कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पञ्चभद्र

pañcabhadraपुं · masc.

In 10 kośas: 15 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.435 · p. 21
कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः ।कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः ॥ ४३४ ॥व्यसनी हर्षमाणस्तु प्रमना हृष्टमानसः ।विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः ॥ ४३५ ॥
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1236 · p. 48
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ १२३६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.201 · p. 111
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ।पुच्छोरःखुरपुच्छास्यैः सितैः स्यादष्टमङ्गलः ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.99 · p. 213
उपप्लुतस्तु व्यसनी पञ्चभद्रोप्यवप्लुतः ।धूर्तोक्षदेवी कितवो द्यूतकृत् कृष्णकोहलः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.39 · p. 218
मत्ते शौण्डोत्कटक्षीबाः पञ्चभद्रः परिप्लुते ।व्यसनी निर्लक्षणस्तु पाण्डुरपृष्ठ इत्यपि ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 255
मस्तकत्रिकवालेषु भिन्नवर्णो हयो ध्वजी ।पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.63 · p. 7
आद्यूनः स्यादौदरिक उदरे प्रसितो हि यः ।भवन्ति पात्रेसमिताः भोक्तुमेव क्षमा हि ये ॥उदुम्बरकृमिः स स्याद्य उदुम्बरजन्तुवत् ।कामुकः कमिता कम्रोऽनुकः कामयिताभिकः ॥कामनः कमनः कामी कमराभीक-रामिलाः ।हर्षुलः पञ्चभद्रस्तु व्यसनी विप्लुतोऽपि सः ॥ ६३ ॥
अनुष्टुप्
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.179 · p. 30
मल्लिकाक्षः सितैर्नेत्रैर्विष्णोरिन्द्रायुधो हयः ।पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.96 · p. 113
कम्रोऽभिकः कामयिता कमितानुक इत्यपि ।व्यसनी विप्लुतः पञ्चभद्रो हृष्टमना अथ ॥ ९६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.658 · p. 87
विप्लुतः पञ्चभद्रश्च व्यसनी कथितं पुनः ॥ ६५८ ॥
अनुष्टुप्metre not read in every line
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2239 · p. 365
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ।पुच्छोरःखुरकेशास्यैः सितैः ख्यातोऽष्टमङ्गलः ॥ २२३९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.253 · p. 128
पञ्चभद्रस्तु पञ्चाङ्गपुष्पिते स्यात्तुरङ्गमे ।अथ सूर्यतुरङ्गेषु वाताटा हरितोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.725 · p. 93
मल्लिकाक्षः सितेनाक्ष्णा कृष्णेनेन्द्रायुधाह्वयः ।पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ ७२५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.42 · p. 67
वातायनश्चैकशफो यस्ग्तु पचाङ्गपुष्पितः ।स पञ्चभद्रः सूर्याश्वे वाताटहरितौ समौ ॥ ४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.93 · p. 111
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ।पुच्छोरःखुरकोशास्यैः सितैः स्यादष्टमंगलः ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.