कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अरुन्तुद

aruntudaवि · adj.

In 6 kośas: 6 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.83
अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम् ॥ ८३ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.371 · p. 44
तीक्ष्णोपायेन योऽन्विच्छेत्स आयःशूलिको मतः ।अरुन्तुदः स्याद्व्यथको वियातो धृष्ट उच्यते ॥ ३७१ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.702 · p. 118
उच्चावचं नैकभेदं मर्मस्पृक् स्यादरुन्तुदम् ।प्रसव्यं प्रतिकूले स्यादुद्दामं तु निरर्गले ॥ ७०२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.781 · p. 112
अरुन्तुदश्च मर्मस्पृक् व्यथकश्चापि कथ्यते ॥ ७८१ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.42 · p. 166
अविलम्वितमुच्चन्तं त्वरायुक्ते भवेद्द्वयम् ।अरुन्तुदन्तु मर्मस्पृक् द्वितयं मर्मपीडके ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.112 · p. 210
ऊतं स्यूतमुतं तन्तुसन्तते प्रार्थितेऽर्दितम् ।उद्धृतं समुदस्तं स्यान्मर्मस्पृक् स्यादरुन्तुदम् ॥ ११२ ॥
अनुष्टुप्
genderविadj.