कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हव

havaपुं · masc.

In 12 kośas: 14 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.261 · p. 15
संबोधनमामन्त्रणमाह्वानं त्वभिमन्त्रणम् ।आकारणं हवो हूतिः संहूतिर्बहुभिः कृता ॥ २६१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.8
व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.58 · p. 75
विष्णुपर्यायवचनो मन्युस्तोमश्च संस्तरः ।प्रयाग आहवश्चैव मिष्टश्चाभिषवो हवः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.41 · p. 239
व्यधा वेधे पचा पाके विपाकः पचनं पुनः ।विश्रामविश्रमौ तुल्यौ हवो हूतौ वरो वृतौ ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ प्रकीर्णवर्गः Koṣakalpataru 3.4.16 · p. 31
सम्मूर्छनमभिव्याप्तिः स्फुरणे स्फुरणा स्त्रियाम् ।हूतौ हवोऽथ पुत्रीया पुत्रकाम्या पुपुत्रिषा ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.176 · p. 26
इतिहासः पुरावृत्तं सर्वविद्या कलन्दिका ।संबोधनं तथाह्वानमामन्त्रणहवावपि ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.129 · p. 32
अभिधानं नामधेयं नामाख्या आह्वयोऽभिधा ।गोत्रं संज्ञा च संबुद्धिर्हूतिराकरणं हवः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.378 · p. 49
आकारणं तथाऽऽकारो हूतिराकारणं हवः ।हक्कारकश्च हक्कारः संहूतिर्बहुभिः कृता ॥ ३७८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.26 · p. 112
हवोऽभिषवहोमौ च हवनं मह इत्यपि ।नृपाध्वरो राजसूयः क्रतुराजः क्रतूत्तमः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.17 · p. 171
ओषः प्लोषश्च दाहे स्यात् ज्यानिः जीर्णिश्च हानिषु ।आह्वानेषु हवो हूतिः स्फातिर्वृद्धौ स्नवः स्रवे ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1171 · p. 144
ब्रह्माग्रजन्मा यज्ञस्तु सप्ततन्तुः सवः क्रतुः ।हवोऽध्वरो मखो यागो वितानं सवनं समे ॥ ११७१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1697 · p. 204
हवो हूतौ तथा गीर्णिर्गिरौ गुरणमुद्यमे ।क्षिपा क्षेपे नयो नाये रसे रासः स्नवः स्रवे ॥ १६९७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.18 · p. 10
वमिर्भुजिः पचिः साचिश्चिरिर्वंचतिरंचतिः ।जागृविः सहुरिः सद्धिर्दमुना हवनो हवः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शब्दाध्यायः Vaijayantī 2.4.30 · p. 33
प्रलापोऽनर्थकं वाक्यमपलापस्त्वपह्नवः ।अपव्ययोऽप्यवज्ञापि हूतिस्त्वाकारणा हवः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.207
अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः ॥ २०७ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास वार्धश्लोकः Dharaṇikośa 28.2.3 · p. 205
धवो नरे धवो वृक्षे धवो भर्ता च योषिताम् ।हव आह्वानमाख्यातं हव आज्ञा हवः क्रतुः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.92 · p. 357
हवो मखाह्वाननिदेशवाचीशवोऽस्त्रियां स्यान्मृतकेऽब्जलेऽन्त्ये ।सवस्तु संधानमखार्थकः स्यात्क्षवः क्षुते स्यान्नरि राजिकायाम् ॥ ९२ ॥
उपेन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.137 · p. 32
देयभेदेऽध्वमाने च दशधन्वन्तराह्वये ।हवस्तु यज्ञ आज्ञायामाह्वाने वह्निहोमयोः ॥ १३७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.24 · p. 286
हव आज्ञाह्वानयज्ञे ह्रस्वः स्यात्खर्वनीचयोः ।
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2029 · p. 246
कपिभेकांशुवाहेषु हरिर्ना पिङ्गले त्रिषु ।हव आह्वानमखयोर्हेतुः कारणजन्मनोः ॥ २०२९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.67 · p. 219
स्तूपा वायुरणोच्छ्राया आज्ञाह्वानाध्वरा हवाः ।हर्तुर्मृत्यौ महारागे हरा रुद्राग्निगर्दभाः ॥ ६७ ॥
अनुष्टुप्