कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · कान्ताः (2/2)

सूचिकायां तूलिकायां कुड्मले क्षीरनिर्मितौ ।कूर्चिकाररयन्त्रेऽपि मातृका वर्णसंहतौ ॥ २१ ॥
6.1.21 · p. 152
अनुष्टुप्
मातृकाकरणे धात्रीमात्रोश्च परमात्मनि ।यावतूलिकपाञ्चालीकन्यकास्वपि पुत्रिका ॥ २२ ॥
6.1.22 · p. 152
अनुष्टुप्
धूर्ताद्रिद्रुप्रभेदेषु शरभे च नृलिङ्गका ।स्यमिका स्यान्नीलिकायां नाकुपादपयोर्नरि ॥ २३ ॥
6.1.23 · p. 152
अनुष्टुप्
उष्ट्रिका तु मृदमत्रविशेषे-ऽप्युष्ट्रयोषिति जलस्य तु बिम्बे ।मोणकं स्मरनिपीडितनार्यांडिम्बिका निगदिता मतिमद्भिः ॥ २४ ॥
6.1.24 · p. 152
स्वागता
दूषिकाक्षिमलतूलयोर्मता-थोर्मिका वसनभङ्गभङ्गयोः ।अङ्गुलीयकमधुव्रतगुञ्जो-द्वाहुलेष्वपि मता विचक्षणैः ॥ २५ ॥
6.1.25 · p. 153
रथोद्धताmetre not read in every line
भवे[257a]द्बलाका विसकण्ठिकायांसकामनार्यां बकसंहतौ च ।बके पुमान्स्यादथ वैजयन्त्यांसौभाग्यनाट्याङ्गकयोः पताका ॥ २६ ॥
6.1.26 · p. 153
उपजातिःmetre not read in every line
शल्ये शलाका स्मरसारिकायांशरे तथाक्षे खेचर?पञ्जरे च ।स्यान्नर्तकीभ्यामपि लासिकायांना चारणे पोटगले नटे च ॥ २६ ॥
6.1.26 · p. 153
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 श (wrong syllable)

चतुष्काः ।

अलमकोऽम्बुजकेसरभेकयो-र्गदविशेषमधूकपिकेषु च ।अलिपको भ्रमरेऽपि च कोकिलेमरुबकः सुमनोभिदि गालके(वे?) ॥ २७ ॥
6.1.27 · p. 153
द्रुतविलम्बितम्
अरुणसैर्यककचोरयोः पुनःकुरबको दनुजेऽपि बलाहकः ।जलदरोगभिदोर्भ्रमरे पुन-र्भ्रमरको गिरिकेऽलिककुन्तले ॥ २८ ॥
6.1.28 · p. 153
द्रुतविलम्बितम्metre not read in every line
अतनुरज्जुसरोरुहकोषयो-रपि कपर्दकनाम्नि वराटकः ।क्षपणकीलकगन्धमृगार्थकोभवति पुष्कलको विपुलेऽन्यवत् ॥ २९ ॥
6.1.29 · p. 153
द्रुतविलम्बितम्
शृङ्गाटकं वारिजकन्दभेदेचतुष्पथे गोक्षुरके पुनः स्यात् ।गोकण्टकः स्यात्स्थपुटे ग[257b]वां चशफेऽथ मोहोत्कलिकातमःसु ॥ ३० ॥
6.1.30 · p. 154
उपजातिःmetre not read in every line
आकल्पकः स्यान्मुदि चाथ वृन्दा-रकः सुरे सुन्दरमान्ययोश्च ।आक्षेपको निन्दकवातरोग-व्याधेष्वथो कापटिकश्च शिष्ये ॥ ३१ ॥
6.1.31 · p. 154
उपजातिः
परस्य मर्माण्यभिगन्तरि स्या-द्भट्टारको राज्ञि सुरे मुनौ च ।दलाढकः कुञ्जरकर्णकुन्द-चाम्पेयफेनातिमहत्तरेषु ॥ ३२ ॥
6.1.32 · p. 154
उपजातिः
शिरीषवातावलिगैरिकेषुस्यात्प्रश्निकायां स्वभवे तिले च ।निश्चारकः स्वैरसमीरणौ स्यात्क्षये पुरीषस्य तथा प्रदिष्टः ॥ ३३ ॥
6.1.33 · p. 154
उपजातिः
नियामको नाविकपोतवाह-नियन्तृषु स्यात्करभे च दाशे ।दासेरकः स्यात्तनये च दास्याविनायकः स्याद्गुरुतार्क्ष्ययोश्च ॥ ३४ ॥
6.1.34 · p. 154
उपजातिः
अङ्गारको मङ्गल उल्मुकांशःस्त्रियां पलाशस्य च कोरके स्यात् ।स्यात्पूर्णपात्रे पटहे च पूर्णा-नकं प्रमोदाद्वसनग्रहे च ॥ ३५ ॥
6.1.35 · p. 154
उपजातिः
प्रकीर्णकं चामरविस्तराश्व-ग्रन्थप्रभेदेष्वथ चुल्लिकायाम् ।अश्मन्तकं काकुद[258a]संवृतौ चकोशातकी-घोष-पटोलिकासु ॥ ३६ ॥
6.1.36 · p. 154
उपजातिःmetre not read in every line
ज्योत्स्ना नरि त्वापणिके कचे स्या-न्निर्ग्रन्थकस्तु क्षपणे दरिद्रे ।पुनर्नवायां तु कटिल्लकः स्या-त्स्यात्कारवेल्ले च कुठेरके च ॥ ३७ ॥
6.1.37 · p. 155
उपजातिः
गोमेदकं पत्रकपीतरत्न-काकोलकेष्वन्तिमलिङ्गमाहुः ।आतर्पणे चित्तगदे च मण्डो-दकं बुधास्तद्वदुदाहरन्ति ॥ ३८ ॥
6.1.38 · p. 155
उपजातिः
वृद्धे शतानीक ऋषेश्च भेदेऽ-थ ग्रामणीभण्डशरोपधाने ।खरालिकः कौक्कुटिकस्त्वदूरे-रितेक्षणे दाम्भिक ईरितोऽत्र ॥ ३९ ॥
6.1.39 · p. 155
उपजातिः
लेखीलकस्त्वन्यकरेण लेखेविलेखयेदात्मकरं तथा यः ।स्याल्लेखहारे मुकुरे तु बिम्बेकुष्ठान्तरे मण्डलकं वदन्ति ॥ ४० ॥
6.1.40 · p. 155
उपजातिः
पिप्पलकं स्तनवृन्तेसीवनसूत्रे समुद्दिष्टम् ।शालावृकः शृगालेवान्तादे वानरे कथितः ॥ ४१ ॥
6.1.41 · p. 155
metre not recognised
पिण्डीतकः फणिज्जेराठतरौ स्यात्तथा तगरे ।त्रिफलात्र्यूषणगोक्षुर-पर्यायस्था त्रिवर्णकं तद्वत् ॥ ४२ ॥
6.1.42 · p. 155
metre not recognised
कौलेयकः कुलाग्र्येशुनके क्लीबं प[258b]रीवादे ।दिग्गजभेदे पुंसि तुपरवत्स्वङ्गे च सुप्रतीकः स्यात् ॥ ४३ ॥
6.1.43 · p. 156
metre not recognised
जैवातृको नरीन्दौपरवज्जायौ कृशे चिरायुषि च ।दिवसे रतर्द्धिकं स्या-त्सुखतः स्नानेऽष्टमङ्गले चान्त्ये ॥ ४४ ॥
6.1.44 · p. 156
metre not recognised
परतन्त्रे च क्षणिकेवैनाशिक ऊर्णनाभे च ।वैदेहक आपणिकेवैश्यायां शूद्रपुत्रे च ॥ ४५ ॥
6.1.45 · p. 156
metre not recognised
धान्याकतामलक्यो-र्वितुन्नकं केकराक्षे तु ।गोकुणिकः पङ्कगतेगव्यथ भार्याटको गदितः ॥ ४६ ॥
6.1.46 · p. 156
metre not recognised
मृगभित्स्त्रीजितयोः स्यात्वरण्डकस्त्वन्तरावेद्याम् ।वदनपिटिका सुप्तनां(?)वनगे शैलाटकः परवत् ॥ ४७ ॥
6.1.47 · p. 156
metre not recognised
लालाटिकः स्यात्प्रभुभावदर्शि-न्याश्लेषभेदेऽप्यलसेंऽसदुःखे ।कर्कोटकः सर्पविशेषबिल्वे-ऽथाखौ किरौ चाखनिकश्च चौरे ॥ ४८ ॥
6.1.48 · p. 156
इन्द्रवज्रा
वैतालिको बोधकरे च ताल-भेदेऽथ पाशिन्यपि तिक्तशाकः ।आघाटके पुंसि मयूरकः स्या-त्तुत्थे पुनः क्लीबमुदाहरन्ति ॥ ४९ ॥
6.1.49 · p. 156
इन्द्रवज्रा
[259a]विशेषकः स्यात्तिलके विशेषेश्लोकैस्त्रिभिर्वृत्तसमन्वये च ।विदूषकश्चाटुवटौ परस्यनिन्दाकरे सैकतिकं पुनः स्यात् ॥ ५० ॥
6.1.50 · p. 157
उपजातिः
मङ्गल्यसूत्रेऽपि च मातृयात्रा-संन्यस्तसंदेहशरीरिषु स्यात् ।स्यादेडमूकः श्रुतिवाग्विहीने-ऽधीरेऽथ रक्षस्यपि दन्दशूकः ॥ ५२ ॥
6.1.52 · p. 157
इन्द्रवज्रा
नदीप्रभेदेऽपि च वर्तरूकंस्यात्काकनीडे च जलावटे च ।दम्भे पुनः स्त्रीजितनिःस्वयोश्च ।स्यात्काकरूकश्चकिते च भीरौ ॥ ५२ ॥
6.1.52 · p. 157
उपजातिः
मृष्टेरुको दातरि मृष्टभोजि-न्यात्मंभरौ चाथ शिखावलेऽपि ।तथा शयाने कृकवाकुरुक्तो-ऽथेन्द्रे घनग्रावणि राधरङ्कुः ॥ ५३ ॥
6.1.53 · p. 157
उपजातिः
सौगन्धिकं कत्तृणपद्मरागेकल्हारगन्धोपलवाचि षण्ढे ।ना गन्धिकेऽथो कलविङ्क उक्तःकलिङ्गके स्याच्चटके गृहोत्थे ॥ ५४ ॥
6.1.54 · p. 157
उपजातिः
स्यात्सोमवल्कः खदिरे सितेऽपिप्रकीर्यके कट्फलकेऽपि तद्वत् ।श्वेतातपत्रे सितवारि[259b]जे चतथौषधेऽन्त्ये किल पुण्डरीकम् ॥ ५५ ॥
6.1.55 · p. 157
उपजातिःmetre not read in every line
ना कोशकारेऽग्निहरिद्गजे चव्याघ्रेऽथ जीर्णे त्रिषु जर्जरीकः ।क्लीबे पुनः स्याद्बहुरन्ध्रकेऽथोवक्रे कचे स्यादपि बर्बरीकः ॥ ५६ ॥
6.1.56 · p. 157
इन्द्रवज्रा
शाके महाकालगणेऽप्यथान्त्येस्यात्तर्तरीकं च वहित्रवाचि ।पारीणवाची तु विशेष्यवत्स्या-त्सूर्ये सुधावाच्यपि पर्परीकः ॥ ५७ ॥
6.1.57 · p. 158
इन्द्रवज्रा
स्यात्पर्फरीकं किसले मृदुत्वेतथा भवेदुत्कलिकाम्बुवीचौ ।हेलाशृगालीगिरिकन्यकासुचण्डालिका त्वौषधिभिद्युमायाम् ॥ ५८ ॥
6.1.58 · p. 158
उपजातिः
पाञ्चालिका रीतिविशेषकेऽपिस्याद्याज्ञसेन्यां च कनीनिका तु ।कनिष्ठिकालोचनतारयोः स्या-ल्लूतादिजाले त्वपि दुग्धसारे ॥ ५९ ॥
6.1.59 · p. 158
उपजातिः
संतानिका स्यादथ लोहयन्त्रेसंदंशिका संकथिता मुचुट्याम् ।संघाटिका नर्कुटयुग्मयोश्चदूत्यां पयःकन्दभिदि प्रदिष्टा ॥ ६० ॥
6.1.60 · p. 158
इन्द्रवज्रा
जीवन्तिका गुडूची-वन्दाजीवाख्यशाकेषु ।स्याद्वृह[260a]तिका च भिक्षौवसन[वि]भेदे बुधैः कथिता ॥ ६१ ॥
6.1.61 · p. 158
metre not recognised
वातावर्जितशाखा-बलाकयोः स्याद्बकेरुका भृष्टधान्ये तु ।वाद्ये तस्य च दण्डेघर्घरिका क्षुद्रघण्टायाम् ॥ ६२ ॥
6.1.62 · p. 158
metre not recognised

पञ्चकाः ।

आच्छुरितकं तु हासेभवति नखाघातभेदे च ।गोजागरिकं मङ्गल-कन्दुकृतोश्चक्षते निपुणाः ॥ ६३ ॥
6.1.63 · p. 158
metre not recognised
कृमिकण्टकं तु चित्रा-कृमिफलकृमिहारिषु प्रोक्तम् ।वासन्त्यां काममहेसुवसन्तक उच्यते पुंसि ॥ ६४ ॥
6.1.64 · p. 159
metre not recognised
कक्षावेक्षक उक्तःशुद्धान्तोद्यानपालार्थः ।रङ्गाजीवे च कवौषिङ्गे स्याद्द्वारपालके तद्वत् ॥ ६५ ॥
6.1.65 · p. 159
metre not recognised
स्याच्चित्रमेखलायांगरुडे माणिक्यराजे च ।क्षितिपालपीलुपालेकथितो ज्ञैर्नागवारिकः पुंसि ॥ ६६ ॥
6.1.66 · p. 159
metre not recognised
दीपके भवति शीतचम्पक-स्तर्पणेऽप्यथ च कामलार्थके ।व्रीहिराजिक इति प्रदिश्यते ।चीनधान्यविषये च कोविदैः ॥ ६७ ॥
6.1.67 · p. 159
रथोद्धता
मेघे तु जलकरङ्कःफले तथा नालिकेरस्य ।जलनाय[260b]कस्तु शङ्खेसलिललतायां तथा वरुणे ॥ ६८ ॥
6.1.68 · p. 159
metre not recognised
काकाचीराजशफल-मन्यभिदोः काचकुम्भे च ।कटखादको भरे स्या-ज्जम्बुकवान्तादयोस्तद्वत् ॥ ६९ ॥
6.1.69 · p. 159
metre not recognised
चिलमीलिका तु कण्ठी-भेदे खद्योतविद्युत्सु ।नवकलिका तु नवायांकलिकायां नूतनार्तवायां च ॥ ७० ॥
6.1.70 · p. 159
metre not recognised
शतपर्विका तु दूर्वा-वचयोर्भेदे तु पिष्टे स्यात् ।उपकर्त्र्यां राजगृहेविबुधैरुपकारिका कथिता ॥ ७१ ॥
6.1.71 · p. 160
metre not recognised
व्यवहारिका तु लोक-व्यवहारे शोधनीङ्गुदयोः ।स्याद्धेमपुष्पको नाचम्पकनाम्नि स्त्रियां यूथ्याम् ॥ ७२ ॥
6.1.72 · p. 160
metre not recognised

षट्काः ।

लूतामर्कटकस्तुप्लवङ्गनवमालिकात्मजासु स्यात् ।वर्णविलोडक उक्त-श्चौरे कुकवौ छायाहरेऽन्यस्य ॥ ७३ ॥
6.1.73 · p. 160
metre not recognised
मातुलपुत्रकमाहु-र्धूर्तफले मातुलौरस्ये ।शृङ्ग्यां ग्रामे च रणेप्रकीर्तिता ग्राममद्गुरिका ॥ ७४ ॥
6.1.74 · p. 160
metre not recognised
सिन्दूरतिलक नागेस्त्रियां च तत्तिलकधारिण्याम् ।मदनशलाका सार्यां[261a]कामोदे चौषधौ तद्वत् ॥ ७५ ॥
6.1.75 · p. 160
metre not recognised