कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अष्टमङ्गल

aṣṭamaṅgalaपुं · masc.

In 8 kośas: 6 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.35 · p. 48
पुच्छोरःखुरकेशास्यैः सितैः स्यादष्टमङ्गलः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.201 · p. 111
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ।पुच्छोरःखुरपुच्छास्यैः सितैः स्यादष्टमङ्गलः ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.154 · p. 71
खुरोरःकेशपुच्छास्यैर्वलक्षैरष्टमङ्गलः ।सितकाचरुचिर्वाजी पङ्गुलः कथितस्तथा ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2239 · p. 365
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ।पुच्छोरःखुरकेशास्यैः सितैः ख्यातोऽष्टमङ्गलः ॥ २२३९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.726 · p. 93
खुरोरःपुच्छकेशास्यैर्वलर्क्षैरष्टमङ्गलः ।सुग्रीवाख्यः स यद्ग्रीवा शक्रकार्मुकसंनिभा ॥ ७२६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.93 · p. 111
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ।पुच्छोरःखुरकोशास्यैः सितैः स्यादष्टमंगलः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.6 · p. 93
अष्टमङ्गलशब्दो द्वे घोटभेदेऽस्य लक्षणम् ।पुच्छोरःखुरकेशास्यैः सितैः स्यादष्टमङ्गलः ॥ ६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.7 · p. 93
इति तक्षागमख्याते पूर्णकुम्भादिके नपुम् ।द्विगौ तु प्राप्तलिङ्गं स्यात् समासेऽथावरोहकः ॥ ७ ॥
अनुष्टुप्
doubtful

अष्टमङ्गल as a meaning in nānārtha verses