरो गह्वरं कन्दरे कैतवे संकटे । भक्तसिक्थे यमे यक्ष्मके केसरे कौत्सिताम्बे दृढे( ? )पार्परो भस्मनि ॥ ३४ ॥ Koṣakalpataru 6.27.34
- नानार्थार्णवसंक्षेप भूतिकुड्यप्रदेशयोः स्यात् तु भूमिः क्ष्मास्थानमात्रयोः । भूतिर्भस्मनि सम्पत्तावुत्पत्तौ भरुटेऽपि च ॥ ७६ ॥ Nānārthārṇavasaṃkṣepa 2.1.76
- नानार्थार्णवसंक्षेप रक्षासमाधावथ रक्षा स्याल्लाक्षारक्षणभस्मसु । रतिः कन्दर्पभार्यायां सुरतोत्कण्ठयोरपि ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 2.1.82
- नानार्थार्णवसंक्षेप क्षारवाराणस्यामथो कायः शरव्ये निवहे तनौ । ना त्रिः कदेवते क्षारः पुनः क्षरणभस्मनोः ॥ १९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.194
- परमानन्दीयनाममाला भूतिभूभृद्वरे गिद्रे शेषे भूतिर्लक्ष्म्यां च भस्मनि । भीमो रौद्रे हरे भूपे भावाटः कामुके मुनौ ॥ ३३४ ॥ Paramānandīyanāmamālā 5.20.334
- शिवकोष क्षारऐन्द्री स्यादिन्द्रवारुण्यां शेफल्यां सारिवैलयोः । क्षारः पाक्ये गुडे काचे यवजे पटुभस्मनोः ॥ ३७२ ॥ Śivakoṣa 22.2.372
- शब्दरत्नावली भूतिभूतिः स्यात्कुम्भिशृङ्गारभस्मसम्पत्त्रिषु स्त्रियाम् । अथ भूतं पृथिव्यादौ पिशाचादिषु जन्तुषु ॥ Śabdaratnāvalī 7.16.34
- शब्दरत्नाकर क्षारपेषणे रजसि क्षोदः क्षारस्तु गुडभस्मनोः । काण्डोऽस्त्री दण्डवर्गेषुनालावसरवारिषु ॥ १८८७ ॥ Śabdaratnākara 4.1.1887
- त्रिकाण्डशेष क्षारभस्मकाचरसाः क्षाराः कारुः कारकशिल्पिनोः । कर्बुरो राक्षसे पापे कर्बुरं शबले जले ॥ ३३६ ॥ Trikāṇḍaśeṣa 3.3.336
- वैजयन्ती क्षारकण्ठो गलेऽन्तिके शब्दे कपयोऽर्केभवानराः । गुडभस्मरसाः क्षाराः क्षोदो रजसि पेषणे ॥ १३ ॥ Vaijayantī 6.1.13
- वैजयन्ती भूतिभूमिः क्षितौ स्थानमात्रे भूतिः श्रीजन्मभस्मसु । मतिः कांक्षा शेमुषी च मल्लिर्मृत्पात्रपीठयोः ॥ २७ ॥ Vaijayantī 6.2.27