आकारणा
ākāraṇāस्त्री · fem.In 5 kośas: 5 synonym verses.
आकारणा भवेदाकारणं चटु च चाटु च ।परिवादः परीवादोऽप्यबद्धं स्यादबन्धकम् ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
संबोधनमामन्त्रणमाह्वानं त्वभिमन्त्रणं गदितम् ।आकारणा तु हूतिः संहूतिः सा कृता बहुभिः ॥ ३२ ॥
आर्याmetre not read in every line
genderस्त्रीfem.
आह्वानाकारणाऽहूतिर्विवादो वल्गनं द्वयोः ।
genderस्त्रीfem.
आहूतिर्हूतिराह्वानं स्यादाकारणमित्यपि ।आकारणा च पर्याय आह्वाने परिकीर्तितः ॥
अनुष्टुप्
genderस्त्रीfem.
प्रलापोऽनर्थकं वाक्यमपलापस्त्वपह्नवः ।अपव्ययोऽप्यवज्ञापि हूतिस्त्वाकारणा हवः ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.