इषिर
iṣiraपुं · masc.In 3 kośas: 2 synonym verses, 4 as a nānārtha head word.
इषिरस्तिथशुष्णौ च राजन्यो जुहुराणवत् ।वाशिर्दक्षिणपूर्वेशः शमीगर्भो धनंजयः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
सृदाकुर्भरथः पीथो जुहुराणेषिराशिराः ।तेजोऽप्पित्तमपांपित्तं स्वाहाग्नायी च तत्प्रिया ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
स्याज्झर्झरोऽस्त्री कलिकालवाचीवाद्यप्रभेदे च नदान्तरे ना ।अङ्गारके ना रुधिरोऽथ रक्ते-ऽन्त्येकुङ्कुमेऽग्नौ तु तथेषिरः स्यात् ॥ ५ ॥
इन्द्रवज्रा
meaningsअग्नि
आहारके चाथ गजेन्दुवाचीस्याच्चन्दिरोऽथो मुदिरः पयोदे ।क्रमेऽथ सूर्ये मिहिरश्च बुद्धे-ऽभीकाज्ञयोः स्यान्मुहिरस्तथैव ॥ ६ ॥
उपजातिः
meaningsआहारक
doubtful
इषोः क्षेप्तर्यथ पुमानिषिरो जातवेदसि ।ऐषिराख्यस्य साम्नश्च द्रष्टरि स्यादिषावपि ॥ २२५ ॥
अनुष्टुप्
तृणे तु क्ली त्रिषु पुनरिरिणं शून्य ऊषरे ।क्लीबं तु केचिन्मन्यन्ते क्लीबं दुर्गे वनेऽपि च ॥ २२६ ॥
अनुष्टुप्
meaningsतृण
doubtful