अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् ।आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥
3.1.71
अनुष्टुप्
ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ ।
3.1.122
अनुष्टुप्
शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥
3.1.72
अनुष्टुप्
स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः ।
3.1.124
अनुष्टुप्
कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः ॥ ७३ ॥
3.1.73
अनुष्टुप्
चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् ।
3.1.126
अनुष्टुप्
चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ७४ ॥चञ्चलं तरलं चैव पारिप्लवपरिप्लवे ।
3.1.127
अनुष्टुप्
अतिरिक्तः समधिको दृढसन्धिस्तु संहतः ॥ ७५ ॥
3.1.75
अनुष्टुप्
खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् ।जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥
3.1.76
अनुष्टुप्
पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः ।
3.1.130
अनुष्टुप्
प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥
3.1.77
अनुष्टुप्
नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु ।
3.1.132
अनुष्टुप्
अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ७८ ॥
3.1.78
अनुष्टुप्
प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् ।
3.1.134
अनुष्टुप्
एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि ॥ ७९ ॥अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः ।
3.1.135
अनुष्टुप्
पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ८० ॥
3.1.80
अनुष्टुप्
अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः ।
3.1.137
अनुष्टुप्
मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥
3.1.81
अनुष्टुप्
साधारणं तु सामान्यमेकाकी त्वेक एककः ।
3.1.139
अनुष्टुप्
भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥
3.1.82
अनुष्टुप्
उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् ।
3.1.141
अनुष्टुप्
अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम् ॥ ८३ ॥
3.1.83
अनुष्टुप्
प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च ।
3.1.143
अनुष्टुप्
वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् ॥ ८४ ॥
3.1.84
अनुष्टुप्
सङ्कटं ना तु सम्बाधः कलिलं गहनं समे ।
3.1.145
अनुष्टुप्
सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम् ॥ ८५ ॥
3.1.85
अनुष्टुप्
ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् ।
3.1.147
अनुष्टुप्
अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे ॥ ८६ ॥
3.1.86
अनुष्टुप्
वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते ।
3.1.149
अनुष्टुप्
नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः ॥ ८७ ॥
3.1.87
अनुष्टुप्
परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम् ।
3.1.151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ८८ ॥
3.1.88
अनुष्टुप्metre not read in every line
निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते ।
3.1.153
अनुष्टुप्
द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते ॥ ८९ ॥
3.1.89
अनुष्टुप्
घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे ।
3.1.155
अनुष्टुप्
वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥
3.1.90
अनुष्टुप्
रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते ।
3.1.157
अनुष्टुप्
स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते ॥ ९१ ॥
3.1.91
अनुष्टुप्
वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः ।
3.1.159
अनुष्टुप्
प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् ॥ ९२ ॥
3.1.92
अनुष्टुप्
संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः ।
3.1.161
अनुष्टुप्
विविधः स्याद्बहुविधो नानारूपः पृथग्विधः ॥ ९३ ॥
3.1.93
अनुष्टुप्
अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः ।
3.1.163
अनुष्टुप्
अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ॥ ९४ ॥
3.1.94
अनुष्टुप्
बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम् ।
3.1.165
अनुष्टुप्
निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम् ॥ ९५ ॥
3.1.95
अनुष्टुप्
निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले ।
3.1.167
अनुष्टुप्
पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते ॥ ९६ ॥
3.1.96
अनुष्टुप्
पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते ।
3.1.169
अनुष्टुप्
दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः ॥ ९७ ॥
3.1.97
अनुष्टुप्
ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः ।
3.1.171
अनुष्टुप्
पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः ॥ ९८ ॥
3.1.98
अनुष्टुप्
प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते ।
3.1.173
अनुष्टुप्
वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते ॥ ९९ ॥
3.1.99
अनुष्टुप्
निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ ।
3.1.175
अनुष्टुप्
सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १०० ॥
3.1.100
अनुष्टुप्
ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते ।
3.1.177
अनुष्टुप्metre not read in every line
स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् ॥ १०१ ॥
3.1.101
अनुष्टुप्metre not read in every line
वरिवसिते वरिवस्यितमुपासितं चोपचरितं च ।
3.1.179
उद्गीतिः
सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥
3.1.102
उद्गीतिः
हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः ।
3.1.181
metre not recognised
छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ॥ १०३ ॥
3.1.103
metre not recognised
स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ।
3.1.183
metre not recognised
लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ १०४ ॥
3.1.104
metre not recognised
अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ।
3.1.185
उद्गीतिः
आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च ॥ १०५ ॥
3.1.105
उद्गीतिः
त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ।
3.1.187
गीतिःmetre not read in every line
अवगणितमवमतावज्ञातेऽवमानितं च परिभूते ॥ १०६ ॥
3.1.106
गीतिःmetre not read in every line
त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे ।
3.1.189
उद्गीतिः
उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् ॥ १०७ ॥
3.1.107
उद्गीतिः
बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते ।
3.1.191
गीतिःmetre not read in every line
उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥
3.1.108
गीतिःmetre not read in every line
सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ।ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥ १०९ ॥अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ।
3.1.193
उद्गीतिः
भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् ॥ ११० ॥अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ।
3.1.194
metre not recognised
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः ।
3.1.195
metre not recognised
साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः ॥ ११२ ॥बाढव्यायतबहुगुरुवामनवृन्दारकातिशये ।
3.1.196
गीतिःmetre not read in every line