All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · क्षत्रियप्रकाण्डः (2/4)
सकर्मकारैरष्टाङ्गं प्रतप्तस्तु प्रतापवान् ।सौम्योधिगम्योऽथ शुचिरुपधातीतकः समौ ॥ १२१ ॥
1.6.121 · p. 102
अनुष्टुप्
पौराद्यनुग्रहे युक्तो वृत्तिर्व्यावृत्तिरन्यतः ।पक्षे पक्षे तुलामानं भाण्डार्घप्रत्यवेक्षणम् ॥ १२२ ॥
1.6.122 · p. 102
अनुष्टुप्
सम्माननं च मान्यानां लब्धप्रशमनानि षट् ।प्रतिभोगप्रातिभोगौ शाकादेरुपढौकनम् ॥ १२३ ॥
1.6.123 · p. 102
अनुष्टुप्
शूद्रकन्याकरो यः स्यात्स च गौरीवराढकम् ।राधाचक्रं तु तद्यन्त्रे चले यन्मील्यलोचनम् ॥ १२४ ॥
1.6.124 · p. 102
अनुष्टुप्
प्रतिबिम्बेक्षणवशादूर्ध्वं वेध्यमधोमुखम् ।तद्वेधनादिकं कर्म वीर्यशुल्कमिति स्मृतम् ॥ १२५ ॥
1.6.125 · p. 102
अनुष्टुप्
अधिकारः प्रक्रिया स्त्री द्वयोश्चमरचामरे ।लोमगुच्छः पुमान् क्लीबे चारतूलमथ त्रिषु ॥ १२६ ॥
1.6.126 · p. 103
अनुष्टुप्
छत्रं तु नृपचिह्नार्थं राजशृङ्गार्थकं च षण् ।हैमदण्डं चातपत्रमुत्कूटं चोष्णवारणम् ॥ १२७ ॥
1.6.127 · p. 103
अनुष्टुप्
चक्रपर्यायतोङ्गार्थं भृङ्गालुः कनकालुका ।निवेशः शिविरं क्लीबं सज्जनं तूपरक्षणे ॥ १२८ ॥
1.6.128 · p. 103
अनुष्टुप्
रथो गजोऽश्वः पादातः सेनाङ्गं स्याच्चतुर्विधम् ।युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ १२९ ॥
1.6.129 · p. 103
अनुष्टुप्
वङ्कुरो मूलविभुजो यह्वोप्यस्त्री विमानकः ।सक्रीडार्थः पुष्यरथो देवार्थस्तु मरुद्रथः ॥ १३० ॥
1.6.130 · p. 103
अनुष्टुप्
योग्या स्त्रियां वैनयिकोऽध्वरथः पारियानिकः ।कर्णीरथः प्रवहणं डयनं हयनं समे ॥ १३१ ॥
1.6.131 · p. 103
अनुष्टुप्
शकटोऽस्त्रीत्वनः क्लीबे शकटिः शकटी स्त्रियौ ।त्रिषु काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे ॥ १३२ ॥
1.6.132 · p. 103
अनुष्टुप्
सपाण्डुकलीयो यः संवीतः पाण्डुकम्बलैः ।स तु ज्ञेयश्च वैय्याघ्रो यो वृतो व्याघ्रचर्मणा ॥ १३३ ॥
1.6.133 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
एवं द्वीप्यादिचर्मादिसंवीते द्वैप इत्यपि ।रथार्थात्पादपर्यायमङ्गपर्यायमस्त्रियाम् ॥ १३४ ॥
1.6.134 · p. 103
अनुष्टुप्
चक्रं पुमानरिर्द्धारानेमी स्त्री नेमिरित्यपि ।प्रधिरस्त्री द्वयोराणिः स्त्रियामाणीति चाप्यणी ॥ १३५ ॥
1.6.135 · p. 104
अनुष्टुप्
रथाग्रकीलकेनाभिर्नाभी चक्रस्य पिण्डिका ।स्त्रियामथो ना कुवरः कूवरो ना युगन्धरः ॥ १३६ ॥
1.6.136 · p. 104
अनुष्टुप्
अस्त्रियामप्यथ युगमस्त्री यानमुखं पुनः ।ईषान्तबन्धनं चापि धूर्द्धूर्वी च स्त्रियावुभे ॥ १३७ ॥
1.6.137 · p. 104
अनुष्टुप्
युगान्तकीले शम्या स्त्री तत्स्थाने गर्त्तमद्वयोः ।अनुकर्षो दार्वधस्थमासङ्गस्तु युगान्तरम् ॥ १३८ ॥
1.6.138 · p. 104
अनुष्टुप्
रथगुप्तिर्वरूथाऽस्त्री स्यू रथाङ्गा न्युपस्कराः ।नियन्ता प्राजिता यन्ता सूतः सव्येष्ठृसारथी ॥ १३९ ॥
1.6.139 · p. 104
अनुष्टुप्
दक्षिणेस्थप्रचेतारौ क्षत्ता रथकुटुम्बिकः ।रथिनः स्यन्दनारोहा रथिका रथिरा अपि ॥ १४० ॥
1.6.140 · p. 104
अनुष्टुप्
रथव्रजे स्त्रियां रथ्या रथकट्याप्यथ स्त्रियाम् ।द्वयोः प्रेङ्खा तु दोला स्त्री यानं वा पुंसि न स्त्रियाम् ॥ १४१ ॥
1.6.141 · p. 104
अनुष्टुप्
विमानेऽथ वराङ्गः स्याद्वारणो मृग इत्यपि ।हस्ती दन्तावलो दन्ती सिन्धुरो दीर्घमारुतः ॥ १४२ ॥
1.6.142 · p. 104
अनुष्टुप्
मातङ्गो राजिलः पीलुर्जलकान्तो महामृगः ।मतङ्गः सामजः कुम्भी कुञ्जरोऽनेकपो द्विपः ॥ १४३ ॥
1.6.143 · p. 104
अनुष्टुप्
निर्लूनः करटी नाग इभः स्तम्बेरमो गजः ।करी मतङ्गजः पद्मी शूर्पकर्णो लतारतः ॥ १४४ ॥
1.6.144 · p. 105
अनुष्टुप्
पिण्डपादः पुष्करी स्याच्छुण्डारी कज इत्यपि ।विलोमरसनार्थः स्याद्द्वेर्दन्तार्थविषाणकः ॥ १४५ ॥
1.6.145 · p. 105
अनुष्टुप्
द्वयोः करेणुर्वेतण्डः पेचकी पुष्करी जटी ।जलाकाङ्क्षो महाकायोऽप्रस्वेदः सूचिकाधरः ॥ १४६ ॥
1.6.146 · p. 105
अनुष्टुप्
शुण्डालः पिचिलश्चापि ध्वजोऽस्त्री चासुरः कपिः ।गम्भीरवेदी च करी करिणी धेनुका वशा ॥ १४७ ॥
1.6.147 · p. 105
अनुष्टुप्
करेणुश्च करेणूश्च रेणुका च करेणुका ।कणेरुश्च गणेरुश्च स्त्रियामथ च तद्भिदः ॥ १४८ ॥
1.6.148 · p. 105
अनुष्टुप्
पञ्चवर्षो गजो बालः पोतस्तु दशवार्षिकः ।विक्को दिक्कोपि विंशाब्दस्त्रिंशाब्दः कलभोऽस्त्रियाम् ॥ १४९ ॥
1.6.149 · p. 105
अनुष्टुप्
षष्टिवर्षो युवार्थः स्याच्छुण्डारोऽपि मतः स च ।स्यादशीतेस्तु वृद्धोऽथ यद्गन्धाघ्राणतोऽपरे ॥ १५० ॥
1.6.150 · p. 105
अनुष्टुप्
न तिष्ठन्ति गजाः सस्याद्गन्धहस्ती ततः पुनः ।चतुर्विधा गजा भद्रो मन्द्रो मिश्रो मृगोऽपि च ॥ १५१ ॥
1.6.151 · p. 105
अनुष्टुप्
एषामाकरजा भेदा विज्ञेया बहवो बुधैः ।गङ्गासागरहिमाद्रिप्रयागाणां च मध्यतः ॥ १५२ ॥
1.6.152 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 हि (wrong syllable)
च्यवनं (स्यात्) मध्यमं तल्लोहिताब्धेश्च पश्चिमे ।त्रिपुर्यां कोसलादौ च चेदिका रूषकं वरम् ॥ १५३ ॥
1.6.153 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
श्रीक्षेत्रं गौडबङ्गालमाङ्गिरेयं तु मध्यमम् ।विन्ध्याद्रिवेङ्कटाद्रेश्च कलिङ्गद्रविडावपि ॥ १५४ ॥
1.6.154 · p. 106
अनुष्टुप्
वनं कालीयकं नाम समुद्रावधिमध्यमम् ।श्रीशैले देवशैले च मलये पर्वते वनम् ॥ १५५ ॥
1.6.155 · p. 106
अनुष्टुप्
दाशार्णकं वनं तत्स्याद्वरं सह्याद्रिमूलतः ।भृगुकच्छावधि वनमपरान्तं च मध्यमम् ॥ १५६ ॥
1.6.156 · p. 106
अनुष्टुप्
द्वारवत्यां च सौराष्ट्रे कलिङ्गवनमुत्तमम् ।कालंजरे कुरुक्षेत्रे सिन्धुसागरसंगमे ॥ १५७ ॥
1.6.157 · p. 106
अनुष्टुप्
वनं पाञ्चनदं नाम मध्यमं परिकीर्तितम् ।कालेप्यजातदन्तो यः स्वल्पाङ्गः स च मत्कुणः ॥ १५८ ॥
1.6.158 · p. 106
अनुष्टुप्
यूथपर्यायनाथार्थः प्रभिन्ने मत्तगर्जितौ ।मदोत्कटो मदकलः समावुद्वान्तविर्मदौ ॥ १५९ ॥
1.6.159 · p. 106
अनुष्टुप्
कल्पितः सज्जितस्तिर्यग्घाती परिणतश्च सः ।व्यालोत्रऽ?दुष्टे गम्भीरवेदी त्ववमताङ्कुशः ॥ १६० ॥
1.6.160 · p. 106
अनुष्टुप्
दण्डाराराललुषभा यत्रारोहति पार्थिवः ।राजवाह्यस्तूपवाह्यः सान्नाह्यः समरोचितः ॥ १६१ ॥
1.6.161 · p. 106
अनुष्टुप्
ईषार्थदन्तपर्याय उग्रपर्यायदन्तके ।स्त्रियां समूहे घटना घटा यूथं नपुंसकम् ॥ १६२ ॥
1.6.162 · p. 107
अनुष्टुप्
मदो दानं प्रवृत्तिश्च वमथुः करसीकरः ।करिनासा तु हस्तार्थः शुण्डा शुण्डार इत्ययम् ॥ १६३ ॥
1.6.163 · p. 107
अनुष्टुप्
अस्याग्रं पुष्करं क्लीबेऽङ्गुलं स्यात्तस्य कर्णिका ।विषाणावस्त्रियां पुंसि दन्तौ ना स्कन्ध आसनम् ॥ १६४ ॥
1.6.164 · p. 107
अनुष्टुप्
कर्णमूलं चूडिका स्यादीषीका त्वक्षिकूटकम् ।अपाङ्गदेशो निर्याणं गण्डस्तु करठः कठः ॥ १६५ ॥
1.6.165 · p. 107
अनुष्टुप्
कटकोप्यथ कुम्भ्यक्षिकूटे स्यादिषीकेषिका ।अवग्रहो ललाट स्याद्विदुः पुंस्युभयान्तरम् ॥ १६६ ॥
1.6.166 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 षी (wrong syllable)
कुम्भौ तु शिरसः पिण्डौ तयोर्मध्ये पिचुः पुमान् ।घातकुम्भस्तयोः सन्धिरारक्षस्तु ततोऽप्यधः ॥ १६७ ॥
1.6.167 · p. 107
अनुष्टुप्
वाहित्थं तदधोदेशः प्रतिमानमथास्त्रियाम् ।गात्रं तु करिणः पूर्वजङ्घाद्यवयवे न ना ॥ १६८ ॥
1.6.168 · p. 107
अनुष्टुप्
अपरावरे तु पश्चाज्जङ्घाद्यवयवे न ना ।आरालं पुच्छमूलस्योपान्ते स्यात्पेचकः पुमान् ॥ १६९ ॥
1.6.169 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
पार्श्वतः पक्षभागः स्यात्पद्मार्थं बिन्दुजालकम् ।मदयोगविधानं तु व्यस्तारमथ तल्पनम् ॥ १७० ॥
1.6.170 · p. 107
अनुष्टुप्
पृष्ठवंशस्य यन्मांसं स्यादथो दन्तमांसके ।क्लीबे प्रवेष्टकं तत्स्यादथ तद्बन्धनेऽपि च ॥ १७१ ॥
1.6.171 · p. 108
अनुष्टुप्
अन्दुकः पुंसि निगडो न स्त्रियां शृङ्खलं त्रिषु ।पादपाशश्च हिञ्जीरो न स्त्रियां गजबन्धभूः ॥ १७२ ॥
1.6.172 · p. 108
अनुष्टुप्
वारिर्वारी च प्राची च प्रारब्धिश्च स्त्रियामिमाः ।गात्रबन्धे तु त्रिपदी चैकस्मिन्नपरेऽपि च ॥ १७३ ॥
1.6.173 · p. 108
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable); pāda 3, syllable 5 तु (wrong syllable)
तोत्रं वेण्डकमालानं निर्वाणं वैणुकं पुनः ।नालिकाकर्णवेधिन्यामथ स्यादङ्कुशोऽस्त्रियाम् ॥ १७४ ॥
1.6.174 · p. 108
अनुष्टुप्
द्वयोः सृणिः शृणिरपि स्त्रियां स्यातां सृणी शृणी ।अस्त्र्यष्ठत्वं कुशाग्रं घातमङ्कुशवारणम् ॥ १७५ ॥
1.6.175 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
निषादिनां पादकर्म यातं वीतं नपुंसकम् ।कक्ष्या दूष्या वरत्रा स्यादूषा चूष्या कुथस्त्रिषु ॥ १७६ ॥
1.6.176 · p. 108
अनुष्टुप्
प्रवेणिः स्त्री प्रवेणी च परिस्तोमः पुमानयम् ।वर्णः षणास्तरणं स्यात् कण्ठबन्धः कलापकः ॥ १७७ ॥
1.6.177 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
पित्तज्वरः पाकलोस्य कूटपूर्वस्त्रिदोषजः ।नासापूर्वस्थूलहस्तं दन्तमूले करीरिका ॥ १७८ ॥
1.6.178 · p. 108
अनुष्टुप्
शङ्खः कूटो दन्तमध्यं प्रोहश्चरणपर्वणि ।अपस्कारः प्रजङ्घाग्रे नाली नात्रापरे न ना ॥ १७९ ॥
1.6.179 · p. 108
अनुष्टुप्
अष्ठीवतोरधिष्ठाने सन्दानं पुंनपुंसकम् ।विधानं गजभक्ष्ये स्यात् क्लीबे चैव विधा स्त्रियाम् ॥ १८० ॥
1.6.180 · p. 109
अनुष्टुप्
मेण्ठो मेठो निषादी स्यात् सादिः सादी निषाद्यपि ।दृश्यते पाण्डुरो यस्तु केशे रोम्णि च वालधौ ॥ १८१ ॥
1.6.181 · p. 109
अनुष्टुप्
कर्णे च नेत्रयोश्चैव स स्यादैरावतान्वयः ।अध्वक्षमः सारसदृक् क्षमी बुद्धिविशारदः ॥ १८२ ॥
1.6.182 · p. 109
अनुष्टुप्
अजरोमा स्थूलशीर्षः पुण्डरीकान्वयो गजः ।स्तब्धकर्णः सुदेहश्च कृष्णवर्णः कृशोदरः ॥ १८३ ॥
1.6.183 · p. 109
अनुष्टुप्
स्थूलविन्दुर्धनुर्वंशः पुष्पदन्तान्वयो गजः ।अग्निवर्णः सुवर्णाक्षो वेगवाञ्जललम्पटः ॥ १८४ ॥
1.6.184 · p. 109
अनुष्टुप्
आयतो विस्तृतोत्यर्थं वामनान्वयजः करी ।प्रचण्डकुसुमच्छायः कपोतनयनः क्षमः ॥ १८५ ॥
1.6.185 · p. 109
अनुष्टुप्
मेधावी तनुरोमा च सुप्रतीकान्वयोद्भवः ।स्निग्धवालधिदन्तो यः श्वेतविन्दुकरान्वितः ॥ १८६ ॥
1.6.186 · p. 109
अनुष्टुप्
पेचकेल्पः स्थूलकलः सार्वभौमान्वयो गजः ।रौद्रो लघुशिरा ह्रस्वश्वेतविन्दुसमन्वितः ॥ १८७ ॥
1.6.187 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्थू (wrong syllable)
पाटलापुष्पनयनः स भवेदञ्जनान्वयः ।कुम्भस्थूलतनुः स्निग्धलोललोहितलोचनः ॥ १८८ ॥
1.6.188 · p. 109
अनुष्टुप्
कृष्णो विस्तीर्णहस्ताग्रः कुञ्जरः कुमुदान्वयः ।घोटोश्वस्तुरगो वीती किण्वी क्रान्तस्तुरङ्गमः ॥ १८९ ॥
1.6.189 · p. 110
अनुष्टुप्
वाजी वाहस्तुरङ्गोर्वा गन्धर्वः सैन्धवो हयः ।प्रकीर्णः क्रमणः प्रोथी कुरटः सिंहविक्रमः ॥ १९० ॥
1.6.190 · p. 110
अनुष्टुप्
स्यान्मुद्गमाषपर्यायाशनार्थश्चामरी च वाट् ।श्र्यर्थात्पुत्रार्थकः पीतिः केसरी हंस इत्यपि ॥ १९१ ॥
1.6.191 · p. 110
अनुष्टुप्
मरुद्रथो वासुदेवस्तार्क्ष्यो वातायनो हरिः ।शालिहोत्रश्चैकशफो दधिक्रा एतशोप्यरुट् ॥ १९२ ॥
1.6.192 · p. 110
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 श्चै (wrong syllable)
व्रध्नः पतङ्गो हेषी स्यात्सुपर्णः श्येन इत्यपि ।वीतिः सप्तिर्दधिक्रावा वातस्कन्धार्थ इत्यपि ॥ १९३ ॥
1.6.193 · p. 110
अनुष्टुप्
स्थौर्यः पैद्वोऽव्यथिश्चापि त्रिविधाः स्युरमी पुनः ।श्रेष्ठमध्याधमाः सर्वे देशदेशसमुद्भवाः ॥ १९४ ॥
1.6.194 · p. 110
अनुष्टुप्
अब्धिवाहीककम्बोजपारसीकवनायुजाः ।सौराष्ट्रकोङ्कणोद्भूता आजानेयास्त उत्तमाः ॥ १९५ ॥
1.6.195 · p. 110
अनुष्टुप्
तुरस्कारट्टकीरोरटक्कसिन्धुस्थलोद्भवाः ।मध्यमाः प्राग्दक्षिणदिक्सम्भवाः शाम्भला अपि ॥ १९६ ॥
1.6.196 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्द (wrong syllable)
सारस्वता अर्जलाश्च तङ्गणा अधमा अमी ।वर्णैः शुक्लादिभिर्वर्णा ब्राह्मणाद्या यथाक्रमम् ॥ १९७ ॥
1.6.197 · p. 110
अनुष्टुप्
मिश्रैर्मिश्रा विनीतस्तु साधुवाही जवाधिके ।जवनोथाश्वमेधीये ययुर्यायावरोऽपि च ॥ १९८ ॥
1.6.198 · p. 110
अनुष्टुप्
किशोरोऽल्पवयस्कोऽश्वो रथ्यो वोढा रथस्य यः ।पृष्ठ्यः स्थूरी प्रसूरेषां वाम्यश्वा वडवार्वती ॥ १९९ ॥
1.6.199 · p. 111
अनुष्टुप्
गणे तु वाडवं तासां दुर्विनीतस्तु सूकलः ।कश्यः कशार्हो हृद्वक्रावर्त्ती श्रीवृक्षकी हयः ॥ २०० ॥
1.6.200 · p. 111
अनुष्टुप्
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ।पुच्छोरःखुरपुच्छास्यैः सितैः स्यादष्टमङ्गलः ॥ २०१ ॥
1.6.201 · p. 111
अनुष्टुप्
सिते तु कर्ककेकाहौ खांगाहः श्वेतपिङ्गले ।पीयूषवर्णः सेराहः पीते तु हरिमो हयः ॥ २०२ ॥
1.6.202 · p. 111
अनुष्टुप्
कृष्णवर्णस्तु खुङ्गाहः कियाहो लोहितो हयः ।आनीलो नीलकेपि स्यान्निर्यूहः कपिलो हयः ॥ २०३ ॥
1.6.203 · p. 111
अनुष्टुप्
वोल्लारश्चायमेव स्यात्पाण्डुकेशरवालधिः ।उराहस्तु मनाक्पाण्डुः कृष्णवर्णो भवेद्यदि ॥ २०४ ॥
1.6.204 · p. 111
अनुष्टुप्
सुरूहको गर्दभाभोवोरुखानस्तु पाटलः ।कुलाहस्तु मनाक्पीतः कृष्णः स्याद्यदि जानुनि ॥ २०५ ॥
1.6.205 · p. 111
अनुष्टुप्
उकनाहः पीतरक्तच्छायः स एव तु क्वचित् ।कृष्णरक्तच्छविः प्रोक्तः शोणः कोकनदच्छविः ॥ २०६ ॥
1.6.206 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
हरितः पीतहरितच्छायः स्यात्स च हालकः ।पुंगलः सितकाचाभो हलाहश्चित्रितो हयः ॥ २०७ ॥
1.6.207 · p. 111
अनुष्टुप्
प्रोथोऽस्त्री नासिकाश्वस्य कश्यं मध्यमथापि च ।शफोऽस्त्रियां खुरः पुंसि पुटो विङ्खोथ वालधिः ॥ २०८ ॥
1.6.208 · p. 112
अनुष्टुप्
अस्त्री पुच्छस्तु लाङ्गूलं क्लीबे लाङ्गुलमित्यपि ।स्त्रियां क्लीबे च लङ्गूलं पुच्छमस्त्री लजः पुमान् ॥ २०९ ॥
1.6.209 · p. 112
अनुष्टुप्
स्यात्पिच्छोपि च तत्रैव वालहस्तर्थकः पुमान् ।ललाम च ललामं च लूमवालस्ततः पुनः ॥ २१० ॥
1.6.210 · p. 112
अनुष्टुप्
अपावृत्तपरावृत्तलुठितानि च वेल्लिते ।न द्वयोरश्ववृन्दे स्यादाश्वमाश्वीयमित्यपि ॥ २११ ॥
1.6.211 · p. 112
अनुष्टुप्
निगालस्तु गलोद्देशे हेषा ह्रेषाश्वनिःस्वने ।त्रिष्वाश्वीयं यदश्वेन दिनेनैकेन गम्यते ॥ २१२ ॥
1.6.212 · p. 112
अनुष्टुप्
ऊर्ध्वस्थितिस्त्रियामस्य स्यात्पुला च पुलायिता ।प्रक्षरः प्रखरोपि स्यात्संनाहोपजनं परः ॥ २१३ ॥
1.6.213 · p. 112
अनुष्टुप्
खलिनोस्त्री खलीनोपि कवियं षण् कविः कवी ।पञ्चाङ्गी कर्षणी चापि मुखपर्याययन्त्रणा ॥ २१४ ॥
1.6.214 · p. 112
अनुष्टुप्
नेत्रपट्टे मक्षिकात्रं कवराक्षमथापि च ।भूषणे मुखपट्टः स्यात्तलिका तलसारणम् ॥ २१५ ॥
1.6.215 · p. 112
अनुष्टुप्
दामाजनं पादपाशश्चर्मदण्डे कशा स्त्रियाम् ।पल्याणमपि पर्याणं बन्धे कक्ष्यास्य कक्षया ॥ २१६ ॥
1.6.216 · p. 112
अनुष्टुप्
पदस्थाने पादिके च पादाधारावथापि च ।पुच्छाटिका पुच्छबन्धे खुरत्राणं खुरोपरि ॥ २१७ ॥
1.6.217 · p. 113
अनुष्टुप्
बन्धने स्यात् खुराधस्ताल्लौहे त्राणे तु नालकः ।तलत्रं स्याद्द्वयोरश्मिः क्लीबे प्रवपणं स्त्रियाम् ॥ २१८ ॥
1.6.218 · p. 113
अनुष्टुप्
कुशावक्षेपणी वल्गा क्लीबे धोरितवल्गिते ।स्त्रियां प्लुतिरिमे क्लीबे तेजितोत्तेरिते पुनः ॥ २१९ ॥
1.6.219 · p. 113
अनुष्टुप्
गतयः पञ्च धाराः स्युस्तुरगाणां क्रमादिमाः ।तत्र धौरितकं धौर्यं धोरणं धोरितं च यत् ॥ २२० ॥
1.6.220 · p. 113
अनुष्टुप्
बभ्रुके शिखिकं क्रोडगतिवद्वल्गिते पुनः ।अग्रच्छायसमुल्लासात् कुञ्चिताग्रं नतत्रिकम् ॥ २२१ ॥
1.6.221 · p. 113
अनुष्टुप्
प्लुतिस्तु लङ्घनं पक्षिमृगगत्यनुहारकम् ।उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥ २२२ ॥
1.6.222 · p. 113
अनुष्टुप्
उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि ।उत्प्लुत्योत्प्लुत्य गमनं क्रोधादिवाखिलैः पदैः ॥ २२३ ॥
1.6.223 · p. 113
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 4, syllable 3 दि (wrong syllable)
अस्त्रियां वाहनं पत्रं यानं युग्यं च धोरणम् ।परंपरावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ २२४ ॥
1.6.224 · p. 113
अनुष्टुप्
अश्वारोहा अश्ववाहाः सादिनोऽथ निषङ्गिणः ।भटा योधाश्च योद्धारः सेनारक्षाश्च ते पुनः ॥ २२५ ॥
1.6.225 · p. 113
अनुष्टुप्
सेनान्तः परिधिः पुंसि स्यादारभट इत्यपि ।ये सेनासमवेताः स्युः सैन्यास्ते सैनिका अपि ॥ २२६ ॥
1.6.226 · p. 114
अनुष्टुप्
ये सहस्रेण बलिनः साहस्रास्ते सहस्रिणः ।अथ च स्यात्कञ्चुकोऽस्त्री कवचो जगरः पुमान् ॥ २२७ ॥
1.6.227 · p. 114
अनुष्टुप्
वारवाणोऽपि च क्लीबे तनुत्रं वर्म दंशनम् ।सकञ्चुकैर्मध्यधार्ये क्लीबे सारसनं पुनः ॥ २२८ ॥
1.6.228 · p. 114
अनुष्टुप्
शीर्षकं तु शिरस्त्राणं शीर्षण्यं च शिरस्त्रकम् ।नागोदरमुरस्त्राणं जङ्घात्राणं तु मत्कुणम् ॥ २२९ ॥
1.6.229 · p. 114
अनुष्टुप्
नाहुलं च तदेव स्यान्नालिका चाङ्गरक्षिणी ।त्रिष्वितो ध्वजिनीपूर्वा आमुक्तः प्रतिमुक्तवत् ॥ २३० ॥
1.6.230 · p. 114
अनुष्टुप्
संनद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः ।अपिनद्धः पिनद्धश्च दंशितश्चाप्यमी त्रिषु ॥ २३१ ॥
1.6.231 · p. 114
अनुष्टुप्
दंशिताद्याश्चापि सत्त्वेप्यथ स्याद्धर्मतागणे ।अपि कावचिकं चाथ पद्गपत्तिपदातयः ॥ २३२ ॥
1.6.232 · p. 114
अनुष्टुप्
पादात्पदाजिपापिक्यः शररातिरतः पुनः ।पदाजिरथ पादातं पत्तिपर्यायसंहतिः ॥ २३४ ॥
1.6.234 · p. 114
अनुष्टुप्
शस्त्राजीव आयुधिककाण्डपृष्ठायुधीयकाः ।काण्डपृष्ठसहाये तु प्रतिष्कशप्रतिष्कषौ ॥ २३५ ॥
1.6.235 · p. 115
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable); pāda 4, syllable 3 ष्क (wrong syllable)
यो बहून्योधयेदेकः स महातिरथः पुनः ।दूरापाती दूरवेधी लघुहस्तार्थ इत्यपि ॥ २३६ ॥
1.6.236 · p. 115
अनुष्टुप्
कृतहस्तः सुप्रयुक्तो विशिखः शीघ्रवेध्यपि ।कृतपुङ्खोथापराद्धपृषत्को लक्ष्यतश्च्युतः ॥ २३७ ॥
1.6.237 · p. 115
अनुष्टुप्
धनुर्निषङ्गपर्यायमत्वर्थप्रत्ययी पुनः ।धनुर्धरोथ काण्डीरः काण्डवाञ्छक्तिहेतिकः ॥ २३८ ॥
1.6.238 · p. 115
अनुष्टुप्
शाक्तीक एवं याष्टीकः पारश्वधिक इत्यपि ।नैस्त्रिंशकोऽसिहेतिः स्यात्प्रासिकः कौन्तिकोऽपि च ॥ २३९ ॥
1.6.239 · p. 115
अनुष्टुप्
चर्मी फलकपाणिः स्यात् पताकी वैजयन्तिकः ।अनुप्लवः सहायश्च चतुराभिचरौ समौ ॥ २४० ॥
1.6.240 · p. 115
अनुष्टुप्