All kośas › Suśīlanāmamālā
सुशीलनाममाला Suśīlanāmamālā
3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)
तिर्यग्विभागः · पञ्चेन्द्रियजीवनामानि (1/3)
॥ इति चतुरिन्द्रियजीवाः समाप्ताः ॥
* अथ पञ्चेन्द्रियजीवनामानि *
तत्र
* स्थलचरपञ्चेन्द्रियजीवनामानि *
पशुस्तिर्यङ्चरि हिंस्रेऽस्मिन् व्यालः श्वापदश्च वै ।
5.9.1 · p. 361
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
* गजनामानि *
गजो मतङ्गजो गर्जो मातङ्गश्च महामृगः ॥ २१९८ ॥
5.9.2198 · p. 361
अनुष्टुप्metre not read in every line
हस्ती दन्ती जटी नागो महाकायो महामदः ।इभः कुम्भी जलाकाङ्क्षः सिन्धुरः षष्टिहायनः ॥ २१९९ ॥
5.9.2199 · p. 361
अनुष्टुप्
द्विपश्चाऽनेकपः पद्मी पुष्करी पेचकी कपिः ।पेचिलः सूर्पकर्णश्च करेणुः सूचिकाधरः ॥ २२०० ॥
5.9.2200 · p. 361
अनुष्टुप्
अन्तः स्वेदस्तथा दीर्घपवनो वारणोऽसुरः ।स्तम्बेरमश्च शुण्डालो दन्तावलश्च कुञ्जरः ॥ २२०१ ॥
5.9.2201 · p. 361
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
पीलुर्विलोमजिह्वश्च करिश्च करटी करी ।द्विरदः सामयोनिश्च नामानीति गजस्य वै ॥ २२०२ ॥
5.9.2202 · p. 361
अनुष्टुप्
करिणी हस्तिनी कर्णधारिणी धेनुका वशा ।गणिका वासिता चेति नामानि हि गजस्त्रियाः ॥ २२०३ ॥
5.9.2203 · p. 361
अनुष्टुप्
भद्रो मन्दो मृगो मिश्रश्चेति चतस्रो जातयः ।महाकायस्य मन्यन्ते विश्वे च वर्त्तयन्ति ताः ॥ २२०४ ॥
5.9.2204 · p. 361
metre not recognised
कालेऽप्यजातदन्तश्च स्वल्पाङ्गः स्यात् च मत्कुणौ ।पञ्चवर्षो द्विपो बालः पोतः स्याद्दशवर्षकः ॥ २२०५ ॥
5.9.2205 · p. 362
अनुष्टुप्
पिक्को विक्कश्च मातङ्गो विंशतिवर्ष उच्यते ।कलभोऽपि त्रिंशद्वर्षः कथ्यते कोविदैः किल ॥ २२०६ ॥
5.9.2206 · p. 362
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable); pāda 3, syllable 5 त्रिं (wrong syllable)
यूथनाथस्तथा यूथपतिः स्याद्यूथनायकः ।प्रभिन्नो गर्जितो मत्तो मदोन्मत्तोऽपि मन्यते ॥ २२०७ ॥
5.9.2207 · p. 362
अनुष्टुप्
ख्यातो मदोत्कटः स्याच्च मदकलोऽपि वै पुनः ।उद्वान्तो निर्मदश्चोक्तो मदशून्यगजो हि तद् ॥ २२०८ ॥
5.9.2208 · p. 362
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
कल्पितः सज्जितश्चैव युद्धाय चलिते गजे ।परिणतस्तिर्यग्घाती तिर्यक्प्रहारकर्त्तरि ॥ २२०९ ॥
5.9.2209 · p. 362
अनुष्टुप्metre not read in every line
व्याडो दुष्टगजो व्यालः उपद्रवकरे गजे ।तथा गम्भीरवेदी स्याद् चाऽवमताङ्कुशः किल ॥ २२१० ॥
5.9.2210 · p. 362
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
प्रख्यात उपवाह्यश्च राजवाह्यस्तथैव च ।औपवाह्योऽपि कथ्यते नृपस्यारोहणाय वै ॥ २२११ ॥
5.9.2211 · p. 362
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 थ्य (wrong syllable)
सन्नह्य समरोचितः सङ्ग्रामयोग्यकुञ्जरे ।ईषादन्त उदग्रदन् लम्बदन्तो गजो भवेत् ॥ २२१२ ॥
5.9.2212 · p. 362
metre not recognised
गजानां समुदाये तु हास्तिकं गजता घटा ।मदो दानं प्रवृत्तिस्तु उन्मत्तगजगण्डनम् ॥ २२१३ ॥
5.9.2213 · p. 362
अनुष्टुप्
गजशूण्डजलबिन्दौ वमथुः करशीकरः ।हस्तिनासा करो हस्तः शुण्डा च गजनासिका ॥ २२१४ ॥
5.9.2214 · p. 363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
शुण्डाग्रं पुष्करं ज्ञेयं कर्णिका तु गजाङ्गुलिः ।विषाणौ गजदन्तौ स्तां स्कन्ध आसनमुच्यते ॥ २२१५ ॥
5.9.2215 · p. 363
अनुष्टुप्
चूलिका कर्णमूलं स्याद् गजकर्णस्य मूलके ।इषाका चेषिका चाऽक्षिकूटकं नेत्रगोलके ॥ २२१६ ॥
5.9.2216 · p. 363
अनुष्टुप्
ईषिका पुनरीषीका चेति नामानि सन्ति वै ।अपाङ्गदेशो निर्याणं स्यात् गण्डस्तु कटस्तथा ॥ २२१७ ॥
5.9.2217 · p. 363
अनुष्टुप्
करटश्चेति नामापि गण्डस्थलस्य वर्तते ।अवग्रहोऽवग्राहश्च द्वयमिदं हि भालके ॥ २२१८ ॥
5.9.2218 · p. 363
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्थ (wrong syllable); pāda 4, syllable 3 मि (wrong syllable)
कुम्भयोरध आरक्षो नाम वै कथ्यते किल ।कुम्भौ तु शिरसःपिण्डौ विदुः कुम्भयोर्मध्यकम् ॥ २२१९ ॥
5.9.2219 · p. 363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 यो (wrong syllable)
तस्याधो वातकुम्भः स्यात् वाहित्थं च ततोऽप्यधः ।प्रतिमानं वाहित्थाधः पेचकः पुच्छमूलकम् ॥ २२२० ॥
5.9.2220 · p. 363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
गजस्य तु पुरोभागो दन्तभागो हि कथ्यते ।पार्श्वकः पक्षभागश्च मन्यते पण्डितैः पुनः ॥ २२२१ ॥
5.9.2221 · p. 363
अनुष्टुप्
पूर्वो जङ्घादिदेशो हि गात्रं गजस्य कथ्यते ।तस्य स्यात् पश्चिमे भागे ह्यपरा चाऽवराऽवरम् ॥ २२२२ ॥
5.9.2222 · p. 363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
गजचर्म्मणि रक्तबिन्दुः पद्मं पद्मकमुच्यते ।मातङ्गस्य पुनः प्रोक्तं चरणबन्धनमत्र ॥ २२२३ ॥
5.9.2223 · p. 363
metre not recognised
अन्दुकोऽन्दूश्च हिञ्जीरो निगडो निगलः पुनः ।प्रसिद्धः शृङ्खलश्चैव पादपाशोऽपि मन्यते ॥ २२२४ ॥
5.9.2224 · p. 364
अनुष्टुप्
गजस्य बन्धनस्थानं वारिर्वारी निगद्यते ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥ २२२५ ॥
5.9.2225 · p. 364
अनुष्टुप्
वेणुकं वैणुकं तोत्रं वेणुकस्येति नाम वै ।आलानं नाम मातङ्गबन्धस्तम्भश्च मन्यते ॥ २२२६ ॥
5.9.2226 · p. 364
अनुष्टुप्
सृणिः शृणिरङ्कुशश्च स्यादऽपष्ठं तदग्रभाक् ।अङ्कुशवारणं यातं कथ्यते पण्डितैः र्पुनः ॥ २२२७ ॥
5.9.2227 · p. 364
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 णि (wrong syllable); pāda 3, syllable 3 श (wrong syllable)
यतं नाम प्रसिद्धं स्यात् पादकर्म निषादिनाम् ।वीतं पुनस्तदेवास्ति निषादिपादचालनम् ॥ २२२८ ॥
5.9.2228 · p. 364
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
कक्ष्या दूया वरत्रा च चूष्याः स्याच्चर्मरज्जुका ।गजगले बन्धनं स्यात् कण्ठबन्धः कलापकः ॥ २२२९ ॥
5.9.2229 · p. 364
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
* अश्वनामानि *
अश्वः सप्तिर्हयो ह्रेषी हरिर्वहिश्च हंस इति ।अर्वा वाजी तथा किण्वी क्रमणः सिंहविक्रमः ॥ २२३० ॥
5.9.2230 · p. 364
अनुष्टुप्metre not read in every line
केशरी केसरी कुण्डी कुटरः पालकः पुनः ।घोटकस्तुरगस्तार्क्ष्यस्तुरङ्गश्च तुरङ्गमः ॥ २२३१ ॥
5.9.2231 · p. 364
अनुष्टुप्
गन्धर्वश्चामरी प्रोथी माषाशी च मरुद्रथः ।मुद्गभुग्मुद्गभुज् चैव मुहुर्भुग्गूढभोजनः ॥ २२३२ ॥
5.9.2232 · p. 364
अनुष्टुप्
परुलः शालिहोत्रश्च लक्ष्मीपुत्रः प्रकीर्णकः ।एकशफस्तथा वासुदेवश्च ग्रहभोजनः ॥ २२३३ ॥
5.9.2233 · p. 365
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
* अश्वानामानि *
* अश्वभेदानां नामानि *
अल्पावस्थः किशोरः स्याज्जवनः स जवाधिकः ।रथवोढा स रथ्यः स्यादाऽऽजानेयः कुलीन इति ॥ २२३५ ॥
5.9.2235 · p. 365
अनुष्टुप्
सैन्धवाः सिन्धुदेशीयास्तथान्ये देशदेशजाः ।वानायुजाः पारसीकाः काम्बोजाश्च वाह्लिकाः ॥ २२३६ ॥
5.9.2236 · p. 365
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (syllables merged)
बाह्नीका अपि तद्भेदाः तुषाराः सन्ति तद्भिदाः ।साधुवाही विनीतः स्याद् दुर्विनीतस्तु शूकलः ॥ २२३७ ॥
5.9.2237 · p. 365
अनुष्टुप्
कश्यो नामा कशार्हः स्यात् पुनः श्रीवृक्षकी हयः ।हृद्वक्त्रावर्त्ती चापि कथ्यते कोविदैः किल ॥ २२३८ ॥
5.9.2238 · p. 365
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (syllables merged)
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ।पुच्छोरःखुरकेशास्यैः सितैः ख्यातोऽष्टमङ्गलः ॥ २२३९ ॥
5.9.2239 · p. 365
अनुष्टुप्
श्वेताश्वे कर्ककोकाहौ खोङ्गाहः श्वेतपिङ्गले ।सुधावर्णे च सेराहः स्यात् पीते हरियो हये ॥ २२४० ॥
5.9.2240 · p. 365
अनुष्टुप्
खुङ्गाहः कृष्णवर्णे स्यात् क्रियाहो लोहिताश्वके ।पुनश्च नीलको नामाऽऽनीलाश्वे मन्यते बुधैः ॥ २२४१ ॥
5.9.2241 · p. 366
अनुष्टुप्
कपिलवर्णे त्रियूहोऽश्वः कथ्यते कोवदैः खलु ।वोल्लाहस्त्वयमेवास्ति पाण्डुकेशरवालधिः ॥ २२४२ ॥
5.9.2242 · p. 366
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उराहोऽश्वो मनाक्पाण्डुः कृष्णजङ्घो भवेद्यदि ।पुनः सुरूहकः कोऽपि गर्दभाभो हि मन्यते ॥ २२४३ ॥
5.9.2243 · p. 366
अनुष्टुप्
पाटलो वोरुखानः स्यात् कृष्णस्तु यदि जानुनि ।मनाक्पीतः कुलाहाख्यः कथ्यते पण्डितैः किल ॥ २२४४ ॥
5.9.2244 · p. 366
अनुष्टुप्
उकनाहाभिधः पीतरक्तच्छायः स एव हि ।कृष्णरक्तच्छविः प्रोक्तः क्वचिदिति बुधैरिह ॥ २२४५ ॥
5.9.2245 · p. 366
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 चि (wrong syllable)
कोकनदच्छविः शोणः स्याद्धरिकश्च हालकः ।पीतहरितच्छायो वै कथ्यते पण्डितैरिह ॥ २२४६ ॥
5.9.2246 · p. 366
metre not recognised
पङ्गुलः श्वेतकाचाभो हलाहश्चित्रितो हरिः ।श्वेतनयनवानश्वो मल्लिकाक्षः प्रकथ्यते ॥ २२४७ ॥
5.9.2247 · p. 366
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
इन्द्रायुधो भवेन्नाम श्यामनेत्रवतः किल ।ककुदी ककुदावर्तो विशिष्टावर्त्तवान् हयः ॥ २२४८ ॥
5.9.2248 · p. 366
अनुष्टुप्
इन्द्रवृद्धिके नामास्ति निर्मुष्को घोटकः पुनः ।अश्वमेधयज्ञस्याश्वोऽश्वमेधीयस्तथा ययुः ॥ २२४९ ॥
5.9.2249 · p. 366
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable); pāda 3, syllable 5 य (wrong syllable)
अश्वस्य नासिका प्रोथं कश्यं तु मध्यभागकम् ।गलोद्देशो निगालः स्यात् खुराः शफाः भवन्ति वै ॥ २२५० ॥
5.9.2250 · p. 367
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable); pāda 4, syllable 3 श (wrong syllable)
अथ पुच्छं च लाङ्गूलं लाङ्गुलं लूम वालधिः ।वालहस्तश्चेति नामानि पुच्छस्य संभवन्ति वै ॥ २२५१ ॥
5.9.2251 · p. 367
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अपावृत्तं परावृत्तं लुठितं वेल्लितं पुनः ।भूमावलोटनं तस्य श्रमो येन विनश्यति ॥ २२५२ ॥
5.9.2252 · p. 367
अनुष्टुप्
धोरितं वल्गितं प्लुतोत्तेजितोत्तेरितानि च ।गतयः पञ्च धाराख्याः घोटकानां क्रमादिमाः ॥ २२५३ ॥
5.9.2253 · p. 367
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्लु (wrong syllable)
गमनं नकुलस्येव धौरितकं निगद्यते ।कङ्कस्येव गमनं धौर्यं भवति ज्ञायताम् ॥ २२५४ ॥
5.9.2254 · p. 367
metre not recognised
गमनं मयूरस्येव धोरणं नाम जायते ।गमनं डुक्करस्येव धोरितं च निगद्यते ॥ २२५५ ॥
5.9.2255 · p. 367
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यू (wrong syllable)
पुनश्च वल्गितं नाम कथ्यते ह्यत्र कोविदैः ।अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम् ॥ २२५६ ॥
5.9.2256 · p. 367
अनुष्टुप्
पक्षिमृगसमं यानं प्लुतं भवति लङ्घनम् ।उत्तेजितं रेचितं च मध्यवेगेन या गतिः ॥ २२५७ ॥
5.9.2257 · p. 367
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 मृ (wrong syllable)
उत्तेरितमुपकण्ठं तथाऽऽस्कन्दितकं खलु ।उत्प्लुत्योत्प्लुत्य गमनं क्रोधादिवाखिलैः पदैः ॥ २२५८ ॥
5.9.2258 · p. 367
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
* खलिननामानि *
मुखयन्त्रणं पञ्चाङ्गी नामानि सप्त सन्ति वै ।मुखबन्धाश्रितं चर्म तलिका तलसारकम् ॥ २२६० ॥
5.9.2260 · p. 368
अनुष्टुप्metre not read in every line
दामाञ्चनं पादपाशः पदबन्धनरज्जुषु ।प्रक्षरं प्रखरः स्याच्च कवचं घोटकस्य वै ॥ २२६१ ॥
5.9.2261 · p. 368
अनुष्टुप्
चर्मदण्डः कशा चैव ताडनायास्य जायते ।वल्गो वल्गा कुशा वागा रश्मिस्तथाऽवक्षेपणी ॥ २२६२ ॥
5.9.2262 · p. 368
अनुष्टुप्metre not read in every line
पल्ययनं च पर्याणं पर्याणस्याऽस्ति नाम वै ।वीतं नाम पुनः प्रोक्तं तच्च फल्गु हयद्विपम् ॥ २२६३ ॥
5.9.2263 · p. 368
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
* अश्वभेद[खच्चर]नामानि *
वेसरोऽश्वतरो वेगसरोऽश्वस्य भिदा भवेत् ।
5.9.70 · p. 368
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
* उष्ट्रनामानि *
उष्ट्रो मयो महाङ्गश्व खप्पः कण्टकाशनः ॥ २२६४ ॥
5.9.2264 · p. 368
अनुष्टुप्metre not read in every line
कुलनाशः शलः भोलिः कुलनाशः क्रमेलकः ।द्विककुद्दीर्घग्रीवश्व दाशेरो दुर्गलङ्घनः ॥ २२६५ ॥
5.9.2265 · p. 368
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्घ (wrong syllable)
वासन्तः शिशुनामा च मर्यो मरुप्रियः पुनः ।भूतघ्नश्चेति नामानि मन्यन्ते रवणस्य वै ॥ २२६६ ॥
5.9.2266 · p. 368
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
करभाख्यस्त्रिहायणो बाल उस्ट्र इहोच्यते ।स तु शृङ्खलकः काष्ठमयैः स्यात् पादबन्धनैः ॥ २२६७ ॥
5.9.2267 · p. 369
अनुष्टुप्metre not read in every lineimpossible sibilant cluster: उस्ट्रnearly अनुष्टुप्: pāda 1, syllable 7 य (wrong syllable)
* गर्दभनामानि *
गर्दभो रासभश्चैव वालेयश्च खरः पुनः ।चक्रीवान् चिरमेही च शङ्कुकर्णोऽपि कथ्यते ॥ २२६८ ॥
5.9.2268 · p. 369
अनुष्टुप्
* वृषभनामानि *
ऋषभो वृषभोऽनड्वान् भद्रो बलीवर्दो वृषः ।शक्करः शाक्वर उक्षा सौरभेयश्च शाङ्करः ॥ २२६९ ॥
5.9.2269 · p. 369
metre not recognised
ककुद्मान् वाडवेयो गौश्चेति नामानि सन्ति वै ।उक्षा यस्य समुत्पन्नः स जातोक्षो युवा वृषः ॥ २२७० ॥
5.9.2270 · p. 369
अनुष्टुप्
शकटौ वाहने योग्यः स्कन्धिकः स्कन्धवाहकः ।उक्षतरो महोक्षः स्याद् वृद्धोक्षस्तु जरद्गवः ॥ २२७१ ॥
5.9.2271 · p. 369
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
आर्षभ्यः षण्ढतोचितः कूटो भग्नविषाणकः ।
5.9.79 · p. 369
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 चि (wrong syllable)
* षण्डनामानि *
शण्डः षण्डस्तथा सण्डो गोवृषो गोपतिः पुनः ॥ २२७२ ॥
5.9.2272 · p. 369
अनुष्टुप्metre not read in every line
इट्चर इत्वरश्चैव प्रसिद्धो मदकोहलः ।एतन्नामानि मन्यन्ते षण्डस्य पण्डितैः किल ॥ २२७३ ॥
5.9.2273 · p. 369
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 स्य (wrong syllable)
* वत्सनामानि *
तर्णः शकृत्करिश्चैव ख्यातो वत्सः पुनर्भुवि ।वत्सतरस्तु दम्यो वै महावत्सो निगद्यते ॥ २२७४ ॥
5.9.2274 · p. 370
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
* वृषभभेदनामानि *
नस्योतो नस्तितश्चैव नस्तोतः कथ्यते पुन ।प्रष्ठवाट् हलवोढा स्यात् षष्ठवाट् युगपार्श्वगः ॥ २२७५ ॥
5.9.2275 · p. 370
अनुष्टुप्
वोढारः स्युर्युगादीनां प्रासङ्ग्ययुग्यशाकटाः ।स च सर्वधुरीणो वै सर्वां वहति यो धुरम् ॥ २२७६ ॥
5.9.2276 · p. 370
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग्य (wrong syllable)
एकधुरीणैकधुरावुभावेकधुरावहे ।धुरन्धरो धुरीणः स्याद् धुर्यो धौरेयकः पुनः ॥ २२७७ ॥
5.9.2277 · p. 370
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable)
धौरेयो धूर्वहश्चेति नामानि कथयन्ति वै ।गलिर्दुष्टवृषश्चैव प्रोक्तः शक्तोऽप्यधूर्वहः ॥ २२७८ ॥
5.9.2278 · p. 370
अनुष्टुप्
पृष्ठवाह्यस्तथा पृष्ठ्यः स्थौरी नामापि मन्यते ।द्विदन् षोडन् द्विषड्दन्तौ वहः स्कन्धोऽस्य बन्धनम् ॥ २२७९ ॥
5.9.2279 · p. 370
अनुष्टुप्
ककुत् चांऽशकूटं स्यात् ककुदं कुकुदं पुनः ।नैचिकं नैचिकी तस्य शिरो लोकेषु कथ्यते ॥ २२८० ॥
5.9.2280 · p. 370
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विषाणं कूणिका शृङ्गं प्रोक्तं वृषस्य शृङ्गकम् ।गलभागोऽस्य सास्ना कथ्यते गलकम्बलः ॥ २२८१ ॥
5.9.2281 · p. 370
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 वृ (wrong syllable)
* गोनामानि *
अर्जुनी रोहिणी गौश्च शृङ्गिणी सुरभिस्तथा ।उस्राऽघ्न्या सौरभेया च तम्बा तम्पा निलिम्पिका ॥ २२८२ ॥
5.9.2282 · p. 371
अनुष्टुप्
अनड्वाही च माहेयी माहा चाऽनडुही पुनः ।उषा माता सप्तदशनामानि प्रथितानि वै ॥ २२८३ ॥
5.9.2283 · p. 371
अनुष्टुप्
* गोभेदनामानि *
कृष्णा च धवला चैव शबला शबली तथा ।प्रष्ठौही स्याच्च पष्ठौही गर्भिणी बालगर्भिणी ॥ २२८४ ॥
5.9.2284 · p. 371
अनुष्टुप्
वन्ध्या वशा च सा गौः स्यात् या न गर्भं दधाति वै ।वेहद्वृषोपगा याति गर्भं धारयितुं वृषम् ॥ २२८५ ॥
5.9.2285 · p. 371
अनुष्टुप्
अवतोका स्रवद्गर्भा वतोका गर्भनाशिनी ।सन्धिनी च वृषाक्रान्ता शण्डसंयोगकारिणी ॥ २२८६ ॥
5.9.2286 · p. 371
अनुष्टुप्
प्रौढवत्सा तथा बष्कयिणी बष्कयणी पुनः ।ख्याता चिरप्रसूता सा धेनुभेदा स्मृता भुवि ॥ २२८७ ॥
5.9.2287 · p. 371
अनुष्टुप्
नवसूतिका तथा धेनुर्दुग्धं यच्छति या बहु ।बहुसूतिः परेष्टुः स्याद् गृष्टिः सकृत् प्रसूतिका ॥ २२८८ ॥
5.9.2288 · p. 371
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 स (wrong syllable)
उपसर्या च काल्यापि प्रजने कथ्यते बुधैः ।सुव्रता सुखदोह्या च या दुह्यते सुखेन सा ॥ २२८९ ॥
5.9.2289 · p. 371
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह्य (wrong syllable)
करटा दुःखदोह्या सा दुःखेन दुह्यते सदा ।वञ्जुला बहुदुग्धा सा या बहुदुग्धप्रदा भवेत् ॥ २२९० ॥
5.9.2290 · p. 372
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 4, syllable 2 बहु (syllable split)
द्रोणक्षीरा तथा द्रोणदुग्धा द्रोणदुघा भवेत् ।पीवरस्तनी पीनोध्नी कथ्यते पण्डितैः पुनः ॥ २२९१ ॥
5.9.2291 · p. 372
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
धेनुष्या पीतदुग्धा च संस्थिता दुग्धबन्धके ।नैचिकी स्यादुत्तमा गौः मलिनी बालगर्भिणी ॥ २२९२ ॥
5.9.2292 · p. 372
अनुष्टुप्
पलिक्नी मन्यते सैव बालगर्भवती च या ।समांसमीना गौः स्याद्या प्रतिवर्षं प्रसूयते ॥ २२९३ ॥
5.9.2293 · p. 372
अनुष्टुप्
सुकराऽकोपनाऽचण्डी गौः स्याच्छान्तस्वभाविका ।वत्सला वत्सकामा स्याद् या वत्सं बहु सेवते ॥ २२९४ ॥
5.9.2294 · p. 372
अनुष्टुप्
चतुर्वर्षा तथा चतुर्हायणी कथ्यते पुनः ।त्रिहायणी त्रिवर्षा च स्याद्द्विवर्षा द्विहायनी ॥ २२९५ ॥
5.9.2295 · p. 372
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 च (wrong syllable)
एकवर्षाभिधा एकहायनी कापि गौर्भवेत् ।आपीनमूधो दुग्धधारकमङ्गमुच्यते ॥ २२९६ ॥
5.9.2296 · p. 372
अनुष्टुप्metre not read in every line
* गोमयनाम *
गोविट् गोमयमाख्यातं पवित्रं भूमिलेपनम् ।गोग्रन्थिः छगणं चैव करीषं शुष्कगोमयम् ॥ २२९७ ॥
5.9.2297 · p. 372
अनुष्टुप्
गव्यं स्याद्वै गवां सर्वं दुग्धं दधि घृतादिकम् ।व्रजो भवति गोस्थानं गोकुलं गोधनं धनम् ॥ २२९८ ॥
5.9.2298 · p. 372
अनुष्टुप्
प्रजनः स्यादुपसरो गर्भं गृह्ह्लाति सा यदा ।शिवः पुष्पलकः कीलः शङ्कुर्गोबन्धनाय यः ॥ २२९९ ॥
5.9.2299 · p. 373
अनुष्टुप्
गोबन्धनाय रज्जुः स्यात् संदानं दान बन्धनम् ।दामनी पशुरज्जुश्च यत्राऽनेकस्य बन्धनम् ॥ २३०० ॥
5.9.2300 · p. 373
अनुष्टुप्
* अजनामानि *
अजो बस्तः छगः छागः छगलश्च स्तभः स्तुभः ।तुभः शुभः पशुर्वस्तश्चेति नामानि सन्ति वै ॥ २३०१ ॥
5.9.2301 · p. 373
अनुष्टुप्
* अजानामानि *
अजा मञ्जा तथा छागी छागिका च गलस्तनी ।सर्वभक्षा च नामानि मञ्जायाः कथयन्ति वै ॥ २३०२ ॥
5.9.2302 · p. 373
अनुष्टुप्
बर्करो वर्करो यूनो मञ्जस्य नाम कथ्यते ।
5.9.111 · p. 373
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
* मेषनामानि *
मेण्ढश्च मेण्ढको मेषः संफालः शृङ्गिलः पुनः ॥ २३०३ ॥
5.9.2303 · p. 373
अनुष्टुप्metre not read in every line
उरभ्र उरणो वृष्णिः ऊर्णायुश्च हुडो हुडुः ।एडको रोमशो भेडोऽविश्च नामानि सन्ति वै ॥ २३०४ ॥
5.9.2304 · p. 373
अनुष्टुप्
* मेषीनामानि *
मेषी स्यात् कुररी वेणी जालकिनी रुजाऽविला ।
5.9.114 · p. 373
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कि (wrong syllable)
* वनबर्करनामानि *
पृष्ठशृङ्गस्त्विडिक्कश्च वनाजः शिशुवाहकः ॥ २३०५ ॥
5.9.2305 · p. 374
अनुष्टुप्metre not read in every line
अविदुग्धमविसोढमविदूसं तथैव हि ।पुनश्चाविमरीसं स्यान् मेषीदुग्धस्य नाम वै ॥ २३०६ ॥
5.9.2306 · p. 374
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
* श्वाननामानि *
श्वा श्वानः सारमेयश्च स्वजातिद्विट् शुनः शुनिः ।रतशायी रसापायी रसनालिट् रतान्दुकः ॥ २३०७ ॥
5.9.2307 · p. 374
अनुष्टुप्
कुकुरः कुर्करः क्रोधी कौलेयकश्च कुक्कुरः ।शालावृकः कृतज्ञश्च कपिलो वक्रवालधिः ॥ २३०८ ॥
5.9.2308 · p. 374
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
इन्द्रमहश्चन्द्रमहस्तथेन्द्रमहकामुकः ।वनंतपः पुरोगामी मृगदंशश्च मण्डलः ॥ २३०९ ॥
5.9.2309 · p. 374
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न्द्र (wrong syllable)
अस्थिभुक् भल्लहश्चैव भषको भषणो रुरुः ।शिवारिः सूचकः रात्रिजागरश्च रतव्रणः ॥ २३१० ॥
5.9.2310 · p. 374
अनुष्टुप्