कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

सामान्यकाण्डः · अर्थवल्लिङ्गाध्यायः (1/2)

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां सामान्यकाण्डे गुणाध्यायः

गुणयुक्तं क्रियायुक्तं द्रव्ययुक्तं च वक्ति यः ।स शब्दो वाच्यवल्लिङ्गो बालो वक्ता धनी यथा ॥ १ ॥
5.4.1 · p. 201
अनुष्टुप्
बालो डिंभोऽर्भकः शाबः कुमारो दारकः शिशुः ।अप्युत्तानशयो वत्सः स्तनपस्तु स्तनन्धयः ॥ २ ॥
5.4.2 · p. 201
अनुष्टुप्
वटुर्माणवकोऽथ स्याद्वयः स्थस्तरुणो युवा ।जीनो जीर्णो वृद्धवयाः प्रवयाः स्थविरो जरन् ॥ ३ ॥
5.4.3 · p. 201
अनुष्टुप्
वर्षीयान् दशमी ज्यायान् कनिष्ठोऽवरजोऽनुजः ।जघन्यजो यवीयांश्च पूर्वजे त्वग्रियोऽग्रजः ॥ ४ ॥
5.4.4 · p. 201
अनुष्टुप्
पितुर्विभक्तः संसृष्टी भ्रात्रार्थेनैकतां गतः ।पृश्निः किरातोऽल्पतनुर्दुर्बलस्तु कृशस्तनुः ॥ ५ ॥
5.4.5 · p. 201
अनुष्टुप्
पीनस्तु पीवरः पीवा प्रबलो मांसलोंऽसलः ।सिंहसंहननः स्वंगस्तुण्डिरुन्नतनाभिकः ॥ ६ ॥
5.4.6 · p. 201
अनुष्टुप्
पिचण्डिलस्तूदरिलस्तुन्दिलस्तुन्दितुन्दिकौ ।वलिनो वलिभो बिभ्रद्वली राजीस्तु राजिलः ॥ ७ ॥
5.4.7 · p. 201
अनुष्टुप्
एवं सिरालमणिलौ प्रलंबाण्डस्तु मुष्करः ।केशवः केशिकः केशी रोमशो लोमशः समौ ॥ ८ ॥
5.4.8 · p. 201
अनुष्टुप्
श्मश्रुलो जटिलश्चैवं दन्तुरः स्यादुदग्रदन् ।किरिभस्तद्विपर्यासे मिर्मिरः स्तब्धलोचनः ॥ ९ ॥
5.4.9 · p. 201
अनुष्टुप्
आसीन उपविष्टः स्यादूर्ध्वज्ञुस्तूर्ध्वजानुकः ।संज्ञुः संहतजानुः स्यात् प्रज्ञुः प्रगतजानुकः ॥ १० ॥
5.4.10 · p. 201
अनुष्टुप्
विकलांगस्तु पोगण्डो गडुले न्युब्जकुब्जकौ ।खुरणाः स्यात् खुरणसो नःक्षुद्रः क्षुद्रनासिकः ॥ ११ ॥
5.4.11 · p. 201
अनुष्टुप्
खरणाः स्यात् खरणसो विग्रो विगतनासिकः ।नतनासेऽवटीटः स्यादवनाटोऽप्यवभ्रटः ॥ १२ ॥
5.4.12 · p. 202
अनुष्टुप्
केकरो वलिरोऽनेडमूकोऽन्धः काण एकदृक् ।एडस्तु वधिरः कण्व एडमूकस्त्ववाक्च्छ्रुतिः ॥ १३ ॥
5.4.13 · p. 202
अनुष्टुप्
अनेडमूकस्तु जडो जलो मूकः कलोऽप्यवाक् ।पंगुः श्रोणे खंजकोलौ खोडेऽथ कुकरे कुणिः ॥ १४ ॥
5.4.14 · p. 202
अनुष्टुप्
शिपिविष्टस्तु दुश्चर्मा दुर्बालश्च द्विनग्नकः ।क्षपणश्रमणौ नग्नो नग्नाटश्च दिगंबरः ॥ १५ ॥
5.4.15 · p. 202
अनुष्टुप्
आजीवो जीवको जैनो निर्ग्रन्थो मलवार्यपि ।हृदयालुः सुहृदयो महेच्छस्तु महाशयः ॥ १६ ॥
5.4.16 · p. 202
अनुष्टुप्
प्रौढः प्रगल्भः प्रतिभायुक्तोऽन्यस्त्वपगल्भकः ।धृष्टो धृष्णुर्वियातश्च शालीनस्तु विपर्यये ॥ १७ ॥
5.4.17 · p. 202
अनुष्टुप्
अधीरे कातरत्रस्नुभीरुभीरुकभीलुकाः ।दरिते भीतचकितत्रस्ताः स्निग्धस्तु वत्सलः ॥ १८ ॥
5.4.18 · p. 202
अनुष्टुप्
प्रवीणोऽभिजनोऽभिज्ञो विज्ञो वैज्ञानिकः कृती ।कृतकृत्यः कृतमुखो निष्णातो दक्षशिक्षितौ ॥ १९ ॥
5.4.19 · p. 202
अनुष्टुप्
अग्राम्ये सरलोदारविदग्धच्छेकदक्षिणाः ।गर्विते स्तब्ध उद्ग्रीवो बाहो धीरस्स इत्यापि ॥ २० ॥
5.4.20 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
मूर्खे त्वनेडो देवानांप्रियो यो नामवर्जितः ।अपि वैधेयमूढाज्ञा मातृशिष्टयथोद्गतौ ॥ २१ ॥
5.4.21 · p. 202
अनुष्टुप्
नीचे तु हीनापशदपामरेतरबर्बराः ।नैकृतः स्यान्नैकृतिकः शठः कौनृतिकोऽनृजुः ॥ २२ ॥
5.4.22 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्नै (wrong syllable)
कुहकः स्यात्कापटिको दाण्डाजिनिकजालिकौ ।ढौण्डुको ढण्डुकश्चाथ कोलाकोऽर्यरतः सदा ॥ २३ ॥
5.4.23 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्का (wrong syllable)
क्रूरो नृशंसोऽप्यदये धूर्ते व्यंसकवञ्चकौ ।कौक्कुटो मायिको मायी मायावी प्रातिहारिकः ॥ २४ ॥
5.4.24 · p. 203
अनुष्टुप्
ना दुर्जनः खलः कर्णेजपः पिशुनसूचकौ ।कद्वदः कुत्सितोऽत्यर्थं परिभोक्ता गुरुस्वभृत् ॥ २५ ॥
5.4.25 · p. 203
अनुष्टुप्
नीलीरागः स्थिरप्रेमा हरिद्रारागकः पुनः ।अस्थिरप्रेम्णि गोष्ठश्वः पुनः स्थाने स्थितो द्विषन् ॥ २६ ॥
5.4.26 · p. 203
अनुष्टुप्
अन्वेष्टा स्यादनुपदी चिद्रूपस्तु सुमानसः ।स्वच्छन्दोऽपावृतः स्वैरी स्वतंत्रो निरवग्रहः ॥ २७ ॥
5.4.27 · p. 203
अनुष्टुप्
परच्छंदः पराधीनः परवान् परतंत्रकः ।निघ्नः प्रसव्य आयत्तो विधेयो गृह्यको वशः ॥ २८ ॥
5.4.28 · p. 203
अनुष्टुप्
अहंयुः स्यादहंकारी शुभंयुस्तु शुभान्वितः ।सूक्ष्मदर्शी कुशाग्रीयधीर्विलक्षः सविस्मयः ॥ २९ ॥
5.4.29 · p. 203
अनुष्टुप्
यद्भविष्यो दैवपरो यद्वदः स्यादनुत्तरः ।परीक्षकः कारणिक उद्युक्ते प्रसितोत्सुकौ ॥ ३० ॥
5.4.30 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
अन्तर्वाणिः शास्त्रवित्स्यादविनीतः समुद्धतः ।प्रत्युत्पन्नमतिस्तु स्यात्तत्कालोत्पन्नधीर्नरः ॥ ३१ ॥
5.4.31 · p. 203
अनुष्टुप्
प्रणेयः प्रश्रितो वश्यो विधेयो निभृतो यतः ।क्रोधनः कोपनोऽमर्षी चण्डस्तु भृशकोपनः ॥ ३२ ॥
5.4.32 · p. 203
अनुष्टुप्
सहिष्णुः सहनः सोढा तितिक्षुः क्षमिता क्षमी ।हर्षमाणो विकुर्वाणः प्रमना मुदितः समुत् ॥ ३३ ॥
5.4.33 · p. 203
अनुष्टुप्
दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ।दोषदर्शी पुरोभागी कमनः कामनोऽनुकः ॥ ३४ ॥
5.4.34 · p. 203
अनुष्टुप्
कामुकः कमिताभीकः कम्रः कामयिताभिकः ।तृष्णक्तु गर्धनो गृध्नुः लिप्सुर्लुब्धोऽभिलाषुकः ॥ ३५ ॥
5.4.35 · p. 203
अनुष्टुप्
लोलुपे लोलुभो लोलो लंपटो लालसोऽपि च ।बुभुक्षुः क्षुधितः श्रान्तो जिघत्सुरशनायितः ॥ ३६ ॥
5.4.36 · p. 204
अनुष्टुप्
पिपासितस्तु तृषितः पिपासुस्तर्षितः सतृट् ।मत्ते शौंडोत्कटक्षीबाः श्राद्धः श्रद्धालुरास्तिकः ॥ ३७ ॥
5.4.37 · p. 204
अनुष्टुप्
नास्तिकस्तद्विपर्यासे गृहयालुर्ग्रहीतरि ।संशयालुस्तु संदेग्धा पतयालुस्तु पातुकः ॥ ३८ ॥
5.4.38 · p. 204
अनुष्टुप्
दयालुः स्यात्कारुणिकोऽनुकंप्यः कारुणः समौ ।स्वप्नक् शयालुर्निद्रालुर्निद्राणः शयितः समाः ॥ ३९ ॥
5.4.39 · p. 204
अनुष्टुप्
लज्जाशीलोऽपत्रपिष्णुर्वर्तिष्णुर्वर्त्तनः समौ ।निराकरिष्णुः क्षिप्नुः स्यात् वर्धिष्णुर्वर्धनः समौ ॥ ४० ॥
5.4.40 · p. 204
अनुष्टुप्
उन्मदिष्णुस्तु सोन्मादोऽलङ्करिष्णुस्तु मण्डनः ।भूष्णुर्भविष्णुर्भविता प्रजनिष्णुस्तु भावुकः ॥ ४१ ॥
5.4.41 · p. 204
अनुष्टुप्
उत्पतिष्णुस्तूत्पतिता रोचिष्णू रोचनः समौ ।स्थास्नुस्तु स्थायुकः स्थायी शरारुर्हिंस्रघातुकौ ॥ ४२ ॥
5.4.42 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
वेदिता विदुरो विन्दुः सान्द्रः स्निग्धस्तु मेदुरः ।आशंसुराशंसितरि वन्दारुरभिवादकः ॥ ४३ ॥
5.4.43 · p. 204
अनुष्टुप्
जागरूको जागरिता श्लक्ष्णवाक् तु प्रियंवदः ।शक्लो मधुरवाक् चाथ रूक्षो लूक्षो विपर्यये ॥ ४४ ॥
5.4.44 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ।वाचोयुक्तिपटुर्वाग्ग्मी वावदूकश्च दक्षवाक् ॥ ४५ ॥
5.4.45 · p. 204
अनुष्टुप्
जल्पाकस्त्वपि वाचालो वाचाटो बहुगर्ह्यवाक् ।मुखरो दुर्मुखोऽबद्धमुखो मातृमुखोऽपि च ॥ ४६ ॥
5.4.46 · p. 204
अनुष्टुप्
कद्वदो गर्ह्यवादी स्याल्लोहलोऽस्फुटभाषणः ।अधरो दीनवादी स्यात्सम्मुखः प्रतिभातवाक् ॥ ४७ ॥
5.4.47 · p. 204
अनुष्टुप्
नालीकरस्तु नानीकवाक् स्वनोऽशोभनस्वरः ।कुवदे कुचरः शब्दकारे रवणशब्दनौ ॥ ४८ ॥
5.4.48 · p. 205
अनुष्टुप्
व्युत्पन्नः प्रहतः क्षुण्णो वचनेस्थित आश्रवः ।परान्नः परपिण्डादः परजातपरैधितौ ॥ ४९ ॥
5.4.49 · p. 205
अनुष्टुप्
सर्वान्नीनः सर्वभक्ष आमिषादी तु शौल्किकः ।आत्मंभरिः कुक्षिंभरिः भक्षको घस्मरोऽद्मरः ॥ ५० ॥
5.4.50 · p. 205
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 क्षिं (wrong syllable)
आद्यूनः स्यादौदरिको विमुक्तो विजिगीषया ।ह्रिणो ह्रीतो लज्जितः स्यादन्वेष्टा तीक्ष्णसाधनैः ॥ ५१ ॥
5.4.51 · p. 205
अनुष्टुप्
अद्रुते धीरविस्रब्धावुत्तालः कर्मणि द्रुतः ।कुडुंबव्यापृते तु द्वावभ्यागारिक उत्थितः ॥ ५२ ॥
5.4.52 · p. 205
अनुष्टुप्
दीर्घदृष्टिस्तु यो दूरादर्थानर्थौ निरीक्षते ।आमुष्यायण उत्पन्नः प्रख्यातकुलतः पितुः ॥ ५३ ॥
5.4.53 · p. 205
अनुष्टुप्
वैरंगिको विरागार्ह उत्पश्यः पुनरुन्मुखः ।चतुरः पेशलो दक्षः सूत्थानः पटुरुष्णकः ॥ ५४ ॥
5.4.54 · p. 205
अनुष्टुप्
मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसः ।क्षेमंकरोऽरिष्टतातिः शिवतातिः शिवंकरः ॥ ५५ ॥
5.4.55 · p. 205
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
लक्ष्मीवान् लक्ष्मणः श्रीलो महामात्रोऽधिकर्द्धिकः ।उदारोदीर्णधन्यास्तु महात्मा सुकृतीति च ॥ ५६ ॥
5.4.56 · p. 205
अनुष्टुप्
समृद्धः स्यादुपचितो धनवानस्तिमान् समौ ।आढ्यस्त्विभ्यो धनी नेता त्वीश्वरो नायकः प्रभुः ॥ ५७ ॥
5.4.57 · p. 205
अनुष्टुप्
अधिभूरधिपोऽधीश ईशिताधिपतिः पतिः ।ईशः परिबृढः स्वामी स्थूललक्षो बहुव्यये ॥ ५८ ॥
5.4.58 · p. 205
अनुष्टुप्
कदर्ये कृपणक्षुद्रकिंपचानमितंपचाः ।आशयश्चाप्यदाता च दरिद्रे स्यादकिंचनः ॥ ५९ ॥
5.4.59 · p. 205
अनुष्टुप्
अपि दुस्स्थक्रूरदीननीचदुर्गतदुर्विधाः ।मार्गणः स्याद्याचनको याचकोऽर्थी वनीपकः ॥ ६० ॥
5.4.60 · p. 206
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्या (wrong syllable)
आर्यः कौलेयको जात्यः कुलीनः कुलजोऽभिजः ।जगत्त्रसचरप्राणमिषदिंगच्च जंगमम् ॥ ६१ ॥
5.4.61 · p. 206
अनुष्टुप्
स्थावरं तस्थिवच्चान्यदुभयं तु चराचरम् ।वा क्ली प्रधानं प्रमुखप्रबर्हप्रवरोत्तमाः ॥ ६२ ॥
5.4.62 · p. 206
अनुष्टुप्
मुख्यवर्यवरेण्याश्च प्रवेकोऽनपरार्थ्यवत् ।श्रेष्ठः प्राग्रहरं प्राग्रमग्रमग्रीयमग्रियम् ॥ ६३ ॥
5.4.63 · p. 206
अनुष्टुप्
परार्थ्यं ग्रामणीः स्पर्ध्यं जात्यं च वरमग्रणीः ।उपाग्रस्तु गुणः पुंसि क्लीबे स्यादुपसर्जनम् ॥ ६४ ॥
5.4.64 · p. 206
अनुष्टुप्
तत्तु स्यादासेचनकं न तृप्तिर्यस्य दर्शनात् ।पवित्रं प्रयतं पूतं मेध्यं शुद्धं शुचीति च ॥ ६५ ॥
5.4.65 · p. 206
अनुष्टुप्
निर्णिक्तं शोधितं मृष्टं निश्शोध्यमनवस्करम् ।विमले वीद्ध्रं मलिने द्वौ कच्चरमलीमसौ ॥ ६६ ॥
5.4.66 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ध्रं (wrong syllable)
आत्तगन्धोऽभिभूतः स्यात् बद्धे कीलितसंयतौ ।आक्षिप्तो हतकः क्षिप्तो विक्लबो विह्वलः समौ ॥ ६७ ॥
5.4.67 · p. 206
अनुष्टुप्
विहस्तो व्याकुलो व्यग्रश्चले संकुसुकोऽस्थिरः ।व्यसनार्त्तस्तूपरक्त आततायी वधोद्यतः ॥ ६८ ॥
5.4.68 · p. 206
अनुष्टुप्
शत्रूणां तापयितरि द्विषंतपपरंतपौ ।द्वेष्यस्त्वक्षिगतोऽनिष्टो दुर्भगोऽपि च विप्रिये ॥ ६९ ॥
5.4.69 · p. 206
अनुष्टुप्
चक्षुष्यः सुभगः कान्तो दयितो वल्लभः प्रियः ।गेहेनर्दी गृहेशूरः पिण्डीशूरो गृहे प्रभुः ॥ ७० ॥
5.4.70 · p. 206
अनुष्टुप्
वध्यो विष्यो विषेण स्यात् मुसल्यो मुसलेन च ।निष्कासितोऽपकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ॥ ७१ ॥
5.4.71 · p. 206
अनुष्टुप्
कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः ।कार्मस्तु कर्मशीलः स्याद्दीर्घसूत्रश्चिरक्रियः ॥ ७२ ॥
5.4.72 · p. 207
अनुष्टुप्
कर्मण्यकृत् कर्मकरः कर्मकारस्तु तत्क्रियः ।निर्वार्यः कार्यकृद्यः स्याद्युक्तः सन् सत्त्वसंपदा ॥ ७३ ॥
5.4.73 · p. 207
अनुष्टुप्
क्रियावान् कर्मवान् कर्मी कुण्ठो मन्दः क्रियासु यः ।स आयः शूलिको यस्स्यादन्वेष्टा तीक्ष्णसाधनैः ॥ ७४ ॥
5.4.74 · p. 207
अनुष्टुप्
गर्ह्येऽपकृष्टचेलार्वरेफयाप्याधमावमाः ।प्रतिकृष्टावद्यखेटनिकृष्टाणककुत्सिताः ॥ ७५ ॥
5.4.75 · p. 207
अनुष्टुप्
जघन्यं तु कुपूयं स्यादसारं लघु फल्गु च ।पुंस्यादिराद्यपौरस्त्यप्रथमप्रमुखादिमाः ॥ ७६ ॥
5.4.76 · p. 207
अनुष्टुप्
अग्र्यं त्वग्रिममग्रस्थं मध्यमीयं तु मध्यमम् ।अन्त्ये जघन्यपाश्चात्यचरमान्तिमपश्चिमाः ॥ ७७ ॥
5.4.77 · p. 207
अनुष्टुप्
करंबः कंबरो मिश्रः संपृक्तः खचितः समाः ।चलाचलं तु प्रचलं चपलं चंचलं चलम् ॥ ७८ ॥
5.4.78 · p. 207
अनुष्टुप्
चिकुरं चटुलङ्कंप्रं पारिप्लवपरिप्लवौ ।स्थास्न्वेकरूपं कूटस्थं स्थेयान् स्थेष्ठोऽप्यतिस्थिरे ॥ ७९ ॥
5.4.79 · p. 207
अनुष्टुप्
विशालमुरु विस्तीर्णं विपुलं पृथुलं पृथु ।स्फारं भद्रं बृहद्व्यूढमुदूढं बहुलं बहु ॥ ८० ॥
5.4.80 · p. 207
अनुष्टुप्
प्रांशूच्चमुन्नतं तुङ्गमुदग्रं तूच्छ्रिताग्रकम् ।न्यङ्नीचह्रस्वखर्वास्तु वामने दीर्घमायते ॥ ८१ ॥
5.4.81 · p. 207
अनुष्टुप्
विशालं विकरालं स्याद्विकटं च विशङ्कटम् ।वर्त्तुलं निस्तलं वृत्तं सुवृत्तं परिमण्डलम् ॥ ८२ ॥
5.4.82 · p. 207
अनुष्टुप्
चिपिटः पिच्छितो व्यूढे स्थपुटं विषमोन्नतम् ।आनतं तु नतं नम्रं बन्धुरं तून्नतानतम् ॥ ८३ ॥
5.4.83 · p. 207
अनुष्टुप्
क्षीणं क्षामं विलिष्टं स्यात् स्थूलं तु बहलं दृढम् ।प्रभूतं प्रचुरं प्राज्यं बहलं बहुलं बहु ॥ ८४ ॥
5.4.84 · p. 208
अनुष्टुप्
अदभ्रमधिकं भूरि भूयिष्ठं पुरुहं पुरु ।समग्रं सकलं सर्वं समस्तं निखिलाखिले ॥ ८५ ॥
5.4.85 · p. 208
अनुष्टुप्
अखण्डकृत्स्ननिः शेषपूर्णविश्वसमानि च ।खण्डनेमोनविकलाः पूर्णे भरितपूरितौ ॥ ८६ ॥
5.4.86 · p. 208
अनुष्टुप्
संपूर्णश्चाथ वशिकं शून्यं तुच्छञ्च रिक्तकम् ।पुराणे प्राक्तनप्रत्नपुरातनचिरन्तनाः ॥ ८७ ॥
5.4.87 · p. 208
अनुष्टुप्
नूत्ने त्वभिनवो नव्यो नवीनो नूतनो नवः ।शाश्वते त्वमृतो नित्यः सनातनसदातनौ ॥ ८८ ॥
5.4.88 · p. 208
अनुष्टुप्
सद्यस्तने तु साद्यस्कप्रत्यग्राभ्यग्रशारदाः ।ह्यस्तनश्वस्तनाद्याः स्युर्ह्यआदिस्थेषु वस्तुषु ॥ ८९ ॥
5.4.89 · p. 208
अनुष्टुप्
कालवाच्यव्ययेभ्यः स्यादन्येभ्योऽपि तथा तनः ।न्यक् स्यादधोमुखं न्युब्जमुदुब्जोत्तानमुन्मुखे ॥ ९० ॥
5.4.90 · p. 208
अनुष्टुप्
उदक्प्रत्यक् परागर्वाक् प्राक्च तिर्यगवागपाक् ।विष्वक्चैवमुदीचीनप्रमुखाः स्युर्यथाक्रमम् ॥ ९१ ॥
5.4.91 · p. 208
अनुष्टुप्
दिग्देशकालवचनमुदगादिकमव्ययम् ।दिग्देशकालसंबन्धिपदार्थेष्वभिधेयवत् ॥ ९२ ॥
5.4.92 · p. 208
अनुष्टुप्
यस्सहांचति सध्र्यङ् स विष्वद्य्रङ् विष्वगंचति ।देवानंचति देवद्य्रङ् सध्रीचीनादि चोन्नयेत् ॥ ९३ ॥
5.4.93 · p. 208
अनुष्टुप्
अविलंबितमुच्चण्डं संशितं तु सुतेजितम् ।उत्पिञ्जलं समुत्पिञ्जमिति द्वे भृशमाकुले ॥ ९४ ॥
5.4.94 · p. 208
अनुष्टुप्
अनादृते त्ववज्ञातमवतीर्णापहस्तितम् ।चलितप्रेंखिताधूतवेल्लिताकंपिता धुते ॥ ९५ ॥
5.4.95 · p. 208
अनुष्टुप्
रुचिते हृद्यलषितवांछितेष्टेडितेहिताः ।संवीतं स्याद्वलयितं वेष्टितं रुद्धमावृतम् ॥ ९६ ॥
5.4.96 · p. 209
अनुष्टुप्
नुन्नास्तनुत्तप्रहितक्षिप्तविद्धाः स्युरीरिते ।बद्धे सन्नाहितं नद्धं मुद्रितं सन्दितं सितम् ॥ ९७ ॥
5.4.97 · p. 209
अनुष्टुप्
सन्तापितं धूपायितं दूनं तप्तञ्च धूपिते ।मार्गिते मृगितान्विष्टावन्वेषितगवेषितौ ॥ ९८ ॥
5.4.98 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पा (wrong syllable)
लब्धाप्तासादितप्राप्तभूतविन्नास्तु भाविते ।प्रयत्ते मुदितप्रीतहृष्टाः सुहिततृप्तवत् ॥ ९९ ॥
5.4.99 · p. 209
अनुष्टुप्
आबर्हिते तूद्वृहितोन्मूलितोत्पाटितोद्धृताः ।ऊतगोपायितत्रातत्राणगुप्तास्तु रक्षिते ॥ १०० ॥
5.4.100 · p. 209
अनुष्टुप्
मनिते विदितज्ञातौ बुधिते बोधबुद्धवत् ।त्यक्ते तु विधुतोत्सृष्टहीनधूतसमुज्झिताः ॥ १०१ ॥
5.4.101 · p. 209
अनुष्टुप्
कृत्ते लूनच्छिन्नदातवृक्णच्छातच्छितार्दिताः ।स्रस्ते भ्रष्टध्वस्तपन्नगलितस्कन्नविच्युताः ॥ १०२ ॥
5.4.102 · p. 209
अनुष्टुप्
प्रेंखोलितं तंरलितं लुलितं प्रेंखितञ्च तत् ।भजमाने प्राप्तयुक्तन्याय्यान्यौपयिकोचिते ॥ १०३ ॥
5.4.103 · p. 209
अनुष्टुप्
न्यस्ते त्वारोपितोऽध्यस्तो निहितोऽपहितो हितः ।उपसन्नं तूपनतमुपप्राप्तमुपस्थितम् ॥ १०४ ॥
5.4.104 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
शुश्रूषितं परिवसितमुपासितञ्च वरिवसितञ्च समम् ।अपचायितं नमसितं नमस्यितं सममपचितञ्च ॥ १०५ ॥
5.4.105 · p. 209
आर्याmetre not read in every line
पणितपणायितपनिताः पनायितस्तुतनुतेडिताः शस्ते ।वर्णितगीर्णौ च तथा संगीर्णोपश्रुतौ प्रतिज्ञाते ॥ १०६ ॥
5.4.106 · p. 209
गीतिः
उन्नोत्ततिमितक्लिन्नस्नपितार्द्राणि सार्द्रवत् ।स्युः प्रत्यवसिते प्सातजग्धान्नाशितखादिताः ॥ १०७ ॥
5.4.107 · p. 209
अनुष्टुप्
ग्रस्तग्लस्ताभ्यवहृतभुक्तभक्षितजक्षिताः ।परिक्षिप्तं तु निवृतं निदिग्धोपचितौ समौ ॥ १०८ ॥
5.4.108 · p. 210
अनुष्टुप्
प्राप्ते प्रणिहितापन्नौ विस्मृतोंऽतर्गतेऽस्मृते ।संगूढं स्यात् संकलितं स्यन्नं रीणं स्रुतं स्नुतम् ॥ १०९ ॥
5.4.109 · p. 210
अनुष्टुप्
अवरीणो धिक्कृतः स्याद्दृब्धे ग्रथितमुद्रितौ ।संकीर्णे संकुलाकीर्णौ विस्तृते विसृतं ततम् ॥ ११० ॥
5.4.110 · p. 210
अनुष्टुप्
सिद्धे निर्वृत्तनिष्पन्नौ भिन्ने भेदितदारितौ ।वेधितच्छिद्रितौ विद्धे तष्टत्वष्टौ तनूकृते ॥ १११ ॥
5.4.111 · p. 210
अनुष्टुप्
ऊतं स्यूतमुतं तन्तुसन्तते प्रार्थितेऽर्दितम् ।उद्धृतं समुदस्तं स्यान्मर्मस्पृक् स्यादरुन्तुदम् ॥ ११२ ॥
5.4.112 · p. 210
अनुष्टुप्
गुण्डितं रूषिते क्लिष्टे क्लेशितं पूजितेऽञ्चितम् ।ज्ञप्तं तु ज्ञपिते हन्नं गूने मीढं तु मूत्रिते ॥ ११३ ॥
5.4.113 · p. 210
अनुष्टुप्
पुषिते पुष्टमुद्गूर्णोद्यत(यत्ताः प्रयत्नवान्) ।दमिते दान्तं शमिते शान्तमुद्वान्तमुद्गते ॥ ११४ ॥
5.4.114 · p. 210
metre not recognised
पन्नं प्रपतिते सन्नं लिष्टे तुन्नं तु पीडिते ।निष्पक्वे क्वथितं सोढे क्षान्तं निचितमाचिते ॥ ११५ ॥
5.4.115 · p. 210
अनुष्टुप्
मुषिते लुण्ठितं यस्ते निसृष्टं वृद्धमेधिते ।काचितं शिक्यिते दिश्यं दिग्भवेऽभ्रभवेऽभ्रियम् ॥ ११६ ॥
5.4.116 · p. 210
अनुष्टुप्
यज्ञियं यज्ञकर्मार्हे चक्षुष्यं चक्षुषे हितम् ।तत्तद्गात्रभवे दन्त्यं हस्त्यमोष्ठ्यमितीदृशाः ॥ ११७ ॥
5.4.117 · p. 210
अनुष्टुप्
पुंसः पौंन्नम् स्त्रियाः स्त्रैणमग्नेराग्नेयमित्यपि ।दण्डवान् दण्डिको दण्डीत्येवं नेयमदन्ततः ॥ ११८ ॥
5.4.118 · p. 210
अनुष्टुप्
व्रीहिणो व्रीहिमन्तः स्युर्यवमन्तो यवान्विताः ।निर्जने स्थान एकान्तं विविक्तं विजनं तथा ॥ ११९ ॥
5.4.119 · p. 210
अनुष्टुप्
छन्नं गुह्यं निश्शलाकं रहः क्लीबोऽथवाव्ययम् ।गुह्यं रहस्यमित्येतावप्रकाश्येऽपि वस्तुनि ॥ १२० ॥
5.4.120 · p. 211
अनुष्टुप्