All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
अन्तरिक्षकाण्डः · शब्दाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां अन्तरिक्षकाण्डे खगाध्यायः
शब्दो व्योमगुणस्वानस्वननिस्वाननिस्वनाः ।निर्ह्रादो रवणो नादः क्ष्वेडो ध्वानो ध्वनिः कवः ॥ १ ॥
2.4.1 · p. 31
अनुष्टुप्
कणिर्ह्रादो रसो ध्रूणा घोषो गुंजनमुंजने ।गंजनं मशनं कानं गानं कोरणरेदभणे ॥ २ ॥
2.4.2 · p. 31
अनुष्टुप्
कूजनं कूजितं गर्जा न क्लीबे गर्जना न ना ।क्रोश उच्चस्वने प्राणिस्वने त्वाराव आरवः ॥ ३ ॥
2.4.3 · p. 31
अनुष्टुप्
रवो विरावः संरावो रुतं चेत्यथ वाशनम् ।वाशितं च तिरश्चां स्याद्ध्वांक्षी स्त्री घोरवाशितम् ॥ ४ ॥
2.4.4 · p. 31
अनुष्टुप्
घोरितं तुरगादीनां नासापुटभवे ध्वनौ ।तंदनं रंभण रंभा रंभितं च गवां ध्वनिः ॥ ५ ॥
2.4.5 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
बुक्कनं श्ववृध्वाने भषणं भषितं शुनः ।वृकस्य रेषणं रेषा हेषा ह्रेषा च वाजिनाम् ॥ ६ ॥
2.4.6 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बृंहितं करिणां शब्दो राणोऽस्त्री मणितं रतेः ।काकुः स्त्री भिन्नकण्ठोत्थः शोककोपादिवैकृतात् ॥ ७ ॥
2.4.7 · p. 31
अनुष्टुप्
डक्कनं हात्कृते पत्रवस्त्रादीनां तु मर्मरः ।पर्दनं गुदने शब्दे कर्दनं कुक्षिकूजिते ॥ ८ ॥
2.4.8 · p. 31
अनुष्टुप्
विष्फारो धनुषः स्वानो भूषादीनां तु शिंजितम् ।प्रणादस्त्वनुरागोत्थश्चित्कृतं स्यंदनध्वनौ ॥ ९ ॥
2.4.9 · p. 31
अनुष्टुप्
स्रोतसां खरको युद्धध्वाने क्रंदनयोधने ।मार्जना मुरजध्वाने गुंदिलो मद्दलध्वनौ ॥ १० ॥
2.4.10 · p. 31
अनुष्टुप्
वाणं हुडुक्कहिक्कायां भेरीनादे तु टट्टरः ।क्वणनं क्वणितं क्वाणो निक्वाणो निक्वणः कणः ॥ ११ ॥
2.4.11 · p. 31
अनुष्टुप्
वीणायाः क्वणतेः प्रादेः प्रक्वाणप्रक्वणादयः ।स्त्री प्रतिश्रुत् प्रतिध्वाने तुमुलो व्याकुले भृशम् ॥ १२ ॥
2.4.12 · p. 32
अनुष्टुप्
गंभीरे मन्द्र उच्चे तु तारो रम्यास्फुटे कलः ।समाहितस्तु निर्दोषवर्णे दोषयुताः परे ॥ १३ ॥
2.4.13 · p. 32
अनुष्टुप्
अत्युच्चारणगर्वेण पीडितोऽपि समाहितः ।एणीकृतः प्रतिध्वानदंतुरो माहिषश्च सः ॥ १४ ॥
2.4.14 · p. 32
अनुष्टुप्
कल्हस्तु गलमूलस्थो गद्गदस्स मनाक्स्फुटः ।लालको बालानुकृतौ लल्लरो जिह्वया हतः ॥ १५ ॥
2.4.15 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ला (wrong syllable)
शिथिलोऽस्पष्टसंयोगस्तुंबुकः सानुनासिकः ।सांत्वं स्यान्मधुरं वाक्यं स्यादवाच्यमनक्षरम् ॥ १६ ॥
2.4.16 · p. 32
अनुष्टुप्
अनिर्बद्धं तूच्चावचमश्लिष्टार्थं तु संकुलम् ।अनृते वितथालीकावाहतं तु मृषार्थके ॥ १७ ॥
2.4.17 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च्चा (wrong syllable)
अंबूकृतं सनिष्ठीवं स्यादबध्दमनर्थकम् ।कल्या तु वाचि कल्याण्यां रुशती तद्विपर्यये ॥ १८ ॥
2.4.18 · p. 32
अनुष्टुप्
छलवाक् तु निरानन्दा शोकभारे तु तीरिता ।क्रोधगर्भा तु वैद्योता दैन्यगर्भा तु नश्वरी ॥ १९ ॥
2.4.19 · p. 32
अनुष्टुप्
निर्वेदगर्भा निस्संगा स्नेहगर्भा तु मालुकी ।विरहे खंडिता मोहे शून्या लोभे तु जांगली ॥ २० ॥
2.4.20 · p. 32
अनुष्टुप्
निष्ठुरा परुषा क्षेपे त्रिषु स्युस्तुमुलादयः ।अस्त्रियौ वर्णमर्णं च वाक्यं तु वचनं वचः ॥ २१ ॥
2.4.21 · p. 32
अनुष्टुप्
आम्रेडितं द्विस्त्रिरुक्तं गुणितं घोषितं समे ।अरणिर्ना मुहुः प्रोक्तमनुलापश्च वर्तनम् ॥ २२ ॥
2.4.22 · p. 32
अनुष्टुप्
संभाषणं त्वाभाषणमालापः कुरुकुंचिका ।उपसंभाषणं साम्नि तत्तूपच्छंदनं यदि ॥ २३ ॥
2.4.23 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भा (wrong syllable)
धनादि स्यात् प्रतिज्ञातं गुह्ये तदुपमंत्रणम् ।विभाषणं विवादे स्यादनुवादोऽनुभाषणम् ॥ २४ ॥
2.4.24 · p. 33
अनुष्टुप्
आख्यायनी तु सन्देशो दिष्टं संवदनं च तत् ।संवादनं वाचिकं च वलना त्वतिचाटुवाक् ॥ २५ ॥
2.4.25 · p. 33
अनुष्टुप्
लुंजना पिंजना चेति सूत्रिते वचनद्वयम् ।भंजना स्याद्विवरणे पोटना तूत्कटं वचः ॥ २६ ॥
2.4.26 · p. 33
अनुष्टुप्
कोलाहलः कलकलः कुंजनाऽस्मिन्नपकुधि ।चर्चरी चर्भटिस्तुल्ये रथ्यावादे तु कोहलम् ॥ २७ ॥
2.4.27 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 प (wrong syllable)
उध्दूमस्तु क्रूरवाक् स्यात् विगर्वा गर्वहारिका ।लोचना तु विचारोक्तिर्लोटना सानुसारवाक् ॥ २८ ॥
2.4.28 · p. 33
अनुष्टुप्
विप्रलापो विरोधोक्तिः संलापो भाषणे मिथः ।काक्वा वर्णनमुल्लापो विलापः परिदेवनम् ॥ २९ ॥
2.4.29 · p. 33
अनुष्टुप्
प्रलापोऽनर्थकं वाक्यमपलापस्त्वपह्नवः ।अपव्ययोऽप्यवज्ञापि हूतिस्त्वाकारणा हवः ॥ ३० ॥
2.4.30 · p. 33
अनुष्टुप्
हक्कारामंत्रणाह्वानं सहूतिर्बहुभिः कृता ।अभिधानं नामधेयं नामाख्याह्वाभिधाह्वयः ॥ ३१ ॥
2.4.31 · p. 33
अनुष्टुप्
मिथ्याभियोगोऽभिख्यानमभिशापोऽभिशंसनम् ।शापोऽधिक्षेप आक्रोशः परिवादोऽप्यवर्णवत् ॥ ३२ ॥
2.4.32 · p. 33
अनुष्टुप्
अवर्णवादो निर्वादोऽप्यपवादो विरूक्षणम् ।क्षारणं गर्हणं निन्दा जुगुप्सागालिकुत्सनाः ॥ ३३ ॥
2.4.33 · p. 33
अनुष्टुप्
जनवादस्तु वचनं भर्त्सनं प्रतितर्जनम् ।आक्षारणं निधुवनमाक्रोशो मैथुनं प्रति ॥ ३४ ॥
2.4.34 · p. 33
अनुष्टुप्
उत्प्रासः स्यादुपालंभः परिवाग्भाषणीति च ।श्लाघा शंसा प्रशंसा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ३५ ॥
2.4.35 · p. 33
अनुष्टुप्
यशो जयोदाहरणं साधुवादो गुणावली ।ख्यातिः कीर्तिः समज्ञा च संदेशगिरि वाचिकम् ॥ ३६ ॥
2.4.36 · p. 34
अनुष्टुप्
अर्थवादः परार्थोक्तिः प्रश्नः पर्यनुयोगवत् ।अनुयोगश्च पृच्छा च प्रतिवाक्यं तदुत्तरम् ॥ ३७ ॥
2.4.37 · p. 34
अनुष्टुप्
कथा त्वाख्यायिकाख्यानं पुराणं पंचलक्षणम् ।इतिहासः पुरावृत्तमैतिह्यमितिहाव्ययम् ॥ ३८ ॥
2.4.38 · p. 34
अनुष्टुप्
वार्तोदन्तोऽपि वृत्तान्तः किंवदन्ती जनश्रुतिः ।प्रवल्हिका प्रहेलिका प्रजल्पनं बहूदितम् ॥ ३९ ॥
2.4.39 · p. 34
अनुष्टुप्metre not read in every line
विकल्पना पृथक्क्रियावधारणान्यनिह्नुतिः ।समस्या तु समासः स्यात् संक्षेपः स्यादविस्तरः ॥ ४० ॥
2.4.40 · p. 34
अनुष्टुप्metre not read in every line
उपोद्घात उदाहार उपन्यासः पुरोवचः ।प्रस्तावः पुनरुद्घातः सोऽधिकार उपक्रमः ॥ ४१ ॥
2.4.41 · p. 34
अनुष्टुप्
गद्यपद्यमयी चंपूः सारणी पद्यमात्रिका ।शृंगाराद्यधिकं काव्यं समासाढ्यं तु दंडकम् ॥ ४२ ॥
2.4.42 · p. 34
अनुष्टुप्