कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

तिर्यक्काण्डः · पञ्चेन्द्रियाः (1/2)

इति चतुरिन्द्रियाः

पशुस्तिर्यङ्चरिहिंस्रेऽस्मिन्व्यालः श्वापदोऽपि च ॥ १२१६ ॥
4.9.1216 · p. 47
हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः ।स्तम्बेरमद्विरदसिन्धुरनागदन्तिनो दन्तावलः करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ ॥इभः करेणुर्गर्जोऽस्य स्त्री धेनुका वशापि च ।
4.9.2 · p. 47
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
भद्रो मन्द मृगो मिश्रश्चतस्रो गजजातयः ॥ १२१८ ॥
4.9.1218 · p. 47
अनुष्टुप्metre not read in every line
कालेऽप्यजातदन्तश्च स्वल्पाङ्गश्चापि मत्कुणः ।
4.9.4 · p. 47
अनुष्टुप्
पञ्चवर्षो गजो बालः स्यात्पोतो दशवार्षिकः ॥ १२१९ ॥विक्को विंशतिवर्षः स्यात्कलभस्त्रिंशदब्दकः ।
4.9.5 · p. 47
अनुष्टुप्metre not read in every line
यूथनाथो यूथपतिर्मत्ते प्रभिन्नगर्जितौ ॥ १२२० ॥
4.9.1220 · p. 47
अनुष्टुप्metre not read in every line
मदोत्कटे मदकलः समावुद्वान्तनिर्मदौ ।
4.9.7 · p. 47
अनुष्टुप्
सज्जितः कल्पितस्तिर्यग्घाती परिणतो गजः ॥ १२२१ ॥
4.9.1221 · p. 47
अनुष्टुप्
व्यालो दुष्टगजो गम्भीरवेद्यवमताङ्कुशः ।
4.9.9 · p. 47
अनुष्टुप्
राजवाह्यस्तूपवाह्यः संनाह्यः समरोचितः ॥ १२२२ ॥
4.9.1222 · p. 47
अनुष्टुप्
उदग्रदन्नीषादन्तो बहूनां घटना घटा ।मदो दानं प्रवृत्तिश्च वमथुः करशीकरः ॥ १२२३ ॥
4.9.1223 · p. 47
अनुष्टुप्
हस्तिनासा करः शुण्डा हस्तोऽस्याग्रं तु पुष्करम् ।
4.9.12 · p. 47
अनुष्टुप्
अङ्गुलिः कर्णिका दन्तौ विषाणौ स्कन्ध आसनम् ॥ १२२४ ॥
4.9.1224 · p. 47
अनुष्टुप्
कर्णमूलं चूलिका स्यादीषिका त्वक्षिकूटकम् ।
4.9.14 · p. 47
अनुष्टुप्
अपाङ्गदेशो निर्याणं गण्डस्तु करटः कटः ॥ १२२५ ॥
4.9.1225 · p. 47
अनुष्टुप्
अवग्रहो ललाटं स्यादारक्षः कुम्भयोरधः ।
4.9.16 · p. 47
अनुष्टुप्
कुम्भौ तु शिरसः पिण्डौ कुम्भयोरन्तरं विदुः ॥ १२२६ ॥
4.9.1226 · p. 47
अनुष्टुप्
वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽप्यधः ।
4.9.18 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
वाहित्थाधः प्रतिमानं पुच्छमूलं तु पेचकः ॥ १२२७ ॥
4.9.1227 · p. 47
अनुष्टुप्metre not read in every line
दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वकः ।
4.9.20 · p. 47
अनुष्टुप्
पूर्वस्तु जङ्घादिदेशो गात्रं स्यात्पश्चिमोऽपरा ॥ १२२८ ॥
4.9.1228 · p. 47
अनुष्टुप्
बिन्दुजालं पुनः पद्मं शृङ्खलो निगडोऽन्दुकः ।हिञ्जीरश्च पादपाशो वारिस्तु गजबन्धभूः ॥ १२२९ ॥
4.9.1229 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
त्रिपदी गात्रयोर्बन्ध एकस्मिन्नवरेऽपि च ।
4.9.23 · p. 47
अनुष्टुप्
तोत्त्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः सृणिः ॥ १२३० ॥
4.9.1230 · p. 47
अनुष्टुप्
अपष्ठं त्वङ्कुशस्याग्रं यातमङ्कुशवारणम् ।
4.9.25 · p. 47
अनुष्टुप्
निषादिनां पादकर्म यतं वीतं तु तद्द्वयम् ॥ १२३१ ॥
4.9.1231 · p. 47
अनुष्टुप्
कक्ष्या दूष्या वरत्रा स्यात्कण्ठबन्धः कलापकः ।
4.9.27 · p. 48
अनुष्टुप्
घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः ॥ १२३२ ॥गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः ।
4.9.28 · p. 48
अनुष्टुप्
वडवाश्वा प्रसूर्वामी किशोरोऽल्पवया हयः ॥ १२३३ ॥
4.9.1233 · p. 48
अनुष्टुप्
जवाधिकस्तु जवनो रथ्यो वोढा रथस्य यः ।
4.9.30 · p. 48
अनुष्टुप्
आजानेयः कुलीनः स्यात्तत्तद्देशास्तु सैन्धवाः ॥ १२३४ ॥वनायुजाः पारसीकाः काम्बोजा बाल्हिकादयः ।
4.9.31 · p. 48
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 स्तु (wrong syllable)
विनीतस्तु साधुवाही दुर्विनीतस्तु शूकलः ॥ १२३५ ॥
4.9.1235 · p. 48
metre not recognised
कश्यः कशार्हो हृद्वक्त्रावर्ती श्रीवृक्षकी हयः ।
4.9.33 · p. 48
अनुष्टुप्
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ १२३६ ॥
4.9.1236 · p. 48
अनुष्टुप्
पुच्छोरःखुरकेशास्यैः सितैः स्यादष्टमङ्गलः ।
4.9.35 · p. 48
अनुष्टुप्
श्वेते तु कर्ककोकाहौ खोङ्गाहः श्वेतपिङ्गले ॥ १२३७ ॥
4.9.1237 · p. 48
अनुष्टुप्
पीयूषवर्णे सेराहः पीते तु हरियो हये ।
4.9.37 · p. 48
अनुष्टुप्
कृष्णवर्णे तु खुङ्गाहः क्रियाहो लोहितो हयः ॥ १२३८ ॥
4.9.1238 · p. 48
अनुष्टुप्
आनीलस्तु नीलकोऽथ त्रियूहः कपिलो हयः ।
4.9.39 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
वोल्लाहस्त्वयमेव स्यात्पाण्डुकेसरवालधिः ॥ १२३९ ॥
4.9.1239 · p. 48
अनुष्टुप्metre not read in every line
उराहस्तु मनाक्पाण्डुः कृष्णजङ्घो भवेद्यदि ।
4.9.41 · p. 48
अनुष्टुप्
सुरूहको गर्दभाभो वोरुखानस्तु पाटलः ॥ १२४० ॥
4.9.1240 · p. 48
अनुष्टुप्
कुलाहस्तु मनाक्पीतः कृष्णः स्याद्यदि जानुनि ।
4.9.43 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
उकनाहः पीतरक्तच्छायः स एव तु क्वचित् ॥ १२४१ ॥कृष्णरक्तच्छविः प्रोक्तः शोणः कोकनदच्छविः ।
4.9.44 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
हरिकः पीतहरितच्छायः स एव हालकः ॥ १२४२ ॥
4.9.1242 · p. 48
अनुष्टुप्metre not read in every line
पङ्गुलः सितकाचाभो हलाहश्चित्रितो हयः ।
4.9.46 · p. 48
अनुष्टुप्
ययुरश्वोऽश्वमेधीयः प्रोथमश्वस्य नासिका ॥ १२४३ ॥
4.9.1243 · p. 48
अनुष्टुप्
मध्यं कश्यं निगालस्तु गल्लोद्देशः खुराः शफाः ।
4.9.48 · p. 48
अनुष्टुप्
अथ पुच्छं वालहस्तो लाङ्गूलं लूम वालधिः ॥ १२४४ ॥
4.9.1244 · p. 48
अनुष्टुप्
अपावृत्तपरावृत्तलुठितानि तु वेल्लिते ।
4.9.50 · p. 48
अनुष्टुप्
धोरितं वल्गितं प्लुत्युत्तेजितोत्तेरितानि च ॥ १२४५ ॥गतयः पञ्च धाराख्यास्तुरंगाणां क्रमादिमाः ।
4.9.51 · p. 48
अनुष्टुप्
तत्र धौरितकं धौर्यं धोरणं धोरितं च तत् ॥ १२४६ ॥बभ्रुकङ्कशिखिक्रोडगतिवद्वल्गितं पुनः ।अग्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम् ॥ १२४७ ॥
4.9.1247 · p. 48
अनुष्टुप्
प्लुतं तु लङ्घनं पक्षिमृगगत्यनुहारकम् ।
4.9.53 · p. 48
अनुष्टुप्
उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥ १२४८ ॥
4.9.1248 · p. 48
अनुष्टुप्
उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि ।उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः ॥ १२४९ ॥
4.9.1249 · p. 48
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते ।
4.9.56 · p. 48
अनुष्टुप्
कवी खलीनं कविका कवियं मुखयन्त्रणम् ॥ १२५० ॥
4.9.1250 · p. 48
अनुष्टुप्
पञ्चाङ्गी वक्त्रपट्टे तु तलिका तलसारकम् ।
4.9.58 · p. 48
अनुष्टुप्
दामाञ्चनं पादपाशः प्रक्षरप्रखरौ समौ ॥ १२५१ ॥
4.9.1251 · p. 48
अनुष्टुप्
चर्मदण्डे कशा रश्मौ वल्गावक्षेपणी कुशा ।
4.9.60 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
पर्याणं तु पल्ययनं वीतं फल्गु हयद्विपम् ॥ १२५२ ॥
4.9.1252 · p. 48
अनुष्टुप्metre not read in every line
वेसरोऽश्वतरो वेगसरश्चाथ क्रमेलकः ।कुलनाशः शिशुनामा शलो भोलिर्मरुप्रियः ॥ १२५३ ॥मयो महाङ्गो वासन्तो द्विककुद्दुर्गलङ्घनः ।भूतघ्न उष्ट्रो दाशेरो रवणः कण्टकासनः ॥ १२५४ ॥दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः ।
4.9.62 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शु (wrong syllable)
स तु शृङ्खलको दारुमयैः स्यात्पादबन्धनैः ॥ १२५५ ॥
4.9.1255 · p. 48
अनुष्टुप्
गर्दभस्तु चिरमेही वालेयो रासभः खरः ।चक्रीवाञ्शङ्कुकर्णोऽथ ऋषभो वृषभो वृषः ॥ १२५६ ॥वाडवेयः सौरभैयो भद्रः शक्वरशाक्वरौ ।उक्षानड्वान्ककुद्मान्गौर्बलीवर्दश्च शांकरः ॥ १२५७ ॥
4.9.1257 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
उक्षा तु जातो जातोक्षः स्कन्धिकः स्कन्धवाहकः ।
4.9.65 · p. 48
अनुष्टुप्
महोक्षः स्यादुक्षतरो वृद्धोक्षस्तु जरद्गवः ॥ १२५८ ॥
4.9.1258 · p. 48
अनुष्टुप्
षण्ढतोचित आर्षभ्यः कूटो भग्नविषाणकः ।
4.9.67 · p. 48
अनुष्टुप्
इट्चरो गोपतिः षण्डो गोवृषो मदकोहलः ॥ १२५९ ॥
4.9.1259 · p. 48
अनुष्टुप्
वत्सः शकृत्करिस्तर्णो दम्यवत्सतरौ समौ ।
4.9.69 · p. 48
अनुष्टुप्
नस्योतो नस्तितः पष्ठवाट् तु स्याद्युगपार्श्वगः ॥ १२६० ॥
4.9.1260 · p. 48
अनुष्टुप्
युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः ।
4.9.71 · p. 48
अनुष्टुप्
स तु सर्वधुरीणः स्यात्सर्वां वहति यो धुरम् ॥ १२६१ ॥
4.9.1261 · p. 48
अनुष्टुप्
एकधुरीणैकधुरावुभावेकधुरावहे ।
4.9.73 · p. 48
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 क (wrong syllable)
धुरीणधुर्यधौरेयधौरेयकधुरंधराः ॥ १२६२ ॥धूर्वहेऽथ गलिर्दुष्टवृषः शक्तोऽप्यधूर्वहः ।
4.9.74 · p. 48
अनुष्टुप्metre not read in every line
स्थौरीपृष्ठ्यः पृष्ठवाह्यो द्विदन्षोडन्द्विषड्रदौ ॥ १२६३ ॥
4.9.1263 · p. 48
अनुष्टुप्
वहः स्कन्धोंऽसकूटं तु ककुदं नैचिकं शिरः ।
4.9.76 · p. 48
अनुष्टुप्
विषाणं कुणिका शृङ्गं सास्ना तु गलकम्बलः ॥ १२६४ ॥
4.9.1264 · p. 48
अनुष्टुप्
गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी ।उस्राघ्न्या रोहिणी शृङ्गिण्यनड्वाह्यनडुह्युषा ॥ ॥ १२६५ ॥तम्पा निलिम्पिका तम्बा सा तु वर्णैरनेकधा ।
4.9.78 · p. 49
अनुष्टुप्doubled daṇḍa: ॥ ॥
पष्ठौही गर्भिणी वन्ध्या वशा वेहद्वृषोपगा ॥ १२६६ ॥
4.9.1266 · p. 49
अनुष्टुप्
अवतोका स्रवद्गर्भा वृषाक्रान्ता तु संधिनी ।
4.9.80 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
प्रौढवत्सा बष्कयिणी धेनुस्तु नवसूतिका ॥ १२६७ ॥
4.9.1267 · p. 49
अनुष्टुप्metre not read in every line
परेष्टुर्बहुसूतिः स्याद्गृष्टिः सकृत्प्रसूतिका ।
4.9.82 · p. 49
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
प्रजने काल्योपसर्या सुखदोह्या तु सुव्रता ॥ १२६८ ॥
4.9.1268 · p. 49
metre not recognised
दुःखदोह्या तु करटा बहुदुग्धा तु वञ्जुला ।
4.9.84 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रो (wrong syllable)
द्रोणदुग्धा द्रोणदुघा पीनोध्नी पीवरस्तनी ॥ १२६९ ॥
4.9.1269 · p. 49
अनुष्टुप्metre not read in every line
पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धके ।
4.9.86 · p. 49
अनुष्टुप्
नैचिकी तूत्तमा गोषु पलिक्नी बालगर्भिणी ॥ १२७० ॥
4.9.1270 · p. 49
अनुष्टुप्
समांसमीना तु सा या प्रतिवर्षं प्रजायते ।
4.9.88 · p. 49
अनुष्टुप्
स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला ॥ १२७१ ॥
4.9.1271 · p. 49
अनुष्टुप्
चतुस्त्रेर्हायणी द्व्येकाद्धायन्येकादिवर्षिका ।
4.9.90 · p. 49
अनुष्टुप्
आपीनमूधो गोविट् तु गोमयं भूमिलेपनम् ॥ १२७२ ॥
4.9.1272 · p. 49
अनुष्टुप्
तत्र शुष्के तु गोग्रन्थिः करीषछगणे अपि ।
4.9.92 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व्यं (wrong syllable)
गवां सर्वं गव्यं व्रजे गोकुलं गोधनं धनम् ॥ १२७३ ॥
4.9.1273 · p. 49
अनुष्टुप्metre not read in every line
प्रजने स्यादुपसरः कीलः पुष्पलकः शिवः ।
4.9.94 · p. 49
अनुष्टुप्
बन्धनं दाम संदानं पशुरज्जुस्तु दामनी ॥ १२७४ ॥
4.9.1274 · p. 49
अनुष्टुप्
अजः स्याच्छगलश्छागश्छगो वस्तः स्तभः पशुः ।
4.9.96 · p. 49
अनुष्टुप्
अजा तु च्छागिका मञ्जा सर्वभक्षा गलस्तनी ॥ १२७५ ॥
4.9.1275 · p. 49
अनुष्टुप्
युवाजो वर्करोऽवौ तु मेषोर्णायुहुडोरणाः ।उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा ।जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः ॥ १२७७ ॥पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् ।सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ ॥अस्थिभुग्भषणः सारमेयः कौलेयकः शुनः ।शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ ॥रसनालिड्रतपराः कीलशायिव्रणान्दुकाः ।शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० ॥
4.9.1280 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
विश्वकद्रुस्तु कुशलो मृगव्ये सरमा शुनी ।
4.9.99 · p. 49
अनुष्टुप्
विट्चरः शूकरो ग्राम्ये महिषो यमवाहनः ॥ १२८१ ॥रजस्वलो वाहरिपुर्लुलायः सैरिभो महः ।धीरस्कन्धः कृष्णशृङ्गो जरन्तो दंशभीरुकः ॥ १२८२ ॥रक्ताक्षः कासरो हंसकालीतनयलालिकौ ।
4.9.100 · p. 49
अनुष्टुप्
अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ ॥हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः ।महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ ॥श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रकौ ।चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥
4.9.1285 · p. 49
अनुष्टुप्
शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि ।
4.9.102 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
गवयः स्याद्वनगवो गोसदृक्षोऽश्ववारणः ॥ १२८६ ॥
4.9.1286 · p. 49
अनुष्टुप्metre not read in every line
खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किरः किरिः ।भूदारः सूकरः कोलो वराहः क्रोडपोत्रिणौ ॥ १२८७ ॥घोणी घृष्टिः स्तब्धरोमा दंष्ट्री किट्यास्यलाङ्गलौ ।आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः ॥ १२८८ ॥
4.9.1288 · p. 49
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 नि (wrong syllable)
भाल्लूकभालूकर्क्षाच्छभल्लभल्लूकभल्लुकाः ।
4.9.105 · p. 49
अनुष्टुप्
सृगालो जम्बुकः फेरुः फेरण्डः फेरवः शिवा ॥ १२८९ ॥घोरवाशी भूरिमायो गोमायुर्मृगधूर्तकः ।हूरवो भरुजः क्रोष्टा शिवाभेदेऽल्पके किखिः ॥ १२९० ॥
4.9.1290 · p. 49
अनुष्टुप्
पृथौ गृण्डिबलोपाकौ कोकस्त्वीहामृगो वृकः ।अरण्यश्वा मर्कटस्तु कपिः कीशः प्लवंगमः ॥ १२९१ ॥प्लवंगः प्लवगः शाखामृगो हरिर्बलीमुखः ।वनौका वानरोऽथासौ गोलाङ्गूलोऽसिताननः ॥ १२९२ ॥
4.9.1292 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
मृगः कुरङ्गः सारङ्गो वातायुहरिणावपि ।
4.9.108 · p. 49
अनुष्टुप्
मृगभेदा रुरुन्यङ्कुरङ्कुगोकर्णशम्बराः ॥ १२९३ ॥चमूरुचीनचमराः समूरैणर्श्यरौहिषाः ।कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ ॥
4.9.1294 · p. 49
अनुष्टुप्
दक्षिणेर्मा तु स मृगो व्याधैर्यो दक्षिणे क्षतः ।
4.9.110 · p. 49
अनुष्टुप्
वातप्रमीर्वातमृगः शशस्तु मृदुलोमकः ॥ १२९५ ॥शूलिको लोमकर्णोऽथ शल्ये शललशल्यकौ ।श्वाविच्च तच्छलाकायां शललं शलमित्यपि ॥ १२९६ ॥
4.9.1296 · p. 49
अनुष्टुप्
गोधा निहाका गौधेरगौधारौ दुष्टतत्सुते ।
4.9.112 · p. 50
अनुष्टुप्
गौधेयोऽन्यत्र मुसली गोधिकागोलिके गृहात् ॥ १२९७ ॥माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका ।
4.9.113 · p. 50
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः ॥ १२९८ ॥
4.9.1298 · p. 50
अनुष्टुप्metre not read in every line
स्थूलाञ्जनाधिकायां तु ब्राह्मणी रक्तपुच्छिका ।
4.9.115 · p. 50
अनुष्टुप्
कृकलासस्तु सरटः प्रतिसूर्यः शयानकः ॥ १२९९ ॥
4.9.1299 · p. 50
अनुष्टुप्
मूषिको मूषको वज्रदशनः खनकोन्दुरौ ।उन्दुरुर्वृष आखुश्च सूच्यास्यो वृषलोचने ॥ १३०० ॥
4.9.1300 · p. 50
अनुष्टुप्
छुछुन्दरी गन्धमूष्यां गिरिको बालमूषिका ।
4.9.118 · p. 50
अनुष्टुप्
बिडाल ओतुर्मार्जारो ह्रीकुश्च वृषदंशकः ॥ १३०१ ॥
4.9.1301 · p. 50
अनुष्टुप्
जाहको गात्रसंकोची मण्डली नकुलः पुनः ।पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥ १३०२ ॥भोगी भुजंगभुजगावुरगो द्विजिह्वव्यालौ भुजंगमसरीसृपदीर्घजिह्वाः ।काकोदरो विषधरः फणभृत्पृदाकुर्दृक्कर्णकुण्डलिबिलेशयदन्दशूकाः ॥ १३०३ ॥दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ॥ १३०४ ॥
4.9.1304 · p. 50
अनुष्टुप्