कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

तृतीयः परिच्छेदः (2/4)

अस्नपा तु जलौका स्याज्जलालोका जलौकसः ।जलौकास्तु तथा तुल्या कथिता जलसर्पिणी ॥ १२१ ॥
3.121 · p. 67
अनुष्टुप्
शुक्तिः स्यादब्धिमण्डूकी मुक्तास्फोटोऽपि कथ्यते ।वारिजः कम्बुशङ्खौ तु त्रिरेखः षोडशभ्रमः ॥ १२२ ॥
3.122 · p. 67
अनुष्टुप्
क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलमात्रजाः ।कपर्दस्तु वराटः स्यात्पणास्थिकवराटकाः ॥ १२३ ॥
3.123 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
दीर्घकोशा तु दुर्नामा पीलकोऽपि पिपीलकः ।हीनाङ्गी ब्राह्मणी स्थूलशीर्षिकाथ पिपीलका ॥ १२४ ॥
3.124 · p. 67
अनुष्टुप्
घृ[38]तेली पिङ्गकपिशा उपजिह्वापदेहिका ।रिक्षा लिक्षा समे यूका महाभीरुस्तु षट्पदी ॥ १२५ ॥
3.125 · p. 67
अनुष्टुप्
गोपालिकापि कथिता गर्दभी गोमयोद्भवा ।कोलकुणमत्कुणौ तु वैराटस्तितिभाग्निकौ ॥ १२६ ॥
3.126 · p. 68
अनुष्टुप्metre not read in every line
अग्निरजश्चेन्द्रगोपस्तन्तुवायोर्णनाभकौ ।लूता कृमिर्मर्कटको लालास्रावोऽपि कथ्यते ॥ १२७ ॥
3.127 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
अष्टपाच्च तथा प्रोक्तो जालकारकजालिकौ ।कर्णकीटा शतपदी तथा कर्णजलौलिका ॥ १२८ ॥
3.128 · p. 68
अनुष्टुप्
वृश्चिकाली द्रुणोऽपिस्यादलं तत्पुच्छकण्टकः ।भ्रमरश्चञ्चरीकोऽली रोलम्बो मधुकृत्पुनः ॥ १२९ ॥
3.129 · p. 68
अनुष्टुप्
शिलीमुखद्विरेफौ तु षडङ्ध्रि[ङ्घ्रिः]र्भृङ्ग इत्यपि ।इन्दिन्दिरोऽस्य भोज्यं तु मधुपुष्पे स्मृते पुनः ॥ १३० ॥
3.130 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पतंगः शलभो द्योतिरिङ्गणश्च निगद्यते ।खद्योतोऽथ स्मृता क्षुद्रा सरघा मधुमक्षिका ॥ १३१ ॥
3.131 · p. 68
अनुष्टुप्
नीला तु वर्वणा पुत्तिकाथवा तु पतङ्गिका ।तैलाटी वरटी दंशो दंशी चीरी तु चीरिका ॥ १३२ ॥
3.132 · p. 68
अनुष्टुप्
झिल्लीका झिल्लिका भृङ्गारिका वर्षकरी पुनः ।हस्ती मतङ्गजो नागो मातङ्गो वारणः करी ॥ १३३ ॥
3.133 · p. 68
अनुष्टुप्
गजो द्विपस्तथेभोऽसौ कुम्भिकुञ्जरपीलवः ।करटी सिन्धुरो दन्ती दन्तावलमहामृगौ ॥ १३४ ॥
3.134 · p. 69
अनुष्टुप्
द्विरदोऽनेकपाः स्तम्बेरमः सामज इत्यपि ।करेणुर्हस्तिनी धेनुका वशापि निगद्यते ॥ १३५ ॥
3.135 · p. 69
अनुष्टुप्
मिश्रो मन्दो मृगो भद्रश्चतुर्धा गज उच्यते ।बालः स्यात्पञ्चवर्षोऽसौ स्यात्पोतो दशहायनः ॥ १३६ ॥
3.136 · p. 69
अनुष्टुप्
विंशत्यब्दगजो विक्कः कलभस्त्रिंशदब्दकः ।प्रभिन्नो गर्जितो मत्तो यूथनाथोऽथ यूथपः ॥ १३७ ॥
3.137 · p. 69
अनुष्टुप्
उद्वान्तनिर्मदौ तुल्यौ कल्पितः सज्जितः समौ ।व्यालो दुष्टगजः प्रोक्तः संनाह्यो रणसज्जितः ॥ १३८ ॥
3.138 · p. 69
अनुष्टुप्
घटा स्याद्धस्तिनां श्रेणी मदो दानं निगद्यते ।प्रवृत्तिरथ शुण्डायाः शीकरो वमथुर्मतः ॥ १३९ ॥
3.139 · p. 69
अनुष्टुप्
[39] शुण्डा हस्तः करो हस्तिनासा स्यादथ पुष्करम् ।शुण्डाग्रं चाथ दन्तौ तु विषाणो स्कन्ध आसने ॥ १४० ॥
3.140 · p. 69
अनुष्टुप्
चूलिका कर्णमूलं स्यादक्षिकूटमथेषिका ।करटोऽथ गजगल्लोऽवग्रस्त्वलिकं मतम् ॥ १४१ ॥
3.141 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
समानौ शिरसः पिण्डौ कुम्भौ तत्रान्तरं विदुः ।वातकुम्भः पुच्छमूले पेचकः कथितो बुधैः ॥ १४२ ॥
3.142 · p. 69
अनुष्टुप्
शृङ्खलः पादपाशस्तु हिञ्जीरनिगडान्दुकाः ।वारिस्तु गजबन्धस्य भूमिः स्यात्त्रिपदी त्वथ ॥ १४३ ॥
3.143 · p. 70
अनुष्टुप्
गात्रयोर्बन्ध इत्येवं वैणुकं तोत्रमुच्यते ।बन्धस्तम्भस्तथालानमङ्कुशः सृणिरित्यपि ॥ १४४ ॥
3.144 · p. 70
अनुष्टुप्
अङ्कुशाग्रमपष्ठं स्यात्यातमङ्कुशवारणम् ।दूष्या कक्ष्या वरत्रा स्यात्कण्ठबन्धः कलापकः ॥ १४५ ॥
3.145 · p. 70
अनुष्टुप्
तुरगो घोटको वाजी तुरंगोऽर्वा तुरंगमः ।हयस्तार्क्ष्यो हरिः सप्तिवीती गन्धर्वनामकः ॥ १४६ ॥
3.146 · p. 70
अनुष्टुप्
वामी तु वडवा त्वश्वा किशोरो बालको हयः ।जवनस्तु जवोत्कृष्टो रथ्योऽश्वो रथवाहकः ॥ १४७ ॥
3.147 · p. 70
अनुष्टुप्
आजानेयः कुलीनस्तु सैन्धवः सिन्धुदेशजः ।पारसीकास्तु वानायुजाः काम्बोजा अथ वाह्लिकाः ॥ १४८ ॥
3.148 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
साधुवाही विनीतोऽश्वः शूकलो विनयोज्झितः ।कशार्हः कश्य इत्युक्तं कोकाहः सितवाजिनी ॥ १४९ ॥
3.149 · p. 70
अनुष्टुप्
आनीलो नीलवर्णोऽर्वा त्रियूहः कपिलो हयः ।पीतस्तु हरियो वाजी कियाहो लोहितो हयः ॥ १५० ॥
3.150 · p. 70
अनुष्टुप्
पाण्डुकेशरपुच्छस्तु वोल्लाहः कथितो बुधैः ।मनाक्पाण्डुरुराहाऽश्वः कृष्णजङ्घो यदा भवेत् ॥ १५१ ॥
3.151 · p. 71
अनुष्टुप्
पीतः स्यात्तु कुलाहोऽर्वा कृष्णजानुर्यदा हयः ।उकनाहस्तथा पीतरक्तच्छायो यदा भवेत् ॥ १५२ ॥
3.152 · p. 71
अनुष्टुप्
हृत्पृष्ठखुरपुच्छेषु पुष्पितः पञ्चभद्रकः ।कृष्णरक्तच्छविः शोणः स च कोकनदच्छविः ॥ १५३ ॥
3.153 · p. 71
अनुष्टुप्
खुरोरःकेशपुच्छास्यैर्वलक्षैरष्टमङ्गलः ।सितकाचरुचिर्वाजी पङ्गुलः कथितस्तथा ॥ १५४ ॥
3.154 · p. 71
अनुष्टुप्
चित्रितस्तु हलाहोऽश्वो हरिको हालकः पुनः ।अश्वः स्यात्पीतहरितच्छायो ययुरथा[40]परः ॥ १५५ ॥
3.155 · p. 71
अनुष्टुप्
अश्वमेधीय इत्येवं विशेषास्तुरगस्य हि ।अश्वस्य नासिका प्रोथं मध्यं कश्यं निगद्यते ॥ १५६ ॥
3.156 · p. 71
अनुष्टुप्
गलोद्देशो निगालः स्यात्खुरा अश्वशफा मताः ।लाङ्गूलमथ पुच्छं स्याद्वालहस्तोऽपि वालधिः ॥ १५७ ॥
3.157 · p. 71
अनुष्टुप्
अपावृत्तपरावृत्तलुठितानि तु वेल्लिते ।धोरितं वल्गितं प्लुत्पुत्तेजितोत्तरितानि च ॥ १५८ ॥
3.158 · p. 71
अनुष्टुप्
गतयः पञ्च धाराख्या वाजिनां कथिता इमाः ।दिनेनैकेन यो गम्योऽध्वाश्वीनोऽश्वेन कथ्यते ॥ १५९ ॥
3.159 · p. 71
अनुष्टुप्
मुखयन्त्रणमश्वस्य कवियं कविका कवी ।खलीनं पादपाशेऽथ दामाञ्जनमितीक्षितम् ॥ १६० ॥
3.160 · p. 72
अनुष्टुप्
प्रखरः प्रक्षरं चर्मदण्डे चाथ कशा स्मृता ।कुशावक्षेपणी वल्गा पर्याणं पल्ययन्यपि ॥ १६१ ॥
3.161 · p. 72
अनुष्टुप्
अथ वेगसरो वेसरस्तथाश्वतरः स्मृतः ।क्रमेलकः कुलनाशः शलो भोलिर्महाङ्गकः ॥ १६२ ॥
3.162 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
वासन्तो द्विककुद्दुर्गलङ्घनो मय इत्यपि ।दासेरोष्ट्रौ केलिकीर्णो रवणो दीर्घकन्धरः ॥ १६३ ॥
3.163 · p. 72
अनुष्टुप्
मरुत्प्रियः कण्टकाशी त्रिवर्षः करभस्त्वसौ ।स तु शृङ्खलकः काष्टमयैः स्यात्पादबन्धनैः ॥ १६४ ॥
3.164 · p. 72
अनुष्टुप्
गर्दभः शङ्कुकर्णश्च चक्रीवान् चिरमेह्यपि ।खररासभवालेया वृषे तु वृषभर्षभौ ॥ १६५ ॥
3.165 · p. 72
अनुष्टुप्
अनङ्वान्वाडवेयोऽपि उक्षा शक्करशाक्करौ ।सौरभेयः ककुद्मांश्च भद्रो गौः शाङ्करस्तथा ॥ १६६ ॥
3.166 · p. 72
अनुष्टुप्
बलीवर्दोऽथ जातोक्षे उक्षा स्यात्स्कन्धिकस्तथा ।अथोक्षतरमहोक्षौ वृद्धोक्षतु जरद्गवे ॥ १६७ ॥
3.167 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
नस्योतो नस्तितस्तुल्यौ कूटो भग्नविषाणकः ।इड्वरो गोपतिः षण्डो मदकोहलगोवृषौ ॥ १६८ ॥
3.168 · p. 73
अनुष्टुप्
आर्षभ्यः षण्ढतायोग्यस्तर्णो वत्सः शकृत्करिः ।दम्यवत्सतरौ पुंसि पृष्ठवाड्युगपार्श्वगः ॥ १६९ ॥
3.169 · p. 73
अनुष्टुप्
युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः ।स तु सर्वधुरीणः स्यात्सर्वां वहति यो धुरम् ॥ १७० ॥
3.170 · p. 73
अनुष्टुप्
एकधुरीणैकधुरावुभावेकधुरावहे ।धुरीणधुर्यधौरेयधौरेयकधुरंधराः ॥ १७१ ॥
3.171 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable)
धूर्वहे वृषभे चैते शब्दा उक्ता यथार्थतः ।[41]गलिर्दुष्टो वृषः प्रोक्तो द्विदन्षोडन्द्विषड्रदौ ॥ १७२ ॥
3.172 · p. 73
अनुष्टुप्
स्कन्धो वहस्तस्य कूटं नैचिकं ककुदं शिरः ।गलकम्बलसास्ने तु विषाणं शृङ्गकूणिके ॥ १७३ ॥
3.173 · p. 73
अनुष्टुप्
सुरभिः सौरभेयी तु माहेयी गौस्तथार्जुनी ।निलिम्पा शृङ्गिणी चोषानङ्वाह्यनडुही समा ॥ १७४ ॥
3.174 · p. 73
अनुष्टुप्
तम्बा तम्पा रोहिणी च वर्णैर्भेदा ह्यनेकशः ।प्रष्ठौही गर्भिणी वन्ध्या वशा वेहद्वृषोपगा ॥ १७५ ॥
3.175 · p. 73
अनुष्टुप्
स्रवद्गर्भावतोका स्यात्सन्धिनी तु वृषावृता ।नवप्रसूतिका धेनुः परेष्टुः स्याद्बहुप्रसूः ॥ १७६ ॥
3.176 · p. 73
अनुष्टुप्
सकृत्प्रसूतिका गृष्टी सुव्रता सुखदोह्यया ।करटा दुःखदोह्या च वञ्जुला बहुदुग्धदा ॥ १७७ ॥
3.177 · p. 74
अनुष्टुप्
द्रोणदुग्धा द्रोणदुघा पीनोघ्नी पीवरस्तनी ।धेनुष्या पीतदुग्धाथ वत्सला वत्सकामिका ॥ १७८ ॥
3.178 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रो (wrong syllable)
------------------------- आपीनं तूधसा सह ।गोमयं भूमिलेपोऽथ गोग्रन्थिः शुष्कगोमये ॥ १७९ ॥
3.179 · p. 74
अनुष्टुप्metre not read in every line
करीषच्छगणे तुल्ये व्रजो गोकुलगोधने ।छगच्छागावजो बस्तश्छगलश्च स्तभः पशुः ॥ १८० ॥
3.180 · p. 74
अनुष्टुप्
छागिका सर्वभक्ष्या स्यादजा [मञ्जा ?] गलस्तनी ।वर्करस्तरुणश्छागो हुडावी मेषस्तूरणः ॥ १८१ ॥
3.181 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ष (wrong syllable)
ऊर्णायुरुरभ्रश्च[श्चापि?] वृष्णिरेडकरोमशौ ।मेण्ढकः शृङ्गिणो भेडो हुडुः संफाल इत्यपि ॥ १८२ ॥
3.182 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मेषी जालकिनी चैव रुजा च कुररी समा ।कुर्कुरः सारमेयोऽस्थिभुक्कौलेयः पुनः शुनः ? ॥ १८३ ॥
3.183 · p. 74
अनुष्टुप्
श्वानः शालावृको रात्रिजागरो भषणस्तथा ।मृगदंशशुनी वक्रवालधिः श्वा स रोगवान् ॥ १८४ ॥
3.184 · p. 74
अनुष्टुप्
अलर्को रोगवान् श्वानो मृगव्ये कुशलो मतः ।विश्वकद्रुः पुना रोगी शुनी तु सरमा मता ॥ १८५ ॥
3.185 · p. 75
अनुष्टुप्
लुलायुर्महिषो वाहरिपुः सैरिभ एव च ।धीरस्कन्धो महः कृष्णशृङ्गश्च यमवाहनः ॥ १८६ ॥
3.186 · p. 75
अनुष्टुप्
रजस्वलजरन्तौ च रक्ताक्षो दंशभीरुकः ।महीषेऽरण्यजे चास्मन्गवलोऽपि विभाव्यते ॥ १८७ ॥
3.187 · p. 75
अनुष्टुप्
[42] सिंहः पञ्चाननः श्वेतपिङ्गः कण्ठीरवो हरिः ।महानादस्तथेभारिः पारीन्द्रो नखरायुधः ॥ १८८ ॥
3.188 · p. 75
अनुष्टुप्
मृगारिः केसरी चापि मृगात्पतिरपीक्ष्यते ।हर्यक्षो व्याघ्र इत्येवं द्वीपिशार्दूलचित्रकाः ॥ १८९ ॥
3.189 · p. 75
अनुष्टुप्
चित्रदेहः पुण्डरीकः --------------------- ।मृगादनस्तरक्षुः स्याद्विशेषश्चित्रकस्य सः ॥ १९० ॥
3.190 · p. 75
अनुष्टुप्metre not read in every line
-----------------------अष्टपाच्छरभो मतः ।उत्पादकः कुञ्जरारिर्गोसदृग्गवयः स्मृतः ॥ १९१ ॥
3.191 · p. 75
metre not recognised
स्मृतो वनगवश्चाश्ववारणोऽप्यथ गण्डकः ।वाध्रीणसः खड्गिखड्गौ भूदारः कोलसूकरौ ॥ १९२ ॥
3.192 · p. 75
अनुष्टुप्
क्रोडः किरः किरिः पोत्री घृष्टिर्दंष्ट्री बहुप्रजः ।स्तब्धरोमा तथा घोणी स्थूलनासो वराहकः ॥ १९३ ॥
3.193 · p. 76
अनुष्टुप्
शूकरो विड्वरो ग्राम्यो गर्ताशूकर इत्यपि ।भालूकर्क्षाच्छभल्लूकभल्लभाल्लूकभल्लुकाः ॥ १९४ ॥
3.194 · p. 76
अनुष्टुप्
शृगालो घोरवासी च गोमायुः शिवफेरघौ ।फेरण्डो हूरवः क्रोष्टा जम्बुको मृगधूर्तकः ॥ १९५ ॥
3.195 · p. 76
अनुष्टुप्
भरुजः फेरुरप्येवं भूरिमायोऽपि कथ्यते ।ईहामृगो वृकः कोको वानरः प्लवगः पुनः ॥ १९६ ॥
3.196 · p. 76
अनुष्टुप्
शाखामृगो वनौकाश्चारण्यश्वा हरिकीशकौ ।प्लवङ्गः श्यामवक्त्रोऽसौ गोलाङ्गूलो विभाव्यते ॥ १९७ ॥
3.197 · p. 76
अनुष्टुप्
कुरङ्गमृगसारङ्गा वातायुहरिणावपि ।तद्भेदा रङ्कुगोकर्णन्यङ्कुचीनादयो मताः ॥ १९८ ॥
3.198 · p. 76
अनुष्टुप्
वाताप्रमीरोहितौ च कन्दली सार इत्यपि ।इत्यादयोऽपरे भेदाः स्वयं ज्ञेया मनीषिभिः ॥ १९९ ॥
3.199 · p. 76
अनुष्टुप्
शशको लोमकर्णोऽपि मृदुलोमकशूलिकौ ।पल्ली तु भित्तिका माणिक्या स्मृता गृहगोलिका ॥ २०० ॥
3.200 · p. 76
अनुष्टुप्
गृहोलिका कुड्यमीनो हालिन्यथाञ्जनाधिका ।ब्राह्मणी रक्तपुच्छा सा सरटे कृकलासकः ॥ २०१ ॥
3.201 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्य (wrong syllable)
उन्दरः खनको वज्रदशनो मूषिकस्तथा ।आखून्दुरू समौ प्रोक्तौ मूषको वृषलोचनः ॥ २०२ ॥
3.202 · p. 77
अनुष्टुप्
गन्धमूष्या दिवान्धा च वज्रतुण्डा छुछुन्दरी ।[43] गिरिका बालमूष्या स्याद्विशेषोऽयं निरीक्ष्यताम् ॥ २०३ ॥
3.203 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 छु (wrong syllable)
बिडालोतू तथा ह्रीकुर्मार्जारो वृषदंशकः ।मण्डली जाहको गात्रसंकोची नकुलः पुनः ॥ २०४ ॥
3.204 · p. 77
अनुष्टुप्
सर्पहा पिङ्गलो बभ्रुः सर्पो भोगी भुजंगमः ।द्विजिह्वो दीर्घजीह्वोऽहिः पृदाकुः पवनाशनः ॥ २०५ ॥
3.205 · p. 77
अनुष्टुप्
दन्दशूकोरगौ व्यालः पन्नगः फणिना सह ।सरीसृपो विषधरः कुण्डली च बिलेशयः ॥ २०६ ॥
3.206 · p. 77
अनुष्टुप्
दर्वीकरो गूढपदो लेलिहानोऽपि कथ्यते ।भुजंगो भुजगो भोगो दीर्घपृष्ठोऽपि कञ्चुकी ॥ २०७ ॥
3.207 · p. 77
अनुष्टुप्
राजसर्पो भुजंगाशी शयुः पारीन्द्रवाहसौ ।मण्डल्यजगरौ तुल्यौ अलगर्दो जलोद्भवः ॥ २०८ ॥
3.208 · p. 78
अनुष्टुप्
राजिलो दुन्दुभस्तुच्छसर्पो गोनासगोनसौ ।तिलित्सो घोणसोऽप्यत्र भेदाः सर्पस्य भूरयः ॥ २०९ ॥
3.209 · p. 78
अनुष्टुप्
कुर्कटाहिः [कुर्कुटाभो?] रुतवर्णसमो हि यः ।सामान्येन समे नागाः काद्रवेया उदीरिताः ॥ २१० ॥
3.210 · p. 78
अनुष्टुप्
भोगावती पुरी तेषां शेषोऽनन्तस्त्वथालुकः ।द्विसहस्राक्ष इत्येवं तथा नागाधिपश्च सः ॥ २११ ॥
3.211 · p. 78
अनुष्टुप्
स च श्वेतस्तथा श्यामवर्णः शुभ्रकजाङ्कतः ।सर्पराजो वासुकिस्तु शुभ्रो नीलाब्जलक्ष्मवान् ॥ २१२ ॥
3.212 · p. 78
अनुष्टुप्
लोहिताङ्गस्तक्षकः स्यान्मस्तके स्वस्तिकाङ्कवान् ।इत्यदयोऽपरे भेदा गौडपण्डितभाषिताः ॥ २१३ ॥
3.213 · p. 78
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 द (wrong syllable)
भोगोऽहिदेहो दंष्ट्राशीर्भोगो दर्वी फटः स्फटः ।फणा स्त्रीपुंसलिङ्गे स्यात्फटाशब्दः स्त्रियामपि ॥ २१४ ॥
3.214 · p. 78
अनुष्टुप्
निर्मोककञ्चुकौ सर्पकोशे निर्ल्वयनीत्यपि ।मुक्तनिर्मोकनिर्मुक्तौ सविषा निर्विषास्तथा ॥ २१५ ॥
3.215 · p. 78
अनुष्टुप्
केचित्सर्पा दृष्टिविषा भेदा ज्ञेया धिया स्वयम् ।इति श्रीपरमान्दः सर्पवर्गमभाषत ॥ २१६ ॥
3.216 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कृत्रिमं च विषं चारं गरश्चोपविषं च तत् ।विहंगो विहगः पक्षी पतगो विहायाः? खगः ॥ २१७ ॥
3.217 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 हा (wrong syllable)
शकुन्तिः शकुनिः [44] पत्ररथो द्विजविहंगमौ ।विष्किरो विर्वयः पित्सन्नीडजश्चाण्डजः स्मृतः ॥ २१८ ॥
3.218 · p. 79
अनुष्टुप्
शकुन्तशकुनौ तुल्यौ चञ्चूस्त्रोटिः सृपाटिका ।पक्षः पत्रं पतत्रं च वाजः पिच्छं तनूरुहम् ॥ २१९ ॥
3.219 · p. 79
अनुष्टुप्
गरुच्छदस्तस्य मूले पक्षतिः स्मर्यते स्त्रियाम् ।प्रडीनोड्डीनसंडीनडयनानि नभोगतौ ॥ २२० ॥
3.220 · p. 79
अनुष्टुप्
कुलायो नीडमस्त्री स्यात्पेशीकोशोऽण्डके पुनः ।मयूरः सर्पभुक्केकी स्मृतो मेघसुहृच्च सः ॥ २२१ ॥
3.221 · p. 79
अनुष्टुप्
नीलकण्ठः शिखी बर्ही शुक्लापाङ्गोऽस्य वाक्पुनः ।केका बर्हं तु पिच्छे स्यात्प्रचलाककलापकौ ॥ २२२ ॥
3.222 · p. 79
अनुष्टुप्
मेचकश्चन्द्रकस्तुल्यौ कोकिलो वनवल्लभः ।काकपुष्टः पिककः कालकण्ठस्ताम्राक्ष इत्यपि ॥ २२३ ॥
3.223 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चिरजीवी द्विकः काक आत्मघोषः सकृत्प्रजः ।अरिष्टः करटो घूकारातिर्ध्वाङ्क्षोऽन्यभृत्पुनः ॥ २२४ ॥
3.224 · p. 80
अनुष्टुप्
वायसो मौकुलिश्चैकदृग्वृद्धो द्रोण उच्यते ।जलकाकस्तथा मद्गुर्घूकः कौशिकपेचकौ ॥ २२५ ॥
3.225 · p. 80
अनुष्टुप्
निशाटश्च दिवान्धोऽसावुलूकः काकशात्रवः ।ताम्रचूडो निशावेदी कुर्कुटश्चरणायुधः ॥ २२६ ॥
3.226 · p. 80
अनुष्टुप्
विवृताक्षः कुकवाकुर्हंसा मानससंश्रयाः ।सितपक्षाश्च चक्राङ्गा विशेषास्तत्र केचन ॥ २२७ ॥
3.227 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
राजहंसास्तु ते चञ्चुपादैः स्युर्लोहितैश्च ये ।मलिनैर्मल्लिकाक्षास्ते कादम्बा कलहंसकाः ॥ २२८ ॥
3.228 · p. 80
अनुष्टुप्
धार्तराष्ट्रास्तु ते चञ्चुचरणैः श्यामवर्णकैः ।वरला वारला हंसी वारटा वरटा पुनः ॥ २२९ ॥
3.229 · p. 80
अनुष्टुप्
सारसः पुष्कराख्यः स्यात्कुरंकरकलक्ष्मणौ ।क्रौञ्चे क्रुङ् चातको बप्पीहः स्तोकः स्यान्नभोऽम्बुपः ॥ २३० ॥
3.230 · p. 80
अनुष्टुप्
सारङ्गश्चक्रवाकस्तु रथाङ्गः कोक इत्यपि ।कटुनादष्टिट्टिभः स्यादूर्ध्वपादशयश्च सः ॥ २३१ ॥
3.231 · p. 81
अनुष्टुप्
धूम्याटस्तु तथा भृङ्गः कलिङ्गोऽपि निगद्यते ।कुलिङ्ककः कलविङ्कश्चटकस्त्वस्य वल्लभा ॥ २३२ ॥
3.232 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
चटका चाटकैरस्तु पुमपत्ये विभाव्यताम् ।[45] बकबकोटौ कह्वोऽप्यथ [बलाको?] बलाहकः ॥ २३३ ॥
3.233 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable)
बलाका तु बलाकस्त्री प्रोच्यते विसकण्ठिका ।दीर्घपादो लोहपृष्ठः कङ्कः स्यात्कमनच्छदः ॥ २३४ ॥
3.234 · p. 81
अनुष्टुप्
शशादनः श्येनचिल्लावातापी शकुनिश्च सः ।दूरदृग्गृध्रदाक्षाय्या रक्ततुण्डशुकौ समौ ॥ २३५ ॥
3.235 · p. 81
अनुष्टुप्
पीतपादा शारिका च गोराटी गोकिराट्यपि ।जतुका चर्मचेटी तु परोष्णी वागुली समे ॥ २३६ ॥
3.236 · p. 81
अनुष्टुप्
मुखविष्ठापि सा प्रोक्ता पारापतकपोतकौ ।रक्तनेत्रो मञ्जुशब्दश्चकोरो विषबोधकः ॥ २३७ ॥
3.237 · p. 81
अनुष्टुप्
ज्योत्स्नाप्रियोऽथ गुन्द्रले जीवंजीवोऽपि कथ्यते ।करेटुः कर्करेटुश्च क्रकरः कृकणोऽपि च ॥ २३८ ॥
3.238 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्द्र (wrong syllable)
विषदर्शनमृत्युश्च खरकोणस्तु तित्तिरः ।व्याघ्राटकभरद्वाजौ चञ्चुसूचकसुगृहौ ॥ २३९ ॥
3.239 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 सु (wrong syllable)
कुर्कटः कुम्भकारः स्यात्कुकुभः कुहकध्वनिः ।दीपकच्छेकमुख्यास्तु गृहासक्ता मृगाण्डजाः ॥ २४० ॥
3.240 · p. 82
अनुष्टुप्