All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
विशेषणवर्गप्रकाशः
इति प्राणिवर्गः ॥
भुवमुद्भिद्य जायन्ते तरुगुल्मतृणादयः ॥
5.1 · p. 163
तेनैवोद्भिदमुद्भिज्जमुद्भिदिति निगद्यते ।सुन्दरं शोभनं साधु मञ्जु कान्तं मनोरमम् ॥
5.2 · p. 163
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द्भि (wrong syllable)
रामञ्च रुचिरं रुच्यमभिरामञ्च नन्दितम् ।विज्ञेयमासेचनकमासेचनकमित्यपि ॥यस्य दर्शनतस्तृप्तेरन्तो नास्ति द्वयन्तु तत् ।दयितं वल्लभं हृद्यमभीष्टाभीप्सितप्रियम् ॥
5.4 · p. 163
अनुष्टुप्
अधमस्तु निकृष्टोऽर्वा कुपूयः कुत्सितोऽवमः ।खेटगर्ह्यावद्ययाप्या अणकः रेकरेपसौ ॥
5.5 · p. 163
अनुष्टुप्
रेफकाण्डौ गर्हितः स्यात् प्रतिकृष्टः प्रकृष्टकः ।मलीमसः कच्चरः स्यात् मलिनौ मलदूषितः ॥
5.6 · p. 163
अनुष्टुप्
पूतं मेध्यं पवित्रं स्याद् वीध्र प्रयतनिर्मलम् ।निःशोध्यं शोधितं मृष्टं निर्णिक्तमनवस्करम् ॥
5.7 · p. 164
अनुष्टुप्
असारं फल्गु निःसारं निष्फलञ्चापि कुत्रचित् ।शून्यं शुन्यं तुच्छमृक्तं रिक्तं वशिकमीरितम् ॥
5.8 · p. 164
अनुष्टुप्
अथातिशोभने मुख्यं श्रेष्ठपुष्कलसत्तमाः ।वरेण्यः प्रमुखः श्रेयान् अग्रप्राग्रहरोत्तमाः ॥
5.9 · p. 164
अनुष्टुप्
प्रग्रहोऽनुत्तमोऽग्रीयः प्रवेकाग्र्याग्रिया अपि ।परार्ध्योऽनवरार्ध्योऽपि प्रधानं प्रवीरमित्यपि ॥
5.10 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
श्रेष्ठार्थवाचकाः पुंसि स्युरुत्तरपदेष्वमी ।शार्दूलसिंहनागाद्याः कुञ्जरर्षभपुङ्गवाः ॥
5.11 · p. 164
अनुष्टुप्
अप्राग्र्यं न द्वयोरेते अप्रधानोपसर्जने ।बृहद्विशालपृथुलं महत् पृथुविशङ्कटकम् ॥
5.12 · p. 164
अनुष्टुप्
पूलं विपुलवड्रोरुविस्तीर्णे दशकं भवेत् ।अथ स्थूले भवेत् पीनं पीवा पीवरमित्यपि ॥
5.13 · p. 164
अनुष्टुप्
अल्पे स्तोकक्षुल्लसूक्ष्मं क्षुल्लकञ्च कृशं तनु ।दभ्रं क्षुल्वं क्षुल्वकञ्च स्त्रियां मात्रा त्रूटी कणा ॥
5.14 · p. 164
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 त्रू (wrong syllable)
पुमानणुर्लवोलेश कणोऽपि च निगद्यते ।बहुले प्रचुरे प्राज्यं प्रभूतं पुरुहंपुरु ॥
5.15 · p. 164
अनुष्टुप्
स्फिरंभू यश्च भूपिष्ठमदभ्रं बहुभूरि च ।शतादिकात् परा संख्या येषां ते तु परः शताः ॥
5.16 · p. 164
अनुष्टुप्
एवं परः सहस्राद्या विज्ञेयाः शब्दवेदिभिः ।गणेयं गणनीये तु संख्याते गणितं भवेत् ॥
5.17 · p. 164
अनुष्टुप्
अथ सर्वं समं विश्वमशेषं निखिलाखिलम् ।समस्तं सकलं कृत्स्नं समग्रं स्यादनूनकम् ॥
5.18 · p. 164
अनुष्टुप्
स्यादखण्डञ्च निःशेषमनन्तं पूर्णमित्यपि ।निरन्तरं घनं सान्द्रं विरलं पेलवं तनु ॥
5.19 · p. 164
अनुष्टुप्
समीपेऽभ्यास आसन्नः सवेशः सन्निकृष्टवत् ।अन्तोऽन्तिकः समर्यादः सनीडः सदेशवत् ॥
5.20 · p. 164
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अभ्यग्राभ्यर्णसविधा उपकण्ठोऽभितोऽव्ययम् ।अथाव्यवहितं लग्नं संसक्तमपदान्तरम् ॥
5.21 · p. 164
अनुष्टुप्
नेदिष्ठमन्तिकतममत्यन्तनिकटे द्वयम् ।विप्रकृष्टमनासन्नं दूरे स्याद्दीर्घमायते ॥
5.22 · p. 165
अनुष्टुप्
सुदूरन्तु दविष्टं स्याद् दवीयश्चापि तद्भवेत् ।वर्तुले निस्तलं वृत्तं मण्डलायितमित्यपि ॥
5.23 · p. 165
अनुष्टुप्
स्वभावादुन्नतं कार्यवशान्नतञ्च बन्धुरम् ।उच्चे तुङ्गोन्नतप्रांशूच्छ्रितोदग्रास्तथोच्चकैः ॥
5.24 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्न (wrong syllable)
वामने ह्रस्वखर्वन्यङ्नीचा नीचैस्तथाव्ययम् ।आनते स्यादवाग्रन्तु भवेदवनतोऽपि च ॥
5.25 · p. 165
अनुष्टुप्
कुटिले वृजिनं जिह्ममरालं कुञ्चितं नतम् ।आविद्धमूर्मिमद्वक्रं भुग्नं वेल्लितमित्यपि ॥
5.26 · p. 165
अनुष्टुप्
बन्धूरबङ्क्यविनतं क्वचिद्बन्धुरमित्यपि ।ऋजौ तु प्रगुणाजिह्मौ व्यस्ते चा प्रगुणाकुलौ ॥
5.27 · p. 165
अनुष्टुप्
नित्ये ध्रूवः शाश्वतश्च सदातनसनातनौ ।अथ स्थेयान् स्थिरतरः स्थास्नुर्दृटतरोऽपि च ॥
5.28 · p. 165
अनुष्टुप्
कूटस्थः एकरूपेण कालव्यापी तु यो भवेत् ।स्थावरो जङ्गमाद्भिन्नो भूभृद्भूमिरुहादिकः ॥
5.29 · p. 165
अनुष्टुप्
चराचर एसमिङ्गं चरिष्णुश्चरजङ्गमौ ।चलनः कम्पनः कम्प्रः त्रयं चलनशीलके ॥
5.30 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
अतिरिक्तः समधिके दृढसन्धौ तु संहतः ।कठोरं कठिनं दृटं कक्खटं जरठं दृढम् ॥
5.32 · p. 165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 दृ (wrong syllable)
निष्ठुरं मूर्तिमन्मूर्तं जठरं कमठायितम् ।प्रवृद्धमेधितं प्रौटे ईषदर्थे वरोवरम् ॥
5.33 · p. 165
अनुष्टुप्
प्रवीनं प्रतनं प्रत्नं चिरन्तनपुरातने ।नवीननूत्रनव्याश्च प्रत्यग्रो नूतने नवः ॥
5.34 · p. 165
अनुष्टुप्
सुकुमारं मृदु भवेत् मृदुलञ्चापि कोमलम् ।अनुगेऽन्वक्षमन्वक् चानुपदं क्लीबमव्ययम् ॥
5.35 · p. 165
अनुष्टुप्
प्रथमे पूर्वपौरस्त्यौ भवेदादिः पुमानिह ।अन्तोऽस्त्रियान्तु चरमं स्याज्जघन्यान्त्यपश्चिमम् ॥
5.38 · p. 166
अनुष्टुप्
मोघे निरर्थकं स्पष्टे प्रव्यक्तं स्फुटमुल्वणम् ।समं समानं सामान्यं स्यात् साधारणमित्यपि ॥
5.39 · p. 166
अनुष्टुप्
अविलम्वितमुच्चन्तं त्वरायुक्ते भवेद्द्वयम् ।अरुन्तुदन्तु मर्मस्पृक् द्वितयं मर्मपीडके ॥
5.42 · p. 166
अनुष्टुप्
निरर्गलमबाधं स्यात् द्वयं बाधाविवर्जिते ।प्रतिकूले प्रसव्यं स्यादपसव्यमपष्ठु च ॥
5.43 · p. 166
अनुष्टुप्
पराचीनं प्रतीपञ्च विपरीतञ्च कुत्रचित् ।देहस्य वामे सव्यं स्यादपसव्यन्तु दक्षिणे ॥
5.44 · p. 166
अनुष्टुप्
अल्पावकाशे द्वितयं सम्बाधः पुंसि सङ्कटम् ।दुष्प्रदेशे तु कलिलं गहनञ्च भवेद्द्वयम् ॥
5.45 · p. 166
अनुष्टुप्
व्याप्ते सङ्कीर्णमाकीर्णं समाकीर्णञ्च सङ्कुलम् ।मुण्डितं वापितञ्चापि परिवापितमित्यपि ॥
5.46 · p. 166
अनुष्टुप्
ग्रथिते ग्रन्थितं दृब्धं विस्तृते विसृतं ततम् ।विस्मृतेऽन्तर्गतं प्राप्ते प्राप्तं प्राणिहितञ्च तत् ॥
5.47 · p. 166
अनुष्टुप्
कम्पिते चलिताधूतवेल्लितप्रेङ्खिताधुतम् ।व्याधूतं विधुतं धूतमाकम्पितविकम्पितम् ॥
5.48 · p. 166
अनुष्टुप्
क्षिप्ते तु नुन्ननुत्तास्तनिष्ठ्यूताविद्धमीरितम् ।निवृतन्तु परिक्षिप्तमतिक्षिप्ते भवेद्द्वयम् ॥
5.49 · p. 166
अनुष्टुप्
मूषितं मुषितञ्चैव चौर्यार्थे खण्डितेऽपि च ।स्यात् प्रवृद्धं प्रसृतञ्च द्वितयन्तु प्रसारिते ॥
5.50 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सृ (wrong syllable)
स्यान्निदिग्धमुपचिते गूढं गुप्तञ्च गोपिते ।रूषितं गुण्डितञ्चैव म्रक्षिते तु भवेद्द्वयम् ॥
5.52 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्ध (wrong syllable)
अथ द्रुतञ्चावदीर्णं द्रवीभूते निगद्यते ।काचितं शिक्यितं शिक्यसमारोपितवस्तुनि ॥
5.53 · p. 167
अनुष्टुप्
घ्राणञ्च शिङ्घितं घ्राते दिग्धं लिप्तं विलेपिते ।समुदक्तमुद्धृते स्याद् भग्नं रुग्ने निगद्यते ॥
5.54 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्त (wrong syllable)
स्याद्वेष्टिते वलयितं रुद्धं संवीतमावृतम् ।तेजितं निशितं शातं क्षुतं शानादिमार्जिते ॥
5.55 · p. 167
अनुष्टुप्
वावृत्तञ्च वृतं वृत्तं कृतसम्वरणे त्रयम् ।पदार्थान्तरसंयुक्ते संयोजितमुपाहितम् ॥
5.57 · p. 167
अनुष्टुप्
प्राप्यं गम्यं समासाद्यं प्राप्तव्ये तु भवेत् त्रयम् ।स्यन्नः स्रूतः स्नुतो रीणश्चतूष्कं द्रवसंयुते ॥
5.58 · p. 167
अनुष्टुप्
संगूटः स्यात् संकलितो लेख्यादिसंवृतीकृते ।विख्यातगर्हासंयुक्तेऽवगीतः ख्यातगर्हणः ॥
5.59 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
नानारूपे बहुविधो विविधश्च पृथग्विधः ।अवरीणः धिक्कृते स्यादवध्वस्तोऽवचूर्णिते ॥
5.60 · p. 167
अनुष्टुप्
फाण्टमनायासकृते स्वनिते ध्वनितं भवेत् ।उद्दितं सन्दितं बद्धं सूतं सन्दानितं सितम् ॥
5.61 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ण्ट (wrong syllable)
निष्पक्वं क्वथितञ्चैव निःशेषपाकसंयुते ।क्षीराज्यपयसां पाके शृतमेव निगद्यते ॥
5.62 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
निर्वाणस्तु मुनौ वह्नौ प्रदीपादिषु कुत्रचित् ।गतेऽनिले तु निर्वातः पक्वं परिणते भवेत् ॥
5.63 · p. 167
अनुष्टुप्
गूनं हन्नं हागाते स्यात् सूत्रिते मीटमित्यपि ।अथ स्यात् पूषितः पुष्टे त्वार्दितः प्रार्थिते भवेत् ॥
5.64 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हा (wrong syllable)
ज्ञाते तु ज्ञापितो ज्ञप्तः छादिते छन्न इत्यपि ।अञ्चितः पूजितश्चेति भवेद्द्वितयमर्चिते ॥
5.65 · p. 168
अनुष्टुप्
आप्यायिते तु पूर्णः स्यात् पूरितः पूर्णतान्विते ।स्यात् क्लिष्टः क्लिशितश्चेति भवेत् क्लेशयुते द्वयम् ॥
5.66 · p. 168
अनुष्टुप्
सितञ्चावसिते दग्धे प्रूष्टं प्लुष्टं तथोषितम् ।तनूकृते त्वष्टतष्टौ विद्धे छिद्रितवेधितौ ॥
5.67 · p. 168
अनुष्टुप्
विचारिते विन्नवित्तौ विगतारोकमप्रभे ।द्रवीभूतघृतादौ तु विलीनं विद्रुतं द्रुतम् ॥
5.68 · p. 168
अनुष्टुप्
सिद्धनिर्वृत्तनिष्पन्नास्त्रयं निष्पत्तिमागते ।अथ भिन्नं भेदितञ्च दारितञ्च विदारिते ॥
5.69 · p. 168
अनुष्टुप्
अथ तन्तुसन्तते स्यादूतः स्यूत उतोऽपि च ।नमस्यितं नमसितमपचायितमर्चितम् ।अर्हितं स्यादपचितं नमस्कारप्रपूजिते ॥
5.70 · p. 168
अनुष्टुप्metre not read in every line
सेविते वरिवसितो वरिवस्यित इत्यपि ।उपासितोपचरितौ गुर्वादौ समुपासिते ॥
5.71 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
दूनः सन्तापितस्तप्तः धूपायितश्च धूपितः ।प्रीतः प्रमुदितस्तृप्तः प्रह्लन्नहृष्टमत्तवत् ॥
5.72 · p. 168
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable); pāda 4, syllable 3 न्न (wrong syllable)
छातच्छिन्नलूनकृत्तवृक्नदातदितच्छिताः ।स्रस्तध्वस्तच्युतस्कन्नगलितभष्टपन्नवत् ॥
5.73 · p. 168
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 न्न (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
लब्धप्राप्तविन्नभूतभावितासादिता अपि ।मार्गितान्विष्टमृगितमन्वेषितगवेषितम् ॥
5.74 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्त (wrong syllable)
सार्द्रास्तिमिता क्लिन्नतिमितोत्तसमुन्नवत् ।त्राणो गोपायितस्त्रातो गुप्तश्चारितरक्षितौ ॥
5.75 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 सा (syllables merged)
त्यक्तं हीनञ्च विधुतं धूतोत्सृष्टसमुज्झितम् ।भाषितोक्तोदिताख्यातलपिताभिहितजल्पितम् ।विदितं बूधितं बुद्ध मनितं प्रतिपन्नवत् ॥
5.77 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 लपि (syllable split)
स्यात् स्फूर्तिमति चिद्रूपः पिण्डिते गुणितो भवेत् ।तत्रभवान् अत्रभवान् श्लाघ्ये पूज्ये च कथ्यते ॥
5.80 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 त्र (wrong syllable)
गौरवितस्त्वार्यमिश्रो द्वितयं गौरवान्विते ।करम्बितं खचितञ्च व्याप्ते सूक्ष्मे सरुः स्मृतः ॥
5.82 · p. 169
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable); pāda 3, syllable 6 चि (wrong syllable)
स पात्रे समितोऽन्यत्र भोजनात् मिलितो न यः ।स्याद्देवानांप्रियः क्षेपे लड्डो लड्ढश्च दुर्जने ।पाकिमं पक्त्रिमेऽपि स्यात् अन्तर्गडुनिरर्थकम् ॥
5.83 · p. 169
अनुष्टुप्
स्यादागन्तुकमाहार्यम् अधिकारश्चयोरपि (?) ।व्युत्पन्नः संस्कृते पूर्णे पूरितं भरितं भूतम् ॥
5.84 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 भू (wrong syllable)
स्फुटे प्रकाशप्रकटौ नगडश्चारुबन्धने ।ईलितः प्रणुतः शस्तः पणायित्-पणायितौ ॥
5.85 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पणितः पणितो गीर्णः वर्णिताभिष्टुतेरिताः ।भक्षितश्चर्वितो लिप्तः प्सातो गिलितखादितौ ॥
5.86 · p. 169
अनुष्टुप्
गग्धोऽन्नः प्रत्यवसितो भुक्तोऽभ्यवहृतोऽपि च ।भवेद्ग्रस्तोऽशितो ग्लस्तस्तथाजक्षित इत्यपि ॥
5.87 · p. 169
अनुष्टुप्
क्षेपिष्ठ उक्तः क्षिप्रार्थे क्षुद्रे क्षोदिष्ठ इत्यपि ।अभीप्सिते तु प्रेष्ठः स्याद् वरिष्ठः पृथुलार्थके ॥
5.88 · p. 169
अनुष्टुप्
स्थविष्ठाः पीवरार्थे स्यात् बंहिष्ठो बहुलार्थके ।साधिष्ठोऽपि भृशार्थे स्याद् द्राघिष्ठो दीर्घतार्थके ॥
5.89 · p. 169
अनुष्टुप्
स्फेष्ठो भवति बह्वर्थे गरिष्ठो गुरुतार्थके ।वामनार्थे ह्रसिष्ठः स्याद् वृन्दिष्ठो देवतार्थके ॥
5.90 · p. 169
अनुष्टुप्
क्षेपिष्ठादिः प्रकर्षार्थः साधिष्ठादिर्भृशार्थकः ।भट्टारकस्तु भट्टारो भगवान् पूज्य इत्यपि ॥
5.91 · p. 169
अनुष्टुप्
आसीन उपविष्टे स्यात् चक्षुष्यः प्रियदर्शने ।विदग्धे नागरोऽणुकः शिथिले प्रश्लथः श्लथः ॥
5.92 · p. 169
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 णु (wrong syllable)
षिड्गः व्यलीकः षट्प्रज्ञः कामकेलिर्विदूषकः ।षट्प्रज्ञो लोकतत्त्वार्थचतुर्वर्गेषु यस्य धी ॥
5.93 · p. 169
अनुष्टुप्
नास्तिको दुर्दूरूटः स्यात् सकर्णः श्रुतितत्परे ।शङ्कितश्चकितो भीते तर्षितस्तृषितः सतृट् ॥
5.94 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्दू (wrong syllable)
भवेदुद्भट उत्ताल उड्डामरक इत्यपि ।पुत्रान्नभक्षके स्यातां पुत्रान्नादकुटीचकौ ॥
5.95 · p. 170
अनुष्टुप्
स्वस्त्रीदातरि भार्याटः पार्श्वकः सन्धिजीवके ।वाच्याभिधायिनि जने पृष्ठमांसाद इत्यपि ॥
5.98 · p. 170
अनुष्टुप्
कृपणे दृढमुष्टिः स्यात् शक्तः स्यात् प्रबलेऽपि च ।धूर्ते स्थगश्च निर्लज्जः पटुः पाटविकोऽपि च ॥
5.99 · p. 170
अनुष्टुप्
मध्यस्थे च वपुष्ठः(?) स्याद् व्यंसितस्तु प्रतारिते ।स्यात् कथङ्कथिकः प्रष्टा जिज्ञासाकारिणि द्वयम् ॥
5.100 · p. 170
अनुष्टुप्