All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
द्वितीयः काण्डः · चतुष्पदाध्यायः
इति वत्सकुलवामनभट्टबाणाविरचिते शब्दरत्नाकरे वनाध्यायो द्वादशः ॥
चतुष्पदाध्यायः
सिंहः पञ्चमुखो हरिर्मृगपतिः कण्ठीरवः केसरीहर्यक्षो नखरायुधोऽथ कुठरः स्यादल्पकण्ठीरवः ।सिंहारिः शरभोऽष्टपादथ समाः शार्दूलपिण्डारक-व्याघ्रद्वीपितरक्षुचित्रतनवः स्युः पुण्डरीकोऽप्यमी ॥ ६७६ ॥
2.4.676 · p. 86
शार्दूलविक्रीडितम्
वराहः सूकरः क्रोडः कोलभूदारघोणिनः ।घृष्टिः किटिः किरिर्द्रंष्ट्री स्तब्धरोमा च पोत्रिणि ॥ ६७७ ॥
2.4.677 · p. 87
अनुष्टुप्
समा लुलायमहिषकासराश्वारिसैरिभाः ।गवलं माहिषं शृङ्गं द्वैपं वैयाघ्रचर्मणि ॥ ६७८ ॥
2.4.678 · p. 87
अनुष्टुप्
ऋक्षोऽच्छभल्लो भल्लूको भल्लुकोऽप्यथ गण्डकः ।खड्गी वाध्रीणसः खड्गस्तच्छृङ्गे खड्गमस्त्रियाम् ॥ ६७९ ॥
2.4.679 · p. 87
अनुष्टुप्
श्वाविट् शल्योऽस्य लोम्नि स्त्री शलली शललं शलम् ।मृगः कुरङ्गो वातायुरेणो हरिण इत्यपि ॥ ६८० ॥
2.4.680 · p. 87
अनुष्टुप्
कृष्णसारः कृष्णमृगः समौ गवयगोमृगौ ।लम्बन्ते यस्य रोमाणि ककुदि स्यात् स शम्बरः ॥ ६८१ ॥
2.4.681 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
ऋश्यस्त्रिशृङ्गो नीलः स्याद्रोहिदृश्यस्य योषिति ।सारङ्गो रोमकल्माषः कर्णयोर्यो गवाकृतिः ॥ ६८२ ॥
2.4.682 · p. 87
अनुष्टुप्
स गोकर्णोऽसितो रामो रोहिषो गर्दभाकृतिः ।न्यङ्कुस्तु शम्बराकारस्त्रिकेण विपुलोन्नतः ॥ ६८३ ॥
2.4.683 · p. 87
अनुष्टुप्
राजीवो राजिमान् पृष्ठे कृष्णसारो महान् रुरुः ।शोणास्यो राजयः पृष्ठे यस्य सन्ति स रोहितः ॥ ६८४ ॥
2.4.684 · p. 87
अनुष्टुप्
प्रियको मसृणस्वच्छमृदुचित्रतनूरुहः ।चमूरुरायतग्रीवो धवलस्कन्धकेसरः ॥ ६८५ ॥
2.4.685 · p. 88
अनुष्टुप्
नीलाग्रमृदुतीक्ष्णोच्चकर्बुराङ्गतनूरुहः ।द्वाविंशत्यङ्गुलायामा कदली स्त्री बिलेशया ॥ ६८६ ॥
2.4.686 · p. 88
अनुष्टुप्
पृषतो बिन्दुचित्रोङ्गः कन्दली तु महोदरी ।श्यामा हस्तसमायामा कोक ईहामृगो वृकः ॥ ६८७ ॥
2.4.687 · p. 88
अनुष्टुप्
सालावृकस्त्वरण्यश्वा टङ्कणो धवलोन्नतः ।समूरुर्ना समूना स्त्री सा प्रहस्तायताकृतिः ॥ ६८८ ॥
2.4.688 · p. 88
अनुष्टुप्
गोमाय्वाभाथवा कृष्णा स्निग्धोच्चमृदुरोमिका ।श्यामिका तु श्वेतबिन्दुश्यामला षोडशाङ्गुला ॥ ६८९ ॥
2.4.689 · p. 88
अनुष्टुप्
चतुरा तु घनस्निग्धरोमा श्यामा सचन्द्रका ।वातप्रमीर्वातमृगश्चीनस्तु त्रिंशदङ्गुलः ॥ ६९० ॥
2.4.690 · p. 88
अनुष्टुप्
मरुजा तूच्चमसृणमृदुपाण्डररोमिका ।रोमराजिमती मध्ये द्वादशाङ्गलसम्मिता ॥ ६९१ ॥
2.4.691 · p. 88
अनुष्टुप्
रङ्कुः स यस्य रोमाणि युज्यन्ते वायुकर्मणि ।चमरस्तु सितो वालमृगोऽथ सृमरोऽसितः ॥ ६९२ ॥
2.4.692 · p. 88
अनुष्टुप्
एण्याश्चर्माद्यमैणेयं मार्गैणे तु मृगैणयोः ।चीनकस्तु सितक्रोडः कन्दरस्तूच्चजानुकः ॥ ६९३ ॥
2.4.693 · p. 88
अनुष्टुप्
समानौ बभ्रुनकुलावच्छकर्णशशौ समौ ।मृगनाभिस्तु कस्तूरीमृगो गन्धमृगोऽपि सः ॥ ६९४ ॥
2.4.694 · p. 89
अनुष्टुप्
नाहलोऽप्यथ कस्तूरी राजार्हं शितिचन्दनम् ।वनौका मर्कटः कीशो वानरः प्लवगः कपिः ॥ ६९५ ॥
2.4.695 · p. 89
अनुष्टुप्
प्लवंगमो दधिमुखः शाखामृगवलीमुखौ ।गोलाङ्गूलः कृष्णमुखो दीर्घपुच्छो वलीमुखः ॥ ६९६ ॥
2.4.696 · p. 89
अनुष्टुप्
शिवा स्त्री जम्बुकक्रोष्टुफेरुफेरण्डफेरवाः ।गोमायुर्वञ्चको भीरुभूरिमायशृगलकाः ॥ ६९७ ॥
2.4.697 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ग (wrong syllable)
मातङ्गः करटीभवारणकरिस्तम्बेरमानेकपाःशुण्डालद्विपहस्तिनागमदमुक्शूर्पश्रवःकुजराः ।वेतण्डद्विरदौ महाबलगजौ दन्तावलः सिन्धुरःपद्मी सामभवो रदी च करिणः कुम्भौ शिरःपिण्डकौ ॥ ६९८ ॥
2.4.698 · p. 89
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 17 कु (wrong syllable)
पद्मानि स्युर्बिन्दवोऽन्नं विधानंशुण्डा हस्तश्चूलिका कर्णमूलम् ।स्यान्निर्याणं दृष्युपान्तः करीरंदन्तादिः स्याद्दन्तभागोऽग्रभागः ॥ ६९९ ॥
2.4.699 · p. 89
शालिनी
हस्तस्याग्रं पुष्करं वक्त्रमध्यंवाहित्थं स्यादीषिका नेत्रकूटम् ।आरक्षोऽधः कुम्भयोरासनं तुस्कन्धोद्देशः कुम्भमध्यं विदुर्ना ॥ ७०० ॥
2.4.700 · p. 89
शालिनी
निष्कोशः स्यात् कुक्षिमध्ये हनौ नाकुञ्जः कर्णप्रान्तरे दुर्दरः स्यात् ।उत्खातः स्यात् कर्णमूलोर्ध्वभागेशम्बूका स्त्री वक्त्रपार्श्वैकदेशः ॥ ७०१ ॥
2.4.701 · p. 90
शालिनी
बिम्बकस्तु शिरोमध्यं ललाटं स्यादवग्रहः ।पक्षपार्श्वे तु विक्षोमः प्रतिमानं तु कुम्भयोः ॥ ७०२ ॥
2.4.702 · p. 90
अनुष्टुप्
अधोभागे (अन्तराले?) मदो दानं गण्डस्तु करटः कटः ।दन्तो रदो विषाणं च वमथुर्हस्तशीकरः ॥ ७०३ ॥
2.4.703 · p. 90
अनुष्टुप्
गात्रापरे क्रमात् पूर्वापरजङ्घादिदेशयोः ।पूर्वस्याङ्घ्रेरधोऽधः स्युः प्रतीकाशः क्षयः क्रमात् ॥ ७०४ ॥
2.4.704 · p. 90
अनुष्टुप्
कूर्मः सन्दानभागश्च प्रोह उत्सङ्ग इत्यपि ।अधोऽधः पश्चिमस्याङ्घ्रेर्मूलादानखरावधेः ॥ ७०५ ॥
2.4.705 · p. 90
अनुष्टुप्
प्रदेशाः स्युः कलाभागः क्रमाज्जघनपिण्डिका ।मण्डूका शकुटा पार्ष्णिस्तलः प्रोहश्च कूर्मकः ॥ ७०६ ॥
2.4.706 · p. 90
अनुष्टुप्
पक्षभागः पार्श्वभागो मेदः स्थूलोच्चयो गतेः ।तत् फलं त्वंसयोर्मध्यं विस्तारो गजशास्त्रकम् ॥ ७०७ ॥
2.4.707 · p. 91
अनुष्टुप्
जानुदेशस्त्ववस्कारः शुण्डायां स्रोत इत्यपि ।कक्ष्या चूडा(षा?) वरत्रा स्याद्धेनुका करिणी वशा ॥ ७०८ ॥
2.4.708 · p. 91
अनुष्टुप्
वाशिता गणिका रोगे गजानां कूटपाकलः ।मदविभ्रमजं तेजः करिणो हस्तिवर्चसम् ॥ ७०९ ॥
2.4.709 · p. 91
अनुष्टुप्
शृङ्गारोऽलंक्रिया तोत्रं वैणुकं कदली ध्वजः ।आलानं बन्धनस्तम्भे कीलशङ्कुध्रुवाः समाः ॥ ७१० ॥
2.4.710 · p. 91
अनुष्टुप्
सृणिर्द्वयोरङ्कुशोऽस्त्री सूना दण्डार्पितोऽङ्कुशः ।हिञ्जीरः स्याल्लोहमयं शृङ्खलं शृङ्खला त्रिषु ॥ ७११ ॥
2.4.711 · p. 91
अनुष्टुप्
निगालोऽस्त्री स्त्रियाम् मन्दूरन्दुकः पादबन्धनः ।कलापकः कर्णवन्धस्त्रिपदी पादबन्धनम् ॥ ७१२ ॥
2.4.712 · p. 91
अनुष्टुप्
प्रवेणी तु परिस्तोमो वर्णः शारिः कुथो द्वयोः ।वप्रक्रिया परिणतिः कल्पना सज्जना समे ॥ ७१३ ॥
2.4.713 · p. 91
अनुष्टुप्
आधोरणो हस्तिपकहस्त्यारोहनिषादिनः ।तत्प्रधाने महामात्रो हास्तिकं गजता गणः ॥ ७१४ ॥
2.4.714 · p. 91
अनुष्टुप्
उद्वान्तो निर्मदो मत्तः प्रभिन्नो गर्जितो गजः ।व्यालो दुष्टोऽथ गम्भीरवेदी शिक्षापराङ्मुखः ॥ ७१५ ॥
2.4.715 · p. 91
अनुष्टुप्
यूथपो यूथनाथः स्यादीषादन्तो महारदः ।मदोत्कटो मदकलः स्याद्बालः पञ्चहायनः ॥ ७१६ ॥
2.4.716 · p. 92
अनुष्टुप्
दशवर्षस्तु पोतः स्याद्विक्को विंशतिवर्षकः ।त्रिंशद्वर्षस्तु कलभः शुण्डारः षष्टिहायनः ॥ ७१७ ॥
2.4.717 · p. 92
अनुष्टुप्
गण्डूषिको बहिष्कर्षः सुभागश्चातिहस्तिकः ।पृथुहस्तः स्थूलहस्तः फलिहस्तः समास्त्रयः ॥ ७१८ ॥
2.4.718 · p. 92
अनुष्टुप्
तुरगतुरङ्गतुरङ्गमसैन्धवसप्त्यश्ववाजिवाहहयाः ।गन्धर्ववीतिघोटकहर्यर्वश्रीजहेषिणश्च समाः ॥ ७१९ ॥
2.4.719 · p. 92
गीतिः
मेदाः खेङ्खाणतुक्खारखत्तुलाणकतेजिकाः ।घोट्टाणा अपि काम्बोजाः पारसीका वनायुजाः ॥ ७२० ॥
2.4.720 · p. 92
अनुष्टुप्
आरट्टजाश्च बाह्लीकाः सिन्धुजाः शम्बलोद्भवाः ।अम्बष्ठजा अन्वजवा गान्धारास्तैतिलेयकाः ॥ ७२१ ॥
2.4.721 · p. 92
अनुष्टुप्
काश्मीराः क्षुद्रकैरातास्त्रैगर्ता आश्विनेयकाः ।सावित्रेयाः साल्वभवाः पारदा ह्रस्वकुक्कुराः ॥ ७२२ ॥
2.4.722 · p. 92
अनुष्टुप्
कुक्कुराः शूरसेनीयाः कैकेया उपमोचकाः ।शाका उत्तरमाद्रेया आवर्तप्रभवा हयाः ॥ ७२३ ॥
2.4.723 · p. 92
अनुष्टुप्
पारसीकादिसंज्ञाः स्युः पारसीकादिदेशजाः ।श्रीवृक्षकी वक्षसि च रोमावर्तो मुखेऽपि च ॥ ७२४ ॥
2.4.724 · p. 93
अनुष्टुप्
मल्लिकाक्षः सितेनाक्ष्णा कृष्णेनेन्द्रायुधाह्वयः ।पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ ७२५ ॥
2.4.725 · p. 93
अनुष्टुप्
खुरोरःपुच्छकेशास्यैर्वलर्क्षैरष्टमङ्गलः ।सुग्रीवाख्यः स यद्ग्रीवा शक्रकार्मुकसंनिभा ॥ ७२६ ॥
2.4.726 · p. 93
अनुष्टुप्
धवलौ कर्ककौकाहौ पोङ्गाहः शुक्लपिङ्गलः ।कृष्णवर्णस्तु खुङ्गाहः शोणः कोकनदच्छविः ॥ ७२७ ॥
2.4.727 · p. 93
अनुष्टुप्
कुलाहस्तु मनाक् पीतः कृष्णः स्याद्यदि जानुनि ।कल्लोहः कपिलच्छायः पाण्डुवालधिकेसरः ॥ ७२८ ॥
2.4.728 · p. 93
अनुष्टुप्
कयाहो लोहितः पीतरक्तस्तु द्रवलाहकः ।मनाक् पाण्डुरुराहः स्यात् कृष्णजङ्घायुगं यदि ॥ ७२९ ॥
2.4.729 · p. 93
अनुष्टुप्
पीयूषवर्णः सेराहः पङ्गुलः सितकाचरुक् ।सर्व एवान्यसंज्ञाः स्युरश्वा वर्णादिभेदतः ॥ ७३० ॥
2.4.730 · p. 93
अनुष्टुप्
आश्वमश्वीयमश्वानां वृन्दे स्युर्दोषिणः षरे ।कृत्तिकापिज्जरः स स्याद्यः पृषत्पुञ्जपिञ्जरः ॥ ७३१ ॥
2.4.731 · p. 93
अनुष्टुप्
इन्द्रवृष्टिस्तु निर्मुष्को यमो हीनाधिकाङ्गकः ।कराली तु जरद्दन्तस्त्रिखुरस्तु खुरत्रिकः ॥ ७३२ ॥
2.4.732 · p. 94
अनुष्टुप्
ककुदी ककुदावर्तो मुसल्यो वेल्लिताङ्घ्रिकः ।शृङ्गी शृङ्गपदे मांसबुद्बुदग्रन्थिसंयुतः ॥ ७३३ ॥
2.4.733 · p. 94
अनुष्टुप्
बडवाश्चार्वती वामी बाडवं बडवागणे ।कश्यमश्वस्य मध्यं स्याद्भाण्डमायानमित्युमे ॥ ७३५ ॥
2.4.735 · p. 94
अनुष्टुप्
अलंकारे निगालस्तु गलोद्देशः शफं खुरः ।घोणा तु प्रोथमस्त्री स्याद्दन्तवेष्टस्तु नालिका ॥ ७३६ ॥
2.4.736 · p. 94
अनुष्टुप्
कालिका दन्तरेखायां दन्तच्छिद्रमुलूखलम् ।विदुर्ना कर्णमूले स्यात् खुरस्योपरि कुष्ठिका ॥ ७३७ ॥
2.4.737 · p. 94
अनुष्टुप्
दन्तालिका कुशा वल्गा ग्रीवाभूषा तु गण्डकम् ।चर्मदण्डः कशा वक्त्रपट्टके तलसारकम् ॥ ७३८ ॥
2.4.738 · p. 94
अनुष्टुप्
तालिकाथ प्रक्षरणं प्रखरोऽथ प्ररोहकः ।भुक्काणोऽशनमस्त्रायां नासारज्जुस्तु लालिका ॥ ७३९ ॥
2.4.739 · p. 94
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
त्रिष्वाश्वीनं तदश्वेन यदेकाहेन गम्यते ।दामाञ्चनं पादपाशस्तैल यन्त्रं तु नालिका ॥ ७४० ॥
2.4.740 · p. 94
अनुष्टुप्
गतिमेदे स्त्रियामूर्मिः क्लीबे त्वर्द्धपुलायितम् ।आस्कन्दितधौरितरेचितकप्लुतवल्गितभेदभृतो गतयः ।धारास्तुरगस्य तुरस्तु गतिः पुरुषस्थितेरुन्नमिताग्रा ॥ ७४१ ॥
2.4.741 · p. 95
अनुष्टुप्metre not read in every line
यन्त्रं सैन्धवदानाय कृतं लवणमालिका ।स्याद्देवमणिरश्वस्य रोमावर्तो निगालजः ॥ ७४२ ॥
2.4.742 · p. 95
अनुष्टुप्
कण्ठजो रोचमानः स्यात् स्वामिसौभाग्यवर्धनः ।पर्याणं स्यात् पल्यनं लाङ्गूलं पुच्छमस्त्रियाम् ॥ ७४३ ॥
2.4.743 · p. 95
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (syllables merged)
उभौ तु लोमलाङ्गूले वालहस्तश्च वालधिः ।वङ्कः पर्याणशृङ्गे स्यात् पञ्चाङ्गी कविका कवी ॥ ७४४ ॥
2.4.744 · p. 95
अनुष्टुप्
खलीनोऽस्त्री समानौ तु वेसराश्वतरौ समौ ।वडवायां समुत्पन्नौ मूकः कुण्डश्च वेसरात् ॥ ७४५ ॥
2.4.745 · p. 95
अनुष्टुप्
महाङ्गमयदाशेररवणोष्ट्रक्रमेलकाः ।टङ्कणः पादबन्धैस्तु दारवैः करभः शिशुः ॥ ७४६ ॥
2.4.746 · p. 95
अनुष्टुप्
स्याच्छृङ्खलक उष्ट्राणामौष्ट्रकं स्यात् कदम्बके ।बालेयकस्तु चक्रीवान् गर्दभो रासभः खरः ॥ ७४७ ॥
2.4.747 · p. 95
अनुष्टुप्
शुनकः सारमेयः श्वा कौलेयो रतिकीलकः ।कुक्कुरो मण्डली योगादलर्कः सरमा शुनी ॥ ७४८ ॥
2.4.748 · p. 95
अनुष्टुप्
शुनकी विश्वकद्रुस्तु शुनको मृगयापटुः ।अर्जुन्यघ्न्या रोहिणी सौरभेयीमाहेय्युस्रा शृङ्गिणी गौश्च माता ।गव्या गोत्रा गोगणे वत्सधेन्वो-र्वृन्दे स्यातां वात्सकं धैनुकं द्वे ॥ ७४९ ॥
2.4.749 · p. 95
अनुष्टुप्two metres in one verse
प्रत्यब्दसूतिस्तु समांसमीनापरेष्टुका स्यात् प्रचुरप्रसूतिः ।काल्योपसर्या प्रजनेऽवतोकाप्रस्कन्दिगर्भाथ वशा तु वन्ध्या ॥ ७५० ॥
2.4.750 · p. 96
उपजातिः
संधिनी वृषभाक्रान्ता वेहद्गर्भोपघातिनी ।नवप्रसूतिर्धेनुः स्याद्धेनुष्या बन्धके स्थिता ॥ ७५१ ॥
2.4.751 · p. 96
अनुष्टुप्
सुव्रता सुखदोह्या स्यात् प्रष्ठौही बालगर्भिणी ।चिरसूता वष्कयणी जरती गौर्जरद्गवी ॥ ७५२ ॥
2.4.752 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
नीली पिशङ्गी कल्माषी शोणी चेत्येवमादयः ।वर्णभेदेन संज्ञाः स्युरुत्तमा गोषु नैचिकी ॥ ७५३ ॥
2.4.753 · p. 96
अनुष्टुप्
संख्यादिहायनान्ता गौरेकाब्दा त्वेकहायनी ।एवं द्विहायनीत्यादि षड्रदा षोडती समे ॥ ७५४ ॥
2.4.754 · p. 96
अनुष्टुप्
वञ्जुला तु बहुक्षीरा कपिला त्वग्निसंभवा ।भूमिजा बहुला कृष्णा शबली व्योमसंभवा ॥ ७५५ ॥
2.4.755 · p. 96
अनुष्टुप्
सुमनाः प्रक्षराङ्गी च रक्तवर्णा तु वायुजा ।सिता तु धवला पुण्ड्रा सुनन्दा जलसंभवा ॥ ७५६ ॥
2.4.756 · p. 96
अनुष्टुप्
द्रोणक्षीरा द्रोणदुघा गृष्टिः प्रथमसूतिका ।गौरचण्डी तु सुकरा स्यादेवापीनमूधसि ॥ ७५७ ॥
2.4.757 · p. 96
अनुष्टुप्
ऋषभस्तु बलीवर्दः पुंगवो वृषभो वृषः ।उक्षा भद्रः ककुद्मान् गौः सौरभेयश्च शाक्वरः ॥ ७५८ ॥
2.4.758 · p. 97
अनुष्टुप्
अनड्वान् भग्नशृङ्गे तु तस्मिन् कूटश्च तूबरः ।शोणो नीलवृषः श्वेतपुच्छशृङ्गः खुराण्डकः ॥ ७५९ ॥
2.4.759 · p. 97
अनुष्टुप्
जरद्गवस्तु वृद्धोक्षो महोक्षस्तु महावृषः ।लूनकर्णस्त्वकर्णः स्याद्वण्डस्तु छिन्नपुच्छकः ॥ ७६० ॥
2.4.760 · p. 97
अनुष्टुप्
आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः ।स्कान्धिकः स्कन्धवाहः स्यात् समौ नस्योतनस्तितौ ॥ ७६१ ॥
2.4.761 · p. 97
अनुष्टुप्
नस्या स्त्री नासिकारज्जुः पशुरज्जुस्तु दामनी ।निधानं स्याद्गवां दोहे पश्चाच्चरणबन्धनम् ॥ ७६२ ॥
2.4.762 · p. 97
अनुष्टुप्
स्कन्धप्रदेशस्तु वहः सास्ना स्याद्गलकम्बलः ।स्याद्धेन्वनडुहं धेनुरनड्वांश्च धुरंधरः ॥ ७६३ ॥
2.4.763 · p. 97
अनुष्टुप्
धुरीणो धूर्वहो धुर्यो यस्तु सर्वधुरावहः ।असौ सर्वधुरीणः स्याद् युग्यस्तु युगवोढरि ॥ ७६४ ॥
2.4.764 · p. 97
अनुष्टुप्
युगाद्युगस्तु प्रासङ्गः प्रासङ्ग्यस्तस्य वोढरि ।एकस्यास्तु धुरो वोढा योऽसावेकधुरीणकः ॥ ७६५ ॥
2.4.765 · p. 97
अनुष्टुप्
पृष्ठ्यस्तु पृष्ठवाहः स्यात् प्रष्ठवाड्युगपार्श्वगः ।औक्षकं संघ उक्ष्णां स्याद्गोशकृद्गोमयोऽस्त्रियाम् ॥ ७६६ ॥
2.4.766 · p. 97
अनुष्टुप्
गोग्रन्थिर्गोमये शुष्के करीषोऽस्त्री च दोहलम् ।गोकुलं गोधनं जीवधनं चापि गवां व्रजे ॥ ७६७ ॥
2.4.767 · p. 98
अनुष्टुप्
गोमान् गोमी गवां स्वामी गोविन्दोऽधिकृतो गवाम् ।गोसंख्यो वल्लवो गोपगोपालाभीरगोदुहः ॥ ७६८ ॥
2.4.768 · p. 98
अनुष्टुप्
दुग्धं तु क्षीरमूधस्यं पयः स्तन्यं नवं तु तत् ।पीयूषोऽथ हविः सर्पिर्घृतमाज्यं समार्थकम् ॥ ७६९ ॥
2.4.769 · p. 98
अनुष्टुप्
क्लीबे तु नवनीतं स्याद् यद्दध्नोऽभिनवोद्धृतम् ।तत्तु हैयंगवीनं यद्ध्योगोदोहोद्भवं घृतम् ॥ ७७० ॥
2.4.770 · p. 98
अनुष्टुप्
मण्डं दधिभवं मस्तु करम्भा दधिसक्तवः ।आज्यं दशाब्दिकं कौहं हृद्यं तु श्रीघनं दधि ॥ ७७१ ॥
2.4.771 · p. 98
अनुष्टुप्
स्थूलमङ्गलमप्यत्र बालं तु दधि बालकम् ।दधि स्यादघनं द्रप्स्यं गन्धाढ्यं तु वलीमूखम् ॥ ७७२ ॥
2.4.772 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 मू (wrong syllable)
छिन्नं दधि बिसं रूक्षं खलं च दधि निद्रवम् ।बहुसूदनमप्यस्मिन् स्यात् कीलाटस्तु कूर्चिका ॥ ७७३ ॥
2.4.773 · p. 98
अनुष्टुप्
विकृतौ पयसः क्षीरच्छदः संतानिका स्त्रियाम् ।विवधो वीवधो हारः पर्याहारो विहङ्गिका ॥ ७७४ ॥
2.4.774 · p. 98
अनुष्टुप्
मन्थास्तु मन्थमन्थानवैशाखा मन्थदण्डके ।मन्थनी म(ग?)र्गरी मन्थविष्कम्भे कुठरः पुमान् ॥ ७७५ ॥
2.4.775 · p. 98
अनुष्टुप्
बोलो दण्डाहतं कालशेयारिष्टे च गोरसे ।मथितमुदश्वित्तक्रं निर्जलमर्धाम्बु पादाम्बु ॥ ७७६ ॥
2.4.776 · p. 99
अनुष्टुप्metre not read in every line
स्यादाशितंगवीनं तत् त्रिषु यत्राशिताः पुरा ।अजो बस्तः स्तबश्छागश्छगश्छगलकोऽपि सः ॥ ७७७ ॥
2.4.777 · p. 99
अनुष्टुप्
ऊर्णायुरुरणकैलकमेढ्रोरभ्राविवृष्णिमेषाश्च ।अविसोढमविमरीसं स्यादविद्सं च यद्दुग्धमवेः ॥ ७७८ ॥
2.4.778 · p. 99
metre not recognised
औरभ्रकमुरभ्राणामजानामाजकं गणः ।मार्जारो जाहको मर्को बिडालो वृषदंशकः ॥ ७७९ ॥
2.4.779 · p. 99
अनुष्टुप्
मण्डल्याखुभुगोतुश्च दीनानाथस्तु मूषिकः ।इन्दुरुश्च वृषश्चाखुर्गिरिका बालमूषिका ॥ ७८० ॥
2.4.780 · p. 99
अनुष्टुप्
चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका ।त्रयो गौधेरगौधारगौधेया गोधिकासुते ॥ ७८१ ॥
2.4.781 · p. 99
अनुष्टुप्
स चिक्रोडो यस्य पृष्ठे पाण्डुवर्णास्त्रिराजयः ।कृकलासस्तु सरटः प्रतिसूर्योऽथ वृश्चिकः ॥ ७८२ ॥
2.4.782 · p. 99
अनुष्टुप्
अली द्रोणः शूककीटस्तच्छूकेऽखं(लं?) दुणं(लं?) द्वयम् ।गृहगौली तु मुसली द्वौ नीलङ्गुकृमी समौ ॥ ७८३ ॥
2.4.783 · p. 99
अनुष्टुप्
स्त्रियां शतपदी कर्णजलौकाः कुण्डलिन्यपि ।लूतामर्कटकस्तन्तुवायः स्यादूर्णनाभकः ॥ ७८४ ॥
2.4.784 · p. 99
अनुष्टुप्
उद्दंशो मत्कुणस्तुल्यौ श्रेणिका तु पिपीलिको ॥ ७८५ ॥
2.4.785 · p. 100