All kośas › Paryāyaśabdaratna
पर्यायशब्दरत्न Paryāyaśabdaratna
981 verses · 5,697 words tagged · 1,066 marked doubtful (dashed)
मध्यमलोकसर्गः (6/7)
रज्जौ शुभं(ल्बं?) शोभनं च शुम्भं वटकरोऽपि च ।वटी वटो वटं चापि गुणो वटकरीति च ॥ ६०१ ॥
2.601 · p. 103
अनुष्टुप्
उद्घाटनं चोद्घटनं घटीयन्त्रे तु घट्ठणम् ।वेमा वयनदण्डेऽस्मिन्व्यूतिर्वाणिरपि स्मृता ॥ ६०२ ॥
2.602 · p. 104
अनुष्टुप्
पेटकः पिटकः पेटी(टा?) मञ्जूषा चोषका मता ।विहंसि(गि?)का भारयष्टिः व्यक्तं लेप्यादिकर्मणि ॥ ६०३ ॥
2.603 · p. 104
अनुष्टुप्
शिक्यं काचश्च तोलम्बे पा(प?)दं पादूश्च पादुका ।उपानच्चानुपदीना पादत्राणे प्रकीर्तिताः ॥ ६०४ ॥
2.604 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
अश्वमध्यमरज्जौ स्याद्वरत्रा च वरत्रिका ।नध्री वध्री सुनध्री च विवध्री वद्रिकापि च ॥ ६०५ ॥
2.605 · p. 104
अनुष्टुप्
कण्डोलवीणा कण्डोला(ली?) चाण्डा चाण्डालिका स्मृता ।नाराची चैषणी स्वर्णकारकाञ्चनभेदके ॥ ६०६ ॥
2.606 · p. 104
अनुष्टुप्
शाणोपले तु शाणः स्यान्निकाषो निकषः कषः ।व्रश्चनः परशुश्चैव स्वर्णभेदकभेदके ॥ ६०७ ॥
2.607 · p. 104
अनुष्टुप्
चित्रकाद्युपसामग्र्यामिषीका तूलिका मता ।चर्मप्रसेचका(वको?) भस्त्रा भस्त्रिका भस्त्रिरित्यपि ॥ ६०८ ॥
2.608 · p. 104
अनुष्टुप्
आस्फोटनी वेधनिका कर्तरी तु कृपाणिका ।तैजसावर्तनी मूषा मुषायां परिकीर्तिता ॥ ६०९ ॥
2.609 · p. 105
अनुष्टुप्
वृक्षादो वृक्षभेदी स्याद् टङ्कः पाषाणभेदके ।करपत्रे तु दावित्रं क्रकचः क्रच इत्यपि ॥ ६१० ॥
2.610 · p. 105
अनुष्टुप्
स्याच्चर्मभेदिकादौ स्यादारिका चापि कथ्यते ।स्यादयःप्रतिमायां तु स्थूणा शूर्मी च शूर्मिका ॥ ६११ ॥
2.611 · p. 105
अनुष्टुप्
स्याद्गीतादिचतुःषष्ठिकलाकर्मणि शिल्पकम् ।प्रतिमानं प्रतिच्छाया प्रतिमा प्रतिबिम्बनम् ॥ ६१२ ॥
2.612 · p. 105
अनुष्टुप्
प्रत्याकृतिः प्रतिकृतिः प्रतिः प्रतिनिधिस्तथा ।प्रतिबिम्बं प्रतिकरा चार्चा च प्रतियातना ॥ ६१३ ॥
2.613 · p. 105
अनुष्टुप्
अन्यवस्तुनि चारोपे गुणानन्यस्य वस्तुनः ।उपमा चोपमानं च उपमं च क्वचित्क्वचित् ॥ ६१४ ॥
2.614 · p. 105
अनुष्टुप्
समे तुल्यः सदृक्षश्च सदृक् सदृश इत्यपि ।साधारणे समानं स्यात्समलः समकोऽपि च ॥ ६१५ ॥
2.615 · p. 105
अनुष्टुप्
निभसंकाशनीकाशप्रतीकाशोपमादयः ।वेतने तु विधा भृत्या भरण्यं भरणं भृतिः ॥ ६१६ ॥
2.616 · p. 106
अनुष्टुप्
कर्मण्या भर्म मूल्यं च निर्वेशो वेतनं पणम् ।सुरा हलिप्रिया हाला परिसृ(स्रु?)द्वरुणात्मजा ॥ ६१७ ॥
2.617 · p. 106
अनुष्टुप्
गन्धोत्तमा प्रसन्ना च इरा कादम्बरी तथा ।मद्यं कश्यं च मदिरा हाली साधारणी तथा ॥ ६१८ ॥
2.618 · p. 106
अनुष्टुप्
शुण्डापानं मदस्थानं शुण्डाली च सुरागृहे ।मध्वारको मधुकरो मधुवारो मधुक्रमः ॥ ६२० ॥
2.620 · p. 106
अनुष्टुप्
स्यात्क्रमेणासकृत्सिद्धमधुपानावसे स्मृताः ।मक्षिकाकृतमद्ये तु मध्वासव इतीष्यते ॥ ६२१ ॥
2.621 · p. 106
अनुष्टुप्
स्मृतो मधुपको द्राक्षाकृतमद्ये च माधवः ।धान्याम्बुकृतमद्ये तु धातकीपुष्पमिश्रिते ॥ ६२२ ॥
2.622 · p. 106
अनुष्टुप्
गुडयुक्ते च मैरेयो मेराधा(था?)सव इष्यते ।पक्वेक्षुरसमद्येऽथ जङ्ग(ग?)लः शीधु मेदकः ॥ ६२३ ॥
2.623 · p. 107
अनुष्टुप्
स्यात्सुरासंधानकरी कल्केधा(था?)भिषवः पुमान् ।नन्दनं(संधानं?) च सुरापाने मद्येनासवमिष्यते ॥ ६२४ ॥
2.624 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धा (wrong syllable)
भक्ष्यभेदेऽथ किण्वं च नग्नहूः पुंसि वर्तते ।नानाविधद्रव्यकृतसुरासाधन इष्यते ॥ ६२५ ॥
2.625 · p. 107
अनुष्टुप्
स्यात्पानगोष्ठिकायां तु नद्धमापानमित्यपि ।चषकः पानपात्रं च स्यात्सुरापानपात्रके ॥ ६२६ ॥
2.626 · p. 107
अनुष्टुप्
सरकः सरणश्च स्यादनुतर्षणमित्यपि ।धूर्तोऽक्षवेदी(देवी?) कितवो द्यूतकारेऽथ लग्नकः ॥ ६२७ ॥
2.627 · p. 107
अनुष्टुप्
स्याद्द्यूतप्रतिभूनाम्नि द्यूतहेलाविकारिणि ।असभाको सभिरसो द्यूतकारक इत्यपि ॥ ६२८ ॥
2.628 · p. 107
अनुष्टुप्
स्यात्तु यः स्वगृहे द्यूतं कारयत्यतिमोहितः ।अक्षे द्यूतः प्रासकश्च पाशः पाशक इत्यपि ॥ ६२९ ॥
2.629 · p. 107
अनुष्टुप्
परिणायस्तदाक्षेपे तदादाने परिङ्गलः ।स्याच्छारिफलके त्वष्टापदं सरसमित्यपि ॥ ६३० ॥
2.630 · p. 108
अनुष्टुप्
आह्वायश्च समाह्वायो दैही दैहिक इत्यपि ।स्यात्कुक्कुटमहिष्यादिप्राणिद्यूतेऽभिकीर्तितः ॥ ६३१ ॥
2.631 · p. 108
अनुष्टुप्
उक्ता भूरिप्रयोगत्वादेकस्मिन्यत्र(येऽत्र?) यौगिकाः ।ताद्धर्म्यादन्यतो वृत्ता ऊह्या लिङ्गान्तरेऽपि ते ॥ ६३२ ॥
2.632 · p. 108
अनुष्टुप्
उदीर्ण उद्भटोदार उदात्ते हृदयंगमे ।हृदयालुर्दयालुश्च विज्ञो ज्ञानी तु पानलः ॥ ६३३ ॥
2.633 · p. 108
अनुष्टुप्
क्षेमंकरोऽरिष्टतातिः शिवतातिः शिवंकरः ।चतुरे कृतहस्तश्च चमत्कारे नधी(दी?)ष्णवत् ॥ ६३४ ॥
2.634 · p. 108
अनुष्टुप्
पूज्ये प्रतीक्ष्यः प्रेक्ष्यश्च प्रवीक्ष्यः प्रसरः सरः ।दक्षिण्ये दक्षिणेयः(णीयः?) स्याद्दक्षिणो दक्षिणार्हकः ॥ ६३५ ॥
2.635 · p. 108
अनुष्टुप्
वदान्ये स्थूललक्षः स्याद्दानशौण्डो बहुप्रदः ।सांशैकः संशयापन्नोऽनान्तर्वाणिस्तु शास्त्रवित् ॥ ६३६ ॥
2.636 · p. 108
अनुष्टुप्
परीक्षकः कारु(र?)णिके वरदे तु समर्धकः ।हर्षमाणे विकुर्वाणोऽभिज्ञे निष्णातशिक्षितौ ॥ ६३७ ॥
2.637 · p. 109
अनुष्टुप्
तत्परे प्रसितासक्तौ सुकलो दातृभोक्तरि ।धनिके त्वाढ्य इभ्यश्च विश्रुते वित्त इष्यते ॥ ६३८ ॥
2.638 · p. 109
अनुष्टुप्
अधिभूर्नायके पुंसि नेता परिवृढोऽधिपः ।अधिकर्धिः समृद्धः स्यादीश्वरे पतिरीशिता ॥ ६३९ ॥
2.639 · p. 109
अनुष्टुप्
स्यादभ्यागारिकोपाधिः कुटुम्बव्यापृते पुमान् ।श्रेष्ठावयवरूपो यः सिंहसंहननो हि सः ॥ ६४० ॥
2.640 · p. 109
अनुष्टुप्
अमुष्यायण इत्युक्तो यः प्रख्यातो गुणैः पितुः ।स्वजातिपरयो जैन्यो जवनः पितृसंनिभः ॥ ६४१ ॥
2.641 · p. 109
अनुष्टुप्
सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः ।लक्ष्मीवाँल्लक्ष्मणः श्रीलो दयालौ सुब्र(र?)तः स्मृतः ॥ ६४२ ॥
2.642 · p. 109
अनुष्टुप्
युवजानिर्यौवनस्थभार्याके युवभार्यकः ।स्वतन्त्रेऽपावृतः स्वैरी स्वरुः स्वैरश्च स्वारकः ॥ ६४३ ॥
2.643 · p. 109
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 श्च (wrong syllable)
अधीनस्तु पराधीने निघ्न आयत्तगृह्यकौ ।कर्मक्षमोऽलंकर्मीणः स क(का?)र्मः कर्ममानसे ॥ ६४४ ॥
2.644 · p. 110
अनुष्टुप्
जाल्मोऽसमीक्ष्यकारी स्यात्कर्मशूरस्तु कर्मठः ।खलपूः स्याद्बहुकरश्चोत्तालः कर्मवर्जिते ॥ ६४५ ॥
2.645 · p. 110
अनुष्टुप्
कर्मस्थिरस्तु विस्रब्धश्चामिषाशी तु शौष्कलः ।अशनार्थी जिघत्सुः स्यात्क्षुधितस्तु बुभुक्षितः ॥ ६४६ ॥
2.646 · p. 110
अनुष्टुप्
भक्षके घस्मरश्चामश्चमनो घर्मरोऽद्मरः ।सर्वान्नभोजी सर्वान्नी सर्वान्नीनश्च सम्मतः ॥ ६४७ ॥
2.647 · p. 110
अनुष्टुप्
तृष्णस्तु(क्तु?) लोलुपे कुक्षिंभरिश्चात्मंभरिस्तथा ।मत्ते क्षीबश्च शौण्डश्चाप्यविनीते समुद्धतः ॥ ६४८ ॥
2.648 · p. 110
अनुष्टुप्
कामुके कमनः कम्रः कमिताभीक इत्यपि ।कामी कामयिता चाथ विधेये निभृतोऽपि च ॥ ६४९ ॥
2.649 · p. 110
अनुष्टुप्
प्रणेयः प्रश्रितो वश्यश्चश्रवश्च प्रकीर्तितः ।अविनीते तु धृष्टः स्याद्वियातश्चापि कथ्यते ॥ ६५० ॥
2.650 · p. 110
अनुष्टुप्
उपप्लुते स्याद्व्यसनी चोपावृत इति द्वयम् ।अधीरे कातरस्त्रस्नुर्भीरुको भीलुकोऽपि च ॥ ६५१ ॥
2.651 · p. 111
अनुष्टुप्
भीते तु शङ्कितः पुंसि विलक्षो विस्मयान्विते ।गृहयालुर्ग्राहके स्यात्पतयालुस्तु पात(तु?)के ॥ ६५२ ॥
2.652 · p. 111
अनुष्टुप्
वर्धिष्णुर्वर्धके प्रोक्तः शरारुर्घातुके पुमान् ।लज्जाशीलेऽपत्रपिष्णुर्वन्दारुः स्यान्नमस्कृते ॥ ६५३ ॥
2.653 · p. 111
अनुष्टुप्
भूष्णुर्भविष्णुर्भविता विकासी स्याद्विकस्वरः ।ज्ञाता तु विदुरो विन्दुः सान्द्रस्निग्धस्तु मेदुरः ॥ ६५४ ॥
2.654 · p. 111
अनुष्टुप्
विसृत्वरो विसृमरो विस्तृतोऽपि प्रसारके ।क्षमायुक्ते तितिक्षः(क्षुः?) स्यात्क्षन्ता च क्षमिता क्षमी ॥ ६५५ ॥
2.655 · p. 111
अनुष्टुप्
कोपयुक्तेऽमर्षणः स्याद् घूर्णितः प्रचलायिते ।निद्राणश्चापि निद्रालुः शयिते स्वप्नगिष्यते ॥ ६५६ ॥
2.656 · p. 111
अनुष्टुप्
वाचा(चो?)युक्तिर्वावदूके वाग्मी वक्तरि कथ्यते ।बहुभाषस्तु वाचालो वाचाटो निन्द्यवाक्स्मृतः ॥ ६५७ ॥
2.657 · p. 111
अनुष्टुप्
श्लक्ष्णः प्रियंवदे प्रोक्तः पराचीनः पराङ्मुखे ।संदेहवाचके लोहो लोहलो लोहकोऽपि च ॥ ६५८ ॥
2.658 · p. 111
अनुष्टुप्
शब्दायमाने रवणस्तुच्छवाक्ये तु कद्वदः ।अनेडोऽज्ञो जडे तूष्णींभूते तूष्णीक इष्यते ॥ ६५९ ॥
2.659 · p. 112
अनुष्टुप्
गर्वयु(मु?)क्तेऽभिभूतः स्यादपध्वस्तस्तु धिक्कृते ।संयतः संयमो बद्धे सर्वनिन्द्ये निराकृतः ॥ ६६० ॥
2.660 · p. 112
अनुष्टुप्
वञ्चिते विप्रलब्धः स्याद्विकृतो निकृते पुमान् ।प्रतिबद्धे प्रतिहतो हता विहत इत्यपि ॥ ६६१ ॥
2.661 · p. 112
अनुष्टुप्
कान्दिशीको काम्परिकः काङ्कारश्च भयाद्द्रुते ।आक्षारितः क्षारितः स्यादभिशस्तेऽभिशस्तितः ॥ ६६२ ॥
2.662 · p. 112
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
व्याकुले त्व(तू?)परक्तः स्याद्विह(स्तो?) विसृ(स्तृ?)तोऽपि च ।विह्वले विक्लवः स्यात्तु विवशो विकलोऽपि च ॥ ६६३ ॥
2.663 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विधोद्यते त्वाततायी द्वेष्ये त्वक्षिगतोऽपि च ।विषवध्ये तु विष्यः स्याच्चिकुरश्चपले स्मृतः ॥ ६६४ ॥
2.664 · p. 112
अनुष्टुप्
क्लिष्टकृत्ये शिश्विदानो निकृति(त?)स्तु शठे स्मृतः ।चञ्चले चिकुरः पोटी दोषदृक्परिको मतः ॥ ६६५ ॥
2.665 · p. 112
अनुष्टुप्
दुर्जने हिंसकः पापः क्रूरो व्यंसकपोलिकौ ।नृशंसः पिशुनो दुष्टो धूर्तो वञ्चक इत्यपि ॥ ६६६ ॥
2.666 · p. 113
अनुष्टुप्
दैवाधीने यद्भविष्यो यो यत्किंचित्करोऽपि च ।प्रत्युत्प्रन्नमतिस्तत्कालान्तःकरण इष्यते ॥ ६६७ ॥
2.667 · p. 113
अनुष्टुप्
गुरूवाक्यपरो नर्मी चतुरः पितृदेवतः ।मातृवाक्यपरो मन्दी शास्त्रज्ञाऽप्यविचक्षणः ॥ ६६८ ॥
2.668 · p. 113
अनुष्टुप्
भार्यादिकपरे दोडपलहारप्रपादयः ।स्वबुद्धिजीवके सूरिः साहनः(?)श्चण्ड इत्यपि ॥ ६६९ ॥
2.669 · p. 113
अनुष्टुप्
मूर्खे वैधेयदौर्भाग्यौ यथाजातोऽपि बालिशः ।कृपणे तु कदर्यः स्यात्किंपचानमितंपचौ ॥ ६७० ॥
2.670 · p. 113
अनुष्टुप्
दरिद्रे दुर्विधो दीनो भाग्यवैरी च दुर्गतिः(तः?) ।मलिनः पापकारी च पापी दौर्भाग्यदुर्मती ॥ ६७१ ॥
2.671 · p. 113
अनुष्टुप्
याचके स्याद्याचकोऽपि मार्गणो वानरोऽपि च ।अर्थी वनीपको मायी कष्टजीवी कथाकरः ॥ ६७२ ॥
2.672 · p. 114
अनुष्टुप्
क्षुद्रे त्वकल्कनः शुण्डी वी(व्र?)तदम्भश्च मत्सरी ।कालिङ्गः परपिण्डादः कीनाशः परबाधकः ॥ ६७३ ॥
2.673 · p. 114
अनुष्टुप्
सुभगे सुन्दरः शाली चक्षुष्यश्चटुलोऽपि च ।वैरङ्गिको विमोदी च विरागार्हे विरागवान् ॥ ६७४ ॥
2.674 · p. 114
अनुष्टुप्
परिद्वेषयुते सारी कुहनः परघातकः ।ईर्ष्यालुः कुटिलोऽभीरुः सगोष्ठः साहसी वटः(रूः?) ॥ ६७५ ॥
2.675 · p. 114
अनुष्टुप्
तीक्ष्णोपाययुते त्वायःशूलिको दृढ इत्यपि ।क्षुण्णे नविङ्कः प्रहतो व्युत्पन्नश्च प्रचक्रवान् ॥ ६७६ ॥
2.676 · p. 114
अनुष्टुप्
प्रहिते प्रेरितः पण्डः परिसृष्टश्च घट्टितः ।निसृष्टश्च विसृष्टश्च परित्यक्तः परिसृतः ॥ ६७७ ॥
2.677 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 रि (wrong syllable)
उल्बणे प्रकटश्चोग्र उद्भटश्चोत्कटप्रकौ ।उद्धतः पण्डितश्चण्डः प्रलयश्च प्रतापवान् ॥ ६७८ ॥
2.678 · p. 115
अनुष्टुप्
अहंयुः स्यादहंकारी परंयुः स्यात्परप्रिये ।शुभंयुस्तु शुभाधार इत्यादिषु समुन्नयेत् ॥ ६७९ ॥
2.679 · p. 115
अनुष्टुप्
रम्ये तु शुभगं स्वादु चक्षुष्यं मञ्जु मञ्जुलम् ।पालटं(?) साधु रुचिरं सुषमं वल्गु भासुरम् ॥ ६८० ॥
2.680 · p. 115
अनुष्टुप्
ईप्सितेऽभीप्सितं चैत्यं दयितं वल्लभं प्रियम् ।निकृष्टे तु कुपूयः स्याद्गर्हणः खेट इत्यपि ॥ ६८१ ॥
2.681 · p. 115
अनुष्टुप्
अवद्यः कुत्सितो नीचोऽप्यधमः पण्ड इत्यपि ।निरर्थके तु किंपाकः किञ्जोलञ्जः कुटिप्रियः ॥ ६८२ ॥
2.682 · p. 115
अनुष्टुप्
शिवं पुण्यं पवित्रे स्यान्मलिने कच्चरं मतम् ।विमले शोधितं वि(वी?)ध्रं निर्णिक्तं मृष्टमित्यपि ॥ ६८३ ॥
2.683 · p. 115
अनुष्टुप्
सरसं स्वादु रुचिरं निःशोध्यमनवस्करम् ।असारे फल्गु कलनं निःसारे नीचमङ्कनम् ॥ ६८४ ॥
2.684 · p. 115
अनुष्टुप्
शून्ये वशी(शि?)कं वावीरं तुच्छं रिक्तं च रिक्तकम् ।मुख्ये वर्यो वरेण्यश्च प्रधानप्रमुखोत्तमाः ॥ ६८५ ॥
2.685 · p. 115
अनुष्टुप्
परार्ध्ये प्राग्र्यमग्रीयमग्रियं प्राग्रमित्यपि ।अग्र्यं पराग्र्यमग्रार्हमग्रं प्राग्रीयमित्यपि ॥ ६८६ ॥
2.686 · p. 116
अनुष्टुप्
स्युरुत्तरपदे चन्द्रपुङ्गवर्षभनायकाः ।मत्तेभव्याघ्रशार्दूलनागराजमुखादयः ॥ ६८७ ॥
2.687 · p. 116
अनुष्टुप्
सिंहकुञ्जरशुण्डालाः पुंसि श्रेष्ठार्थगोचराः ।किंचोपमार्थकास्ते स्युः पाठस्तेषां निदर्शकः ॥ ६८८ ॥
2.688 · p. 116
अनुष्टुप्
विस्तीर्णे विकटं व्यूढं विकरालं च विस्तृतम् ।विशङ्कटं विशालं च वद्रं स्थूलं बृहत्पृथु ॥ ६८९ ॥
2.689 · p. 116
अनुष्टुप्
अल्पे तु क्षुल्लकः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं कलम् ।अत्यल्पे स्वल्पमल्पीयः कणीयोऽणीय इत्यपि ॥ ६९० ॥
2.690 · p. 116
अनुष्टुप्
प्रभूते पुरूभूः(हूः?) प्राज्यं पुरु भूयिष्ठमित्यपि ।भूयश्च भूरि भूयिष्ठं स्फीतं स्फारं च पुष्कलम् ॥ ६९१ ॥
2.691 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रू (wrong syllable)
उपकण्ठेऽन्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ।सक्तेऽपदान्तरं नेदिष्ठमन्तिकतमे मतम् ॥ ६९२ ॥
2.692 · p. 116
अनुष्टुप्
अतिदूरे दवीयश्च दवीयानपि च क्वचित् ।उन्नते प्रांशुभिन्नोच्चोदग्रोच्छ्रोच्छ्रितबन्धुराः ॥ ६९३ ॥
2.693 · p. 117
अनुष्टुप्
वर्तुले निस्तु(स्त?)लं खर्वे ह्रस्वन्यङ्नीचवामनाः ।आनते कुञ्चितं जिह्ममूर्मिमद्वृजिनं मतम् ॥ ६९४ ॥
2.694 · p. 117
अनुष्टुप्
अवाग्रं चाप्यवनतमरालं मण्डलीकृतम् ।भग्नं च वेल्लितं भुग्नमाविद्धं कुटिलं तथा ॥ ६९५ ॥
2.695 · p. 117
अनुष्टुप्
शाश्वते नित्य आधारसदातनसनातनाः ।चिरन्तनो ध्रुवः पूर्णनिरन्तनपरन्तनाः ॥ ६९६ ॥
2.696 · p. 117
अनुष्टुप्
चरिष्णुर्जङ्गमे प्रोक्तं वरिष्णुः स्थावरे मतम् ।परधिष्णुर्विधिष्णुश्च जङ्गमस्थावरात्मके ॥ ६९७ ॥
2.697 · p. 117
अनुष्टुप्
स्थिरे स्थिरतरः स्थास्नुः स्थेयान्स्थेमः(मा?) स्थितिप्रियः ।लोले तु लोलुपं लोभं चलनं चञ्चलं चलम् ॥ ६९८ ॥
2.698 · p. 117
अनुष्टुप्
तरलं कम्पनं कम्पं(म्प्रं?) पारिप्लवपरिप्लवे ।कठिने तु दृढं क्रूरं जरठं(ठरं?) प्रौढमेधितम् ॥ ६९९ ॥
2.699 · p. 117
अनुष्टुप्
प्रवृद्धं मूर्तिमन्मूर्तं कठोरं निष्ठुरं तथा ।नवे त्वभिनवो नव्यो नवीनो नूत्ननूतनो ॥ ७०० ॥
2.700 · p. 118
अनुष्टुप्
अन्ते जघन्यं चरमं पश्चिमं नीचमित्यपि ।उल्बणं च स्फुटं स्पष्टेऽप्येकाकी त्वेक एककः ॥ ७०१ ॥
2.701 · p. 118
अनुष्टुप्
उच्चावचं नैकभेदं मर्मस्पृक् स्यादरुन्तुदम् ।प्रसव्यं प्रतिकूले स्यादुद्दामं तु निरर्गले ॥ ७०२ ॥
2.702 · p. 118
अनुष्टुप्
सव्यं वामशरीरे स्यादपसव्यं तु दक्षिणे ।सव्ये तु पष्ठु संप्रोक्तमपसव्ये त्वपष्ठु च ॥ ७०३ ॥
2.703 · p. 118
अनुष्टुप्
संबाधे संकटं प्रोक्तं गहने कलिलं मतम् ।दृब्धं तु ग्रन्थिते प्रोक्तं मुण्डिते परिवापितम् ॥ ७०४ ॥
2.704 · p. 118
अनुष्टुप्
चलिते प्रेङ्खितं धूतं वेल्लितं परिवेल्लितम् ।प्रेङ्खोल्लितो वेल्लितकोऽऽन्दोलितो लोलिते त्रयम् ॥ ७०५ ॥
2.705 · p. 118
अनुष्टुप्
नुन्ने स्यान्नुत्तनुन्नास्तनिष्ठ्यूतेरितविद्धताः ।आबर्हितः स्यादुत्खाते मूषितं मू(मु?)षितार्थकम् ॥ ७०६ ॥
2.706 · p. 118
अनुष्टुप्
चोरितं मुषितं मुष्णं स्थपुटं तून्नतानते ।प्रकृ(सृ?)तं तु प्रवृद्धे स्यान्निदिग्धोपचिते समे ॥ ७०७ ॥
2.707 · p. 119
अनुष्टुप्
भग्ने रुग्णं परिकृतं निशिते शाततेजिते ।विनाशे(?) फलितं पक्वमुन्मुखं रवणं तथा ॥ ७०८ ॥
2.708 · p. 119
अनुष्टुप्
लज्जायुते लज्जितको ह्रीतो ह्रीण इति स्मृतः ।प्राप्ये प्राप्तव्यमासाद्यं स्यन्नं रीणं स्रुतं स्नुतम् ॥ ७०९ ॥
2.709 · p. 119
अनुष्टुप्
उपाहितो योजिते स्याद्गर्हितेऽवगि(गी?)तः स्मृतः ।धिक्कृतेऽधरि(री?)णं प्रोक्तं फाण्टं सूक्ष्मकृते स्मृतम् ॥ ७१० ॥
2.710 · p. 119
अनुष्टुप्
बद्धे मूतं परिदृढं सितमुद्दितमित्यपि ।पायसान्नादिपाके तु निष्पक्वं क्वथितं समे ॥ ७११ ॥
2.711 · p. 119
अनुष्टुप्
पुष्टे पुषितपूषाणौ ज्ञापिते ज्ञप्तमीरितम् ।वसिते छितमारब्धौ पूजितेऽञ्चितनाचि(र्चि?)तौ ॥ ७१२ ॥
2.712 · p. 119
अनुष्टुप्
आचिते निचितानाचे भरिते भृतपूरिते ।प्रुष्टे प्लुष्टचिताकालौ तष्टत्वष्टौ तनूकृते ॥ ७१३ ॥
2.713 · p. 119
अनुष्टुप्
विचारिते विन्नवित्तौ छिद्रिते विद्धवेधितौ ।सिद्धे निर्वृत्तनीवारौ विवृते दृतमीलितौ ॥ ७१४ ॥
2.714 · p. 120
अनुष्टुप्
ऊतं स्यूतमुतं चेति त्रितयं तन्तुसंततौ (ते?) ।मत्तातृप्तौ प्रमुदिते छिन्ने दातं छितं तथा ॥ ७१५ ॥
2.715 · p. 120
अनुष्टुप्
वृक्णं दितं चाथ छन्नं स्कन्नं पन्नं प्रतं(?)च्युते ।लब्धे विन्नं भावितं तु भूतमासादितं तथा ॥ ७१६ ॥
2.716 · p. 120
अनुष्टुप्
अथान्विष्टं मार्गितं च मृगिते स्याद्गवेषितम् ।स्तिमिते स्तिमितं तिन्नं स्यादुत्तं तिमितं तथा ॥ ७१७ ॥
2.717 · p. 120
अनुष्टुप्
त्राते त्राणं चावितं चाप्यवीतं गुप्तमित्यपि ।संत्यक्ते धूतविधुते विधूतं धौतमित्यपि ॥ ७१८ ॥
2.718 · p. 120
अनुष्टुप्
भाषिते तूदितं चोक्तं बुद्धे त बुधितं तथा ।विदितं मशि(नि?)तं चापि प्रतिपन्नं त्ववगतम्(?) ॥ ७१९ ॥
2.719 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 व (wrong syllable)