All kośas › Pañcatattvaprakāśa
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa
409 verses · 3,817 words tagged · 962 marked doubtful (dashed)
आकाशभानुः · शब्दमरीचिः
इति दिक्पालमरीचिः ।
शब्दो निनादो निनदो ध्वनिः ध्वानः स्वनो रवः ॥ ३५५ ॥
6.2.355 · p. 25
निःस्वानो निस्वनो नादो ह्रादनिर्घोषरावकाः[कः] ।मर्मरो वस्त्रपर्णोत्थः सिञ्जितं भूषणारवः ॥ ३५६ ॥
6.2.356 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वीणाशब्दः क्वणः क्वाणो निक्वाणः प्रक्वणाक्वणौ ।प्रतिशब्दः प्रतिध्वानं गीतं रागो रसारवः ॥ ३५७ ॥
6.2.357 · p. 25
अनुष्टुप्
वासितं पाशवारावो ह्रेषितं वाजिनिस्वनः ।कोलाहलः कलकलो बृंहितं गजगर्जितम् ॥ ३५८ ॥
6.2.358 · p. 25
अनुष्टुप्
स्तनितं मेघनिनदो गर्जितं वारिदारवः ।बिब्बोकः क्रीडनरवो भणितं रतजल्पितम् ॥ ३५९ ॥
6.2.359 · p. 25
अनुष्टुप्
प्रच्छा प्रश्नोऽनुयोगाख्यः प्रत्युक्तिः प्रतिवाचिकम् ।जनःश्रुतिः किंवदन्ती कुत्सा निन्दाविगर्हणे ॥ ३६० ॥
6.2.360 · p. 25
अनुष्टुप्
सुप्तिङन्तं पदं वाक्यं वचनं भाषितं वचः ।प्रणवादिः श्रुतिर्वेद आम्नायः कण्डिका तनुः ॥ ३६१ ॥
6.2.361 · p. 25
अनुष्टुप्
स्मृतिर्वेदार्थगुटिका मुनिवाक् धर्मसंहिता ।इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणम् ॥ ३६२ ॥
6.2.362 · p. 25
अनुष्टुप्
भीतिः शोकारवः काकुरुपन्यासोऽतिवाङ्मयम् ।आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्ट[ष्ठ]नघोषणे ॥ ३६३ ॥
6.2.363 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कथा प्रबन्धकलना नुतिः स्तोत्रं स्तुतिः स्तवः ।शपनं शपथः शापो क्रोधाद्दुष्टविकत्थनम् ॥ ३६४ ॥
6.2.364 · p. 25
अनुष्टुप्
आह्वानाकारणाऽहूतिर्विवादो वल्गनं द्वयोः ।
6.2.11 · p. 25