कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

स्वर्गकाण्डः · लोकपालाध्यायः

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां स्वर्गकाण्ड आदिदेवाध्यायः

इन्द्रो दुश्च्यवनो वज्री वृत्रारिर्वासवो वृषा ।वृद्धश्रवाः शुनासीरः सहस्राक्षो दिवस्पतिः ॥ १ ॥
1.2.1 · p. 9
अनुष्टुप्
वास्तोष्पतिर्बलरिपुः पुरुहूतः पुरन्दरः ।मघवान् पूर्वदिक्पालः पृतनाषाट् सुराधिपः । ॥ २ ॥
1.2.2 · p. 9
अनुष्टुप्
संक्रन्दनो हरिहयो गोत्रभित् पाकशासनः ।पुलोमशत्रुर्हरिवानूर्ध्वधन्वा शचीपतिः । ॥ ३ ॥
1.2.3 · p. 9
अनुष्टुप्
कारुर्जंभरिपुर्जिष्णुर्मरुत्वान् हरिवाहनः ।स्वाराडृभुक्षाः सुत्रामा विडौजाः सितकुञ्जरः ॥ ४ ॥
1.2.4 · p. 9
अनुष्टुप्
भूरिश्रवाश्चित्ररथः सुनासीरो युधिष्ठिरः ।परमन्युर्वज्रपाणिः शतमन्युर्विभीषणः ॥ ५ ॥
1.2.5 · p. 9
अनुष्टुप्
आखण्डल उग्रधन्वा मेषाण्डोऽप्सरसां पतिः ।खदिरो माहिरो दाल्मिः शयीचिर्वियुनो जयः ॥ ६ ॥
1.2.6 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
गौरावस्कन्दिवन्दीकौ वारणो देवदुन्दुभिः ।महेन्द्रो बाहुदन्तेयस्तुराषाड्वज्रदक्षिणः ॥ ७ ॥
1.2.7 · p. 9
अनुष्टुप्
वृषण्वसु धनाद्यस्य पुराजः शान्तिकर्मकृत् ।सुतो जयो जयन्तश्च जयदत्तोऽप्यथो सुता ॥ ८ ॥
1.2.8 · p. 9
अनुष्टुप्
जयन्ती देवनन्दी तु द्वार्स्थः सूतस्तु मातलिः ।प्रासादो वैजयन्तोऽस्य वैजयन्तो ध्वजोऽपि च ॥ ९ ॥
1.2.9 · p. 9
अनुष्टुप्
अमरावत्यस्य पुरी स्यात्सुदर्शनमित्यपि ।अश्वोऽस्य वृषणश्वः स्यादारामस्त्वस्य नन्दनम् ॥ १० ॥
1.2.10 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्य (wrong syllable)
क्रीडासरो नंदिसरः क्रीडाभूस्त्वस्य नन्दिका ।पुलोमजा शचीन्द्राणी पौलोमी जयवाहिनी ॥ ११ ॥
1.2.11 · p. 9
अनुष्टुप्
ऐरावतो राथन्तरिरभ्रनागोऽभ्रमुप्रियः ।ऐरावणश्चतुर्दंष्ट्रः सूर्यभ्रातारिमर्दनः ॥ १२ ॥
1.2.12 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable)
अस्त्रियौ वज्रकुलिशौ भिदुरं शतधारकम् ।व्याधामः पुंसि दंभोलिः शतकोटिः पविर्भिंदुः ॥ १३ ॥
1.2.13 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्भिं (wrong syllable)
वह्निर्वैश्वानरो घासिः कृष्णवर्त्मा समन्तभुक् ।जातवेदा बृहद्भानुर्वीतिहोत्रस्तनूनपात् ॥ १४ ॥
1.2.14 · p. 10
अनुष्टुप्
दहनो ज्वलनः शुष्मा रोहिताश्व उषर्बुधः ।शोचिष्केशस्त्रिधामाग्निरुदर्चिः पावकोऽनलः ॥ १५ ॥
1.2.15 · p. 10
अनुष्टुप्
हिरण्यरेताः सप्तार्चिर्वसुरेता हुताशनः ।कृपीटयोनिरर्चिष्मान् धूमकेतुर्दुरासदः ॥ १६ ॥
1.2.16 · p. 10
अनुष्टुप्
मन्त्रजिह्वः सप्तजिह्वः स्रुग्जिह्वो हव्यवाहनः ।आश्रयाशो वातसखः कृशानुर्वातसारथिः ॥ १७ ॥
1.2.17 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 वा (wrong syllable)
वमिर्भुजिः पचिः साचिश्चिरिर्वंचतिरंचतिः ।जागृविः सहुरिः सद्धिर्दमुना हवनो हवः ॥ १८ ॥
1.2.18 · p. 10
अनुष्टुप्
सृदाकुर्भरथः पीथो जुहुराणेषिराशिराः ।तेजोऽप्पित्तमपांपित्तं स्वाहाग्नायी च तत्प्रिया ॥ १९ ॥
1.2.19 · p. 10
अनुष्टुप्
स्कन्धाग्निः स्थूलकाष्ठाग्निर्मुर्मुरस्तु तुषानलः ।छागणस्तु करीषाग्निर्मेघवह्निरिरंमदः ॥ २० ॥
1.2.20 · p. 10
अनुष्टुप्
कुक्ष्यग्निर्हृच्छयोऽथौर्वे द्वौ संवर्तकवाडवौ ।सहरक्षा दवो दुध्रस्तार्णे क्षामतरत्समौ ॥ २१ ॥
1.2.21 · p. 10
अनुष्टुप्
क्रव्यात्तु प्रेतदाहाग्निर्देवाग्निर्हव्यवाहनः ।सहरक्षास्तु दैत्यानां पितॄणां कव्यवाहनः ॥ २२ ॥
1.2.22 · p. 10
अनुष्टुप्
अपोनपात्तु यज्ञाग्निः क्रत्वग्निः स्यादपान्नपात् ।शुक्रान्वाहार्यपचनावध्वरे दक्षिणानले ॥ २३ ॥
1.2.23 · p. 10
अनुष्टुप्
गार्हपत्यो गृहपतिः पवमानश्च पश्चिमे ।शंस्य आहवनीयश्च पूर्वोऽग्निर्हव्यवाहनः ॥ २४ ॥
1.2.24 · p. 11
अनुष्टुप्
सभ्यावसथ्यौ तत्पूर्वावायुः स्यात् पाशुबंधिकः ।पथिकृद्वर्त्महोमेषु पदहोमेष्वनीकवान् ॥ २५ ॥
1.2.25 · p. 11
अनुष्टुप्
आधानादिष्वहस्तानः सुरभिर्यूपकर्मणि ।ब्रह्मौदनाग्निर्भरतो यविष्ठः सवनाहुतौ ॥ २६ ॥
1.2.26 · p. 11
अनुष्टुप्
महिमांस्तु विवाहाग्निर्वैश्वदेवाग्निरद्भुतः ।व्रतांते बहुरन्नादः सुलभः पाकयाज्ञिकः ॥ २७ ॥
1.2.27 · p. 11
अनुष्टुप्
सव्यस्तु मृतके वह्निरपसव्यस्तु सूतके ।धूमस्तरिर्मेघवाही धूपोऽसौ गंधवासितः ॥ २८ ॥
1.2.28 · p. 11
अनुष्टुप्
शिखा जिह्वार्चिरपुमान् कीला ज्वाला च नृस्त्रियोः ।झलका तु महाज्वाला प्रवर्ग्यो नीलकोऽपि च ॥ २९ ॥
1.2.29 · p. 11
अनुष्टुप्
सप्त जिह्वाः पुनः काली कराली विष्फुलिंगिनी ।धूमवर्णा विश्वरुचिर्लोहिता च मनोजवा ॥ ३० ॥
1.2.30 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
त्रयी स्फुलिंगोऽपुञ्जो ना खड्गांगश्चाथ संज्वरः ।सन्तापः स्यात् प्रकाशस्तु द्योत आलोक आतपः ॥ ३१ ॥
1.2.31 · p. 11
अनुष्टुप्
दीप्ताग्रं काष्ठमुल्का स्यात्क्रमुकोऽलातमुल्मुकम् ।अंगारोऽस्त्री प्रशान्तार्चिरिंगालः कारिकाग्निविट् ॥ ३२ ॥
1.2.32 · p. 11
अनुष्टुप्
भासतं भस्म भूतिः स्यादग्न्युत्पात उपाहितः ।यमः पितृपतिर्दण्डधरो महिषवाहनः ॥ ३३ ॥
1.2.33 · p. 11
अनुष्टुप्
यमराड्यमुनाभ्राता मन्दो वैवस्वतोऽन्तकः ।सावित्रेयः श्राद्धदेवः समवर्ती परेतराट् ॥ ३४ ॥
1.2.34 · p. 11
अनुष्टुप्
कालः कृतान्तः शमनः कीनाशो दक्षिणाधिपः ।धर्मराजः पुराणान्तः कालकुन्थो विशीर्णपात् ॥ ३५ ॥
1.2.35 · p. 11
अनुष्टुप्
पत्नी यमस्य धूमोर्णा चित्रगुप्तस्तु लेखकः ।पंजिका त्वग्रसन्धानी कालीची तु विचारभूः ॥ ३६ ॥
1.2.36 · p. 12
अनुष्टुप्
नरको नारकोऽप्येष निरयो दुर्गतिः स्त्रियाम् ।अवीच्यन्ता रौरवाद्याः प्रायशो नरका नरि ॥ ३७ ॥
1.2.37 · p. 12
अनुष्टुप्
नारका जंतवः प्रेता यात्या अप्यातिवाहिकाः ।प्रेताः परेता वेताला गंधर्वाः सत्त्वका ग्रहाः ॥ ३८ ॥
1.2.38 · p. 12
अनुष्टुप्
यातना कारण दुःखं त्वामनस्यं प्रसूतिजम् ।स्यात् कष्टं कृच्छ्रमाभीलं त्रिष्वेषां तद्वदर्थकाः ॥ ३९ ॥
1.2.39 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण (wrong syllable)
अथ रक्षांसि यातूनि राक्षसा अललोहिताः ।रात्रिञ्चरा रात्रिचराः क्रव्यात्क्रव्यादनैर्ऋताः ॥ ४० ॥
1.2.40 · p. 12
अनुष्टुप्
कैकसेया यातुधानाः पुरुषादाः प्रवाहिकाः ।अनुषा विधुरा रक्तग्रहाः शंकव आशराः ॥ ४१ ॥
1.2.41 · p. 12
अनुष्टुप्
अलक्ष्मीर्निर्ऋतिर्ज्येष्ठा रावणस्तु हरानतः ।दशास्यो विंशतिभुजश्चतुष्पान्मानमन्दिरः ॥ ४२ ॥
1.2.42 · p. 12
अनुष्टुप्
लंकेश्वरो यातुपतिः सन्नाहोऽस्य विचोलकः ।चन्द्रहासस्तु खड्गोऽस्य क्रीडाभूस्त्वमरावली ॥ ४३ ॥
1.2.43 · p. 12
अनुष्टुप्
अशोकवनिकोद्यानं त्रिशिराः समनीपदः ।इन्द्रजिन्मेघनादः स्यात् प्रहस्तः स्यादलंबुसः ॥ ४४ ॥
1.2.44 · p. 12
अनुष्टुप्
वरुणः शीतलो वामो दुंदुभिः संवृतोऽप्पतिः ।अंबुवासोंऽबुकान्तारः पाशी मकरवाहनः ॥ ४५ ॥
1.2.45 · p. 12
अनुष्टुप्
प्रचेता यादसान्नाथः प्रत्यगाशापतिस्तथा ।जलभूषण उद्दामो गौरी तु वरुणप्रिया ॥ ४६ ॥
1.2.46 · p. 12
अनुष्टुप्
वातो वायुर्जगत्प्राणः शुषिलः श्वसनोऽनिलः ।गन्धवाहो गन्धवहो मातरिश्वा समीरणः ॥ ४७ ॥
1.2.47 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
युजिनो लघुगो वातिर्ध्वजप्रहरणो जगन् ।दैत्यदेवो वहः प्राणो नभःप्राणोंऽकतिः सरः ॥ ४८ ॥
1.2.48 · p. 13
अनुष्टुप्
आशुगः पवनः स्पर्शः पवमानः प्रभञ्जनः ।मरुद्धूलिध्वजो मर्कः समीरोऽग्निसखश्चलः ॥ ४९ ॥
1.2.49 · p. 13
अनुष्टुप्
शुष्मिर्महाबलो वेगी नभोजातः सदागतिः ।नभस्वान् मारुतः शीघ्रः पृषदश्वः प्रकम्पनः ॥ ५० ॥
1.2.50 · p. 13
अनुष्टुप्
संक्रावातः सवृष्टिः स्याद्वात्यावातस्तु मण्डली ।मृदुवातश्चिञ्चिलिको लेढा लिट् सौरतोऽपि च ॥ ५१ ॥
1.2.51 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चि (wrong syllable)
मध्यमो हारितो नेरी यौनिकः स्वेदचूषकः ।खरः स्वरिंगणोऽथासौ ग्रीष्मो झंझानिलोऽनिलः ॥ ५२ ॥
1.2.52 · p. 13
अनुष्टुप्
पयोदान्ते तु पवनो वसन्तेऽमलपालिकः ।गरवायुर्निदाघेऽल्पः शिशिरे सपुटानिलः ॥ ५३ ॥
1.2.53 · p. 13
अनुष्टुप्
जारवायुस्तु हेमन्ते शारदः सारणः शरः ।गोगन्धनः पुरोवात उत्तरस्तु हिमानिलः ॥ ५४ ॥
1.2.54 · p. 13
अनुष्टुप्
रंहस्तरः क्ली प्रसभो जवो वेगः स्यदो रयः ।कुबेरो यक्षराड्यक्षः कुतनुः किन्नरेश्वरः ॥ ५५ ॥
1.2.55 · p. 13
अनुष्टुप्
मनुष्यधर्मैलबिलः पौलस्त्यो धनदो धनी ।कैलासनाथस्त्रिशिरा धनाध्यक्षो वटाश्रयः ॥ ५६ ॥
1.2.56 · p. 13
अनुष्टुप्
निधिपालो वैश्रवणो वित्तेशो नरवाहनः ।राजराजः पराविद्धः किशाली गुह्यकेश्वरः ॥ ५७ ॥
1.2.57 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
एकपिङ्गो रुद्रसखः कुडः पुण्यजनेश्वरः ।इच्छावसूरत्नगर्भो रत्नहस्तः सितोदरः ॥ ५८ ॥
1.2.58 · p. 13
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 रु (wrong syllable)
अस्योद्यानं चैत्ररथं पुत्रस्नु नलकूबरः ।पुरी वस्वौकसारास्य विमानं पुष्पकोऽस्त्रियाम् ॥ ५९ ॥
1.2.59 · p. 13
अनुष्टुप्
निधानं गूढकोशो ना निधिः शेवधिरस्त्रियाम् ।भेदाः पद्मो महापद्मः शंखो मकरकच्छपौ ॥ ६० ॥
1.2.60 · p. 14
अनुष्टुप्
मुकुंदकुंदनीलाश्च चर्चश्चेति निधेर्नव ॥ ६०.५ ॥
1.2.61 · p. 14