अवज्ञा
avajñāस्त्री · fem.In 15 kośas: 15 synonym verses, 12 as a meaning of another word.
रीढावज्ञावहेलान्यसूर्क्षणं चाप्यनादरे ॥ १४७९ ॥
अनुष्टुप्
genderस्त्रीfem.
अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २२ ॥रीढावमाननावज्ञावहेलनमसूर्क्षणम् ।
अनुष्टुप्
genderस्त्रीfem.
आगूः सङ्गरसन्धाप्रतिश्रवाः संश्रवः प्रतिज्ञा च ।हेला स्यादवहेलं रीढावज्ञावलीढा च ॥ ७१५ ॥
आर्या
genderस्त्रीfem.
चित्तोन्नतिरथावज्ञा हेला चैवावमानना ।अवहेला परीभावोऽवमानश्च पराभवः ॥ १३१ ॥
अनुष्टुप्
genderस्त्रीfem.
न पुंसि वीर्यं शौण्डीर्यमवज्ञा चातिशक्तिता ।बीभत्सो विकृतः पुंसि वैकृतस्त्रिष्वथार्त्तनम् ॥ १३५ ॥
अनुष्टुप्
genderस्त्रीfem.
पश्चात्तापोऽप्यथावज्ञा रीढा लीढावमानना ॥ १४० ॥
genderस्त्रीfem.
अवहेलाप्यवज्ञा स्याद्रीढाथोन्मूलिते पुनः ।आवर्हितोद्धृतोपाटितानि त्रिषु मतान्यथ ॥ ३५९ ॥
अनुष्टुप्
genderस्त्रीfem.
रौद्रे तूग्रं दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।तिरस्क्रिया तिरस्कारे लीढावज्ञावहेलनम् ॥ १६७ ॥
अनुष्टुप्
genderस्त्रीfem.
अनादरः परिभवो रीढावज्ञा तिरस्क्रिया ।अवहेलावगणना तक्षणं चापमानता ॥ १२८ ॥
अनुष्टुप्
genderस्त्रीfem.
अवज्ञाऽनादरो रीढा ह्यसूक्षणमसूर्क्षणम् ।अवगणनाऽवमाननं तिरस्क्रिया च नाम स्यात् ॥ २६८९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
स्यादवज्ञा परीहारः परिहारः पराभवः ।अपमानं परिभवस्तिरस्कारस्तिरस्क्रिया ॥
अनुष्टुप्
genderस्त्रीfem.
रीढावमाननावज्ञा परिभूतिस्तिरस्क्रिया ।अवहेडः परिभवः परीभावोऽप्यनादरः ॥ ९७३ ॥
अनुष्टुप्
genderस्त्रीfem.
मसिर्ना ध्यामलं तु स्याद्धयामोऽवज्ञा तु पांसनम् ।डमरुस्तु चमत्कारः प्रौढिस्तु कियदेतिका ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
प्रलापोऽनर्थकं वाक्यमपलापस्त्वपह्नवः ।अपव्ययोऽप्यवज्ञापि हूतिस्त्वाकारणा हवः ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
रीडावमाननावज्ञाप्यवहेलमसूर्क्षणम् ।उच्चलं मानसं चेतश्चित्तमुच्चलितं मनः ॥ १७२ ॥
अनुष्टुप्
genderस्त्रीfem.
अवज्ञा as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् हेलास्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः । Amarakośa 3.3.389
- धरणिकोश हेलालीला विलासक्रिययोर्हेलावज्ञाविलासयोः । आलिः सेतुः सखी पङ्क्तिः पल्ली ग्रामकुटी तथा ॥ Dharaṇikośa 27.1.4
- धरणिकोश पराभवपराभवौ नाशावज्ञे परिप्लवौ चपलाकुलौ । उपप्लवौ राहुयोगौ जीवंजीवौ द्रुपक्षिणौ ॥ Dharaṇikośa 28.1.6
- कोषकल्पतरु अवग्रहिझषते चीवते तद्वदादाने स्युर्जुहोति च । अवाद्ग्रहिरवज्ञायां स्वातन्त्र्यप्रतिरोधने ॥ ३० ॥ Koṣakalpataru 3.5.30
- कोषकल्पतरु निकरोतिनिर्माति च विधत्ते स्युः करणे कृस्तु(?) नेर्भवेत् । अवज्ञावञ्चनाशाठ्यनिन्दाभर्त्सनवाचकः ॥ ५२ ॥ Koṣakalpataru 3.5.52
- नानार्थार्णवसंक्षेप हेलाहिंसा चौर्यादिके घातेऽथो प्रस्तावविलासयोः । अवज्ञायां च हेलाथ होरा लग्नार्धलग्नयोः ॥ १२६ ॥ Nānārthārṇavasaṃkṣepa 2.1.126
- नानार्थार्णवसंक्षेप अत्याकारअवज्ञायां त्रिषु पुनरत्याकृतिनि नप् पुनः । काञ्जिकेऽभिषवे चाभिषुतं स्यात् त्वन्यलिङ्गकम् ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 6.21
- शब्दरत्नावली क्रीडाक्रीडा केलिप्रभेदे स्यादवज्ञाखेलयोरपि । कुण्डं वह्निगृहे मानभेदे सुरजलाशये ॥ Śabdaratnāvalī 7.13.4
- शब्दरत्नावली हेलाहलो हले सुरायां स्त्री हलाहाली च कुत्रचित् । हेला स्त्रियां स्त्रीविलासेऽवज्ञायाञ्च निगद्यते ॥ Śabdaratnāvalī 7.28.39
- त्रिकाण्डशेष हेलाऋजौ वृक्षे च सरलः सालो वरणसर्जयोः । हस्तिमल्लो गजास्ये च हेलाऽवज्ञाविलासयोः ॥ ४११ ॥ Trikāṇḍaśeṣa 3.3.411
- वैजयन्ती हेलास्थूणा सूर्म्यां गृहस्तंभे हिंसा चौर्यादिके वधे । हेलावज्ञाभावचारौ हेतिर्ज्वालांशुरायुधम् ॥ ४६ ॥ Vaijayantī 6.2.46
- वैजयन्ती पराभवअग्निरुद्रौ पशुपती नाशावज्ञे पराभवौ । रक्षः सन्तौ पुण्यजनौ नीचमूर्खौ पृथग्जनौ ॥ २६ ॥ Vaijayantī 8.1.26