कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

नानालिङ्गाध्यायः (2/18)

जलपक्षिविशेषे च स्यादथो अतसः पुमान् ।वनस्पतिप्रभेदे स्यादतसी तु स्त्रियामियम् ॥ १२१ ॥
4.121 · p. 57
अनुष्टुप्
उमासंज्ञे धान्यभेदे वने तु स्यान्नपुंसकम् ।अवसं क्ली भवेच्चापे ना पाथेयाशनीयके ॥ १२२ ॥
4.122 · p. 57
अनुष्टुप्
वसाहीने पुनस्त्रिः स्यादबला नु स्त्रियामियम् ।तथा चर्वितताम्बूलरसे भार्याग्रजे तु ना ॥ १२३ ॥
4.123 · p. 57
अनुष्टुप्
बलहीने पुनस्त्रिः स्यादजयस्योत्तरं वचः ।अवेलः पुंस्यापालापे स्त्र्यवेला पूगचूर्णके ॥ १२४ ॥
4.124 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)
इत्यन्यत्र च वेलायां वेलाहीने तु भेद्यवत् ।अलर्कस्तु सितार्के ना क्ली तु तत्फलपुष्पयोः ॥ १२५ ॥
4.125 · p. 57
अनुष्टुप्
शाकभेदेऽप्यलर्काख्या द्वे तु स्याद्रोहिते शुनि ।अलका स्त्री कुबेरस्य नगरे मूर्धजे पुनः ॥ १२६ ॥
4.126 · p. 57
अनुष्टुप्
कुटिले पुंसि शण्डस्तु स्यादश्वीयं कदम्बके ।अश्वानां त्रिस्त्वश्वहिते स्त्री त्वश्वीयाश्वलाञ्छने ॥ १२७ ॥
4.127 · p. 57
अनुष्टुप्
अण्डीरः पुरुषे पुंसि सज्जने मुष्कवत्पशौ ।त्रि तु शक्तेऽथाण्डुको ना मुष्के स्याद्द्वे तु टिट्टिभे ॥ १२८ ॥
4.128 · p. 58
अनुष्टुप्
अङ्कुरस्त्वस्त्रियां बीजप्ररोहे किञ्च शाखिनाम् ।प्रतानभेदे क्लीबं तु रुधिरे रोम्णि वारिणि ॥ १२९ ॥
4.129 · p. 58
अनुष्टुप्
अथापरं क्लीबलिङ्गं सिद्धान्ते मुनयोः विदुः ।गजपाश्चात्यभागेऽथ त्रिः पूर्वप्रतियोगिनि ॥ १३० ॥
4.130 · p. 58
अनुष्टुप्
अन्यस्मिन्नप्यथापारः समुद्रे ना त्रिषु त्वयम् ।अविद्यमानपारे स्यादशिवस्तु पुमानयम् ॥ १३१ ॥
4.131 · p. 58
अनुष्टुप्
अग्नौ क्ली रश्मिहविषोरम्बष्ठस्तु द्वयोरयम् ।वैश्यायां ब्राह्मणाज्जाते विवाहादपरे पुनः ॥ १३२ ॥
4.132 · p. 58
अनुष्टुप्
ब्राह्मणात् क्षत्त्रियाजाते विवाहेनेति मन्वते ।सवर्णाख्ये नृपात् तूढवैश्यायामपरे विदुः ॥ १३३ ॥
4.133 · p. 58
अनुष्टुप्
जाते माहिष्यसंज्ञाके स्त्री त्वम्बष्ठा विधीयते ।पाठाशार्ङ्गाष्ठयोर्यूथीचाङ्गेर्योः स्थावरान्तरे ॥ १३४ ॥
4.134 · p. 58
अनुष्टुप्
मयूरविदलासंज्ञे काकमाच्यां च कश्चन ।वैजयन्त्यां तु पिप्पल्यामप्यम्बष्ठामभाषत ॥ १३५ ॥
4.135 · p. 58
अनुष्टुप्
अग्निष्ठः पुंस्युपस्थावसंज्ञयूपद्वयान्तरे ।स्थितयूपे त्रिषु त्वेष वह्रिस्थे क्ली त्वपष्ठवाक् ॥ १३६ ॥
4.136 · p. 58
अनुष्टुप्
अङ्कुशाग्रे पष्ठहीने पुनः स्यादभिधेयवत् ।पष्ठश्च पर्वतप्रस्थ आख्यातः कृतबुद्धिभिः ॥ १३७ ॥
4.137 · p. 58
अनुष्टुप्
अत्यूहो गजमेढ्रे ना नि त्वत्यर्थोहकादिषु ।अत्यूहा नीलिकायां स्त्री नीलकण्ठखगे द्वयोः ॥ १३८ ॥
4.138 · p. 58
अनुष्टुप्
अणीचिस्तु पुमान् वेणौ त्रिषु शाकटिके मत ।असौम्येऽक्षण्यदृष्टिः स्त्री दृष्टिहीने तु भेद्यवत् ॥ १३९ ॥
4.139 · p. 58
अनुष्टुप्
अरणिः पुंस्त्रियोर्यज्ञवह्निमन्थनकाष्ठयोः ।ना मुहुर्वचने स्त्री तु या कन्या निःस्पृहा स्वतः ॥ १४० ॥
4.140 · p. 59
अनुष्टुप्
अविवाह्यां भवेत् तस्यामथ स्यादङ्कतिः पुमान् ।वायौ प्रजापतौ च स्त्रीलिङ्गस्त्वर्थान्तरेऽस्त्ययम् ॥ १४१ ॥
4.141 · p. 59
अनुष्टुप्
इति बह्वादिपाठेन विज्ञेयमथ नाञ्चतिः ।अग्नावर्थान्तरे त्वस्ति स्त्रीलिङ्ग इति निश्चयः ॥ १४२ ॥
4.142 · p. 59
अनुष्टुप्
बह्वादिपाठादेवास्य स्यादथो अंहतिः स्त्रियाम् ।दाने व्याधौ च पिशिते पुंल्लिङ्गस्त्वहिधातुके ॥ १४३ ॥
4.143 · p. 59
अनुष्टुप्
अमतिस्त्वमिधातौ ना द्वयोस्त्वाहुर्विचक्षणाः ।छागचातकयोर्लिङ्गं त्वस्माभिर्नैव निश्चितम् ॥ १४४ ॥
4.144 · p. 59
अनुष्टुप्
रूपे प्रावृषि च त्रिस्तु निर्मतावरतिस्तु ना ।असुखक्रोधयोस्त्रिस्तु रतिहीनेऽदितिः पुनः ॥ १४५ ॥
4.145 · p. 59
अनुष्टुप्
ज्ञेया शैलेन्द्रकन्यायां पृथिव्यामपि सूरिभिः ।देवमातरि गावाचोर्होमार्थसमिदुक्षणे ॥ १४६ ॥
4.146 · p. 59
अनुष्टुप्
द्यावापृथिव्योस्त्वदितिः स्त्री त्रिस्तु दितिवर्जिते ।अगस्तिस्तु पुमान् कुम्भसम्भवे मुनिपुङ्गवे ॥ १४७ ॥
4.147 · p. 59
अनुष्टुप्
अगस्त्यवृक्षे च क्ली तु स्यात् तस्य फलपुष्पयोः ।अवन्तिर्ना राजभेदे नीवृद्भदे च भूम्नि च ॥ १४८ ॥
4.148 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्भ (wrong syllable)
स्त्रियां त्ववन्तिराजस्य स्यादवन्ती स्त्र्यपत्यके ।उज्जयिन्याख्यनगरेऽप्यततिस्तु पथि स्त्रियाम् ॥ १४९ ॥
4.149 · p. 59
अनुष्टुप्
पुमांस्त्वततिधातौ स्यादतिथिस्तु पुमानयम् ।कुशस्य तनयेऽपि स्यात् तथैव गृहमागते ॥ १५० ॥
4.150 · p. 59
अनुष्टुप्
अबन्धौ भोक्तुकामे च तिथिहीने तु भेद्यवत् ।अरत्निः पुंस्त्रियोर्हस्ते सप्रकोष्ठतताङ्गुलौ ॥ १५१ ॥
4.151 · p. 59
अनुष्टुप्
कीलकूर्परयोश्चान्ये पुनर्मानान्तरे विदुः ।चतुर्विंशत्यङ्गुलेऽथ स्यादग्नावमनिः पुमान् ॥ १५२ ॥
4.152 · p. 60
अनुष्टुप्
कश्चित् त्वाह स्त्रियां रोगे पुंस्त्रियोस्त्वशनिः पवौ ।वज्रनिर्घातयोश्च त्रिः पुनः स्याच्छनिवर्जिते ॥ १५३ ॥
4.153 · p. 60
अनुष्टुप्
अ(त्म?द्म)निस्तु पुमानग्नौ जयहस्तिन्यथ स्त्रियाम् ।पशूनां भक्षणे द्रोण्यां तालुन्यप्यथ दीधितौ ॥ १५४ ॥
4.154 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अभीशुः प्रग्रहेऽश्वस्य बाहौ चाथाङ्गुलौ स्त्रियाम् ।अविष्ठस्तु द्वयोरश्वे पुंल्लिङ्गस्त्वपहोतरि ॥ १५५ ॥
4.155 · p. 60
अनुष्टुप्
अजिष्णुस्तु पुमानग्नावुदके तु नपुंसकम् ।अररुस्त्वसुरे द्वे स्यान्मन्थनेऽथायुधे नपि ॥ १५६ ॥
4.156 · p. 60
अनुष्टुप्
अगुरु क्ली शिंशपायां जोङ्गके पुंन्नपुंसकम् ।लघुनि स्याद्भेद्यलिङ्गमश्वयुक् तु स्त्रियामियम् ॥ १५७ ॥
4.157 · p. 60
अनुष्टुप्
अश्विन्याह्वयनक्षत्रे तद्युक्ते कालमात्रके ।जाते तु तत्र त्रिरथो अहिभुग्गरुडे पुमान् ॥ १५८ ॥
4.158 · p. 60
अनुष्टुप्
द्वे मयूरे भेद्यलिङ्गस्त्वहिभोजिनि कीर्तितः ।अंशुमांस्तु पुमान् सूर्ये चन्द्रे चाद्यमहीपतौ ॥ १५९ ॥
4.159 · p. 60
अनुष्टुप्
दिलीपारव्यस्य नृपतेस्तातेऽथांशुमती स्त्रियाम् ।पृश्निपर्णीसालपर्ण्योरंशुयुक्ते तु भेद्यवत् ॥ १६० ॥
4.160 · p. 60
metre not recognisednearly अनुष्टुप्
मुहूर्तभेदे त्वभिजित् ऋतुभेदे च पुंसि स ।नक्षत्रभेदे तद्युक्तकालमात्रे च स त्रि तु ॥ १६१ ॥
4.161 · p. 60
अनुष्टुप्
तत्र जाते पुमांस्तु स्यादहिजिद्विष्णुशक्रयोः ।अहेस्तु जेतरि त्रि स्यादरुन्धत् त्वभिधेयवत् ॥ १६२ ॥
4.162 · p. 60
अनुष्टुप्
अरोधके वसिष्ठर्षिपत्न्यां तु स्यादरुन्धती ।वचायां च स्त्रियामस्थिसंयुक्ते त्वभिधेयवत् ॥ १६३ ॥
4.163 · p. 60
अनुष्टुप्
अस्थिमानस्थिसङ्घातसंज्ञवल्ल्यन्तरे तु ना ।अङ्कुरी तु वसन्ते ना वृक्षे चाथ त्रि साङ्कुरे ॥ १६४ ॥
4.164 · p. 61
अनुष्टुप्
अहिद्विड्गरुडे पुंसि शक्रे च नकुले पुनः ।द्वे मयूरे त्रिषु पुनरहेर्द्वेषस्य कारिणि ॥ १६५ ॥
4.165 · p. 61
अनुष्टुप्
अनड्डांस्तु बलीवर्दे नार्घ्यायां तु स्त्रियां द्विधा ।अनडुह्यप्यनड्वाहीत्यापाढा तु स्त्रियामियम् ॥ १६६ ॥
4.166 · p. 61
अनुष्टुप्
आषाढानक्षत्रयुक्तपौर्णमास्यां पुमांस्त्वयम् ।आषाढः शुचिसंज्ञे स्यान्मासे शैलान्तरेऽपि च ॥ १६७ ॥
4.167 · p. 61
अनुष्टुप्
आचष्टे वैजयन्त्यां तु विद्वान् मलयभूधरे ।पालाशे व्रतिनां दण्डेऽप्यथालीढं नपुंसकम् ॥ १६८ ॥
4.168 · p. 61
अनुष्टुप्
धानुष्कस्थितिभेदे स्यात् तस्योक्तं चापि लक्षणम् ।वाममाकुञ्च्य चरणं दक्षिण प्रततेऽग्रतः ॥ १६९ ॥
4.169 · p. 61
अनुष्टुप्
इत्येवमाखादने च त्रिषु त्वास्वादिते भवेत् ।आढकोऽस्त्री चतुष्प्रस्थपरिमाणे स्त्रियां पुनः ॥ १७० ॥
4.170 · p. 61
अनुष्टुप्
आढकी तुवरीसंज्ञधान्ये स्यात् त्वाश्रमोऽस्त्रियाम् ।मुनिस्थाने ब्रह्मचर्यगार्हस्थ्यादौ मठेऽपि च ॥ १७१ ॥
4.171 · p. 61
अनुष्टुप्
आश्रवोऽङ्गीकृतौ पुंसि त्रि तु स्याद्वचनस्थिते ।आग्नेयः पुंस्यगस्त्यर्षौ द्वापराख्ययुगेऽपि च ॥ १७२ ॥
4.172 · p. 61
अनुष्टुप्
संवत्सरे च क्लीबं तु रुधिरेऽप्युत्तरायणे ।दशाहकार्यश्राद्धे च त्रेतायां तु युगे स्त्रियाम् ॥ १७३ ॥
4.173 · p. 61
अनुष्टुप्
आग्नेयी भेद्यवत् त्वग्निसम्बन्ध्यर्थे स्त्रियां पुनः ।रजस्वलायामात्रेयी नदीभेदे च कीर्तिता ॥ १७४ ॥
4.174 · p. 61
अनुष्टुप्
क्ली तु सामविशेषे स्याद् द्वयोस्त्वत्रेरपत्यके ।अबहुष्वेव धातौ तु शारीरे रससंज्ञके ॥ १७५ ॥
4.175 · p. 61
अनुष्टुप्
पुमानथ स्यादाश्लेषा नक्षत्रे सर्पदैवते ।स्त्रीणां त्वालिङ्गनेऽथ स्यादास्फोता स्त्री वनोद्भवे ॥ १७६ ॥
4.176 · p. 62
अनुष्टुप्
मल्लिकायाः प्रभेदे च गिरिकर्ण्यां च ना पुनः ।पलाशवृक्षे रभसम्त्वर्कवृक्षे प्रमादवान् ॥ १७७ ॥
4.177 · p. 62
अनुष्टुप्
भेद्यलिङ्गं तु विज्ञेयमायतं दीर्घवस्तुनि ।स्यात् कृतायमने चाथ क्ली शराकर्षणान्तरे ॥ १७८ ॥
4.178 · p. 62
अनुष्टुप्
आकर्णकर्षणाच्चेदमङ्गुलेनाधिकं विदुः ।ज्ञेयमायमने चैतत् पीठादौ त्वासनं नपि ॥ १७९ ॥
4.179 · p. 62
अनुष्टुप्
पुंस्यप्येके क्रियायां तु -दास्तेरासना न ना ।क्ली तु गात्रस्य विन्यासभेदे पद्मासनादिके ॥ १८० ॥
4.180 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
गजस्य स्कन्धदेशे च स्यादास्थानी तु नप्स्त्रियोः ।सदस्यथ प्रतिज्ञायां क्लीबमाक्रमणेऽपि च ॥ १८१ ॥
4.181 · p. 62
अनुष्टुप्
आनकः पटहे भेर्यामपि स्यादस्त्रियामथ ।द्राक्षायां स्त्रीत्वं आनन्दी ना त्वानन्दः सुखे भवेत् ॥ १८२ ॥
4.182 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्वं (wrong syllable)
आशयस्तु पुमान् स्थानेऽभिप्रायाधारयोरपि ।कोष्ठागारे जलस्थाने त्वाह सारवतस्तथा ॥ १८३ ॥
4.183 · p. 62
अनुष्टुप्
सङ्घे चेतसि चेत्याह सज्जनो विभवे त्वमुम् ।अजयः प्राह रूपेण पुनर्जीर्णे च भेद्यवत् ॥ १८४ ॥
4.184 · p. 62
अनुष्टुप्
आमिषं त्वस्त्रियां मासे तथा स्याद्भोग्यवस्तुनि ।उत्कोचे च स्त्रियां तु स्यान्मासीत्याख्ये तथामिषी ॥ १८५ ॥
4.185 · p. 62
अनुष्टुप्
गन्धद्रव्ये स्त्रियां तु स्यादाश्विनी पूर्णिमान्तरे ।अश्विनीतारया युक्ते कासुचिच्चेष्टकासु सा ॥ १८६ ॥
4.186 · p. 62
अनुष्टुप्
अग्निचित्यगतासु स्यादाश्विनस्तु पुमानयम् ।ज्ञेय आश्वयुजे मासि क्ली तु शास्त्रान्तरे क्रतौ ॥ १८७ ॥
4.187 · p. 62
अनुष्टुप्
सम्बन्धिनि त्वदोऽश्विन्या अश्विनोश्चापि भेद्यवत् ।अथ प्रचक्षते धीराः स्यादावन्त्यः पुमात्मजे ॥ १८८ ॥
4.188 · p. 63
अनुष्टुप्
अवन्तिराजस्य पुमान् मर्त्यजात्यन्तरे पुनः ।विप्रपूर्वकविप्रस्त्रीजाते व्रात्याद्द्वयोर्भवेत् ॥ १८९ ॥
4.189 · p. 63
अनुष्टुप्
आहतं तु त्रिषु ज्ञेयं ताडिते गुणितेऽपि च ।मृषार्थके च वाक्येऽथ ताडने गुणने च नप् ॥ १९० ॥
4.190 · p. 63
अनुष्टुप्
आत्मजो मन्मथे पुंसि रुधिरे क्ली मनस्यपि ।द्वे तु पुत्रे स्वजे तु त्रिरायुधं तु जले नपि ॥ १९१ ॥
4.191 · p. 63
अनुष्टुप्
पुंन्नपुंसकयोः शस्त्रे स्यादथार्द्रकमस्त्रियाम् ।शृङ्गिबेराख्यकन्दे स्यादथ स्याद्भेद्यलिङ्गकम् ॥ १९२ ॥
4.192 · p. 63
अनुष्टुप्
आर्द्रासंज्ञकनक्षत्रयुक्तकालोद्भवेऽथ नप् ।आर्तवं रजसि स्त्रीणां पुष्पे च रभसोऽपठीत् ॥ १९३ ॥
4.193 · p. 63
अनुष्टुप्
वस्तुमात्रे त्वृतूत्थे स्याद् भेद्यलिङ्गमिति स्मृतम् ।यस्य प्राप्तं ऋतुकालस्तस्मिंश्चाथ नपुंसकम् ॥ १९४ ॥
4.194 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 तु (wrong syllable)
आर्षभं सामभेदे स्यान् त्रिषु त्वृषभयोरि- ।आनद्धं मुरजाद्येषु वाद्येषु क्लीबलिङ्गकम् ॥ १९५ ॥
4.195 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
बद्धे तु भेद्यलिङ्गः स्यादिति शब्दविदो विदुः ।आसक्तमन्धकारे क्ली त्रि त्वासज्जनकर्मणि ॥ १९६ ॥
4.196 · p. 63
अनुष्टुप्
आयसं त्वयसि क्लीबमयःसम्बन्धिनि त्रिषु ।आविकस्तु नृलिङ्गः स्यादाविरोमजकम्बले ॥ १९७ ॥
4.197 · p. 63
अनुष्टुप्
अविसम्बन्धिनि त्रिः स्यादाप्रीतस्तु द्वयोग्यम् ।मर्त्यजात्यन्तरे विप्रादुरस्त्रीजनिते त्रि तु ॥ १९८ ॥
4.198 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ज्ञेयोऽभिनवमृत्पात्रे प्रीतेऽप्याख्यातमित्यदः ।क्लीबं तिङन्ते त्रिस्तूक्तेऽथाचितं स्यान्नपुंसकम् ॥ १९९ ॥
4.199 · p. 64
अनुष्टुप्
तुलाविंशतिरूपाणां भाराणां दशके स्मृतम् ।ना तु शाकटभारे स्यानिश्चिते त्वभिधेयवत् ॥ २०० ॥
4.200 · p. 64
अनुष्टुप्
स्यादातिथ्यमतिथ्यर्थे त्रिः पुमांस्त्वतिथौ मतः ।आचार्य उपनीत्यादिकारिणि स्यान्नृलिङ्गकः ॥ २०१ ॥
4.201 · p. 64
अनुष्टुप्
मन्त्रव्याख्याकृतीत्येक आचार्या तु स्त्रियामियम् ।स्वतो या स्यादुपाध्याया तस्या भार्या तु या भवेत् ॥ २०२ ॥
4.202 · p. 64
अनुष्टुप्
आचार्यस्य भवेत् तस्यामाचार्यानी स्त्रियां पुनः ।ज्ञेया यवाग्वामाश्राणा पक्के त्वन्यत्र भेद्यवत् ॥ २०३ ॥
4.203 · p. 64
अनुष्टुप्
क्षीराच्च हविषश्चापि स्यादथो आशरो द्वयोः ।राक्षसे शरसम्बन्धहीनसम्बन्धिनि त्रिषु ॥ २०४ ॥
4.204 · p. 64
अनुष्टुप्
आशिरस्तु पुमान् विष्णौ सूर्ये वह्नौ च भोजने ।तथा क्षीरविकारे स्यादथ बह्वाशिनि त्रिषु ॥ २०५ ॥
4.205 · p. 64
अनुष्टुप्
'नाशिर दुह्र' इत्यत्र चिन्त्योऽर्थोऽथाशुगः पुमान् ।अर्के वायौ गरे त्रिस्तु शीघ्रगेऽथ नृलिङ्गकः ॥ २०६ ॥
4.206 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
आलिङ्गो वाद्यभदे स्यादित्यूचे शाकटायनः ।आलिङ्गने च त्रिषु तु स्यादलिङ्गस्य योगिनि ॥ २०७ ॥
4.207 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भ (wrong syllable)
आलिङ्ग्यः पटहे पुंसि मध्यमे भेद्यवत् पुनः ।आलिङ्गनीये विज्ञेय आञ्जनः पुनरुच्यते ॥ २०८ ॥
4.208 · p. 64
अनुष्टुप्
पुंसि सप्तदशारत्नेर्यूपस्य स्याच्चतुर्थके ।आदितः स्यादरत्नौ च तथा चाञ्जन एव च ॥ २०९ ॥
4.209 · p. 65
अनुष्टुप्
त्रिषु त्वञ्जनसम्बन्धिन्यथ क्ली मत्तवारणे ।आलम्बमालम्बने तु पुंस्यालस्यं तु नप्यदः ॥ २१० ॥
4.210 · p. 65
अनुष्टुप्
अलसत्वेऽलसे तु त्रिराचारस्तु पुमानयम् ।चारित्रे स्त्री तु शक्तीनां नवानां शार्ङ्गिणः क्वचित् ॥ २११ ॥
4.211 · p. 65
अनुष्टुप्
शक्तौ तदा स्यादाचारा स्यादासारस्तु पुंस्ययम् ।सार्थे स्याद्वेगवद्वर्षे नृपाणां च सुहृद्बले ॥ २१२ ॥
4.212 · p. 65
अनुष्टुप्
सैनिकानां प्रसरणे प्रसृतौ च स्त्रियां पुनः ।आसारी स्यात् स्थलेऽथ स्यादाक्षिको नरलिङ्गकः ॥ २१३ ॥
4.213 · p. 65
अनुष्टुप्
व्याधौ दीव्यति तु त्रि स्यादरादित्यवाक् तु ना ।त्रिविक्रमावतारे स्याद् विष्णोश्च द्वादशस्वपि ॥ २१४ ॥
4.214 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
देवतागणभेदस्थेष्वर्के देवे तु स द्वयोः ।अदित्यादित्ययोः पुत्त्रेऽप्येष तु स्यात् त्रिषु स्मृतः ॥ २१५ ॥
4.215 · p. 65
अनुष्टुप्
अदित्यादित्यसम्बन्धिन्यथ क्ली रजसि स्मृतम् ।आभीलं क्ली भवेत् कष्टे त्रि तु तद्वति भीकरे ॥ २१६ ॥
4.216 · p. 65
अनुष्टुप्
आग्नीध्रस्तु पुमानृत्विग्विशेषेऽथ नपुंसकम् ।अग्निविष्ण्यविशेषे स्यादाग्नीध्री तु स्त्रियामियम् ॥ २१७ ॥
4.217 · p. 65
अनुष्टुप्
अग्निकार्येऽथ पुंसि स्यादाह्निको ग्रन्थकारिगाम् ।प्रपाठकाख्ये ग्रन्थस्यावच्छेदे भेद्यवत् पुनः ॥ २१८ ॥
4.218 · p. 65
अनुष्टुप्
अहर्निर्वृत्तकादौ स्यात् क्ली तु नित्यक्रियाशने ।इत्याह रभसः प्राज्ञ आधेयं तु नपुंसकम् ॥ २१९ ॥
4.219 · p. 65
अनुष्टुप्
अग्न्याधाने निधेये तु त्रिराधारधृतेऽपि च ।आदेशके त्रिरादेष्टा नाध्वरव्रतिनि स्मृतः ॥ २२० ॥
4.220 · p. 65
अनुष्टुप्
आत्माशी तु द्वयोर्मत्स्ये त्रि तु स्यादात्मभक्षिणि ।इल्वका मृगशीर्षाख्यनक्षत्रे स्त्री तया युते ॥ २२१ ॥
4.221 · p. 66
अनुष्टुप्
कालमात्रे च नप् त्वेतत् सामभेदेषु केषुचित् ।व्यापके तु त्र्यथ द्वे स्यादिल्वलो मत्स्यरक्षसोः ॥ २२२ ॥
4.222 · p. 66
अनुष्टुप्
यूपे तु पुंसीत्यपरे भ्रान्तिमूलास्तु केचन ।मृगशीर्षाख्यनक्षत्रशिरोदेशस्थितोडुषु ॥ २२३ ॥
4.223 · p. 66
अनुष्टुप्
इल्वलाः स्त्रिय इत्येवमभाषिषत तन्मृषा ।इष्वासो न स्त्रियां चापे नप् त्विषोरसने त्रि तु ॥ २२४ ॥
4.224 · p. 66
अनुष्टुप्
इषोः क्षेप्तर्यथ पुमानिषिरो जातवेदसि ।ऐषिराख्यस्य साम्नश्च द्रष्टरि स्यादिषावपि ॥ २२५ ॥
4.225 · p. 66
अनुष्टुप्
तृणे तु क्ली त्रिषु पुनरिरिणं शून्य ऊषरे ।क्लीबं तु केचिन्मन्यन्ते क्लीबं दुर्गे वनेऽपि च ॥ २२६ ॥
4.226 · p. 66
अनुष्टुप्
इत्वरं गत्वरे त्रिः स्यात् पुंश्चल्यां त्वित्वरी स्त्रियाम् ।इषीकास्तु नृभूम्नि स्युर्दक्षिणापथवर्तिनि ॥ २२७ ॥
4.227 · p. 66
अनुष्टुप्
नीवृद्भेदे तृणस्तम्बे तूलिकायां त्वियं स्त्रियाम् ।इषीका तृणजातौ तु शाकटायन उक्तवान् ॥ २२८ ॥
4.228 · p. 66
अनुष्टुप्
हलायुधस्य स्खलनमिणीका काश इत्यदः ।इङ्गुदी तापसतरौ स्त्रियां पुंसि च भाषितः ॥ २२९ ॥
4.229 · p. 66
अनुष्टुप्
ज्योतिष्मत्यां स्त्रियामेव स्यादिक्ष्वाकुः पुनर्नरि ।वैवस्वतमनोः पुत्रे राजन्ये मदनद्रुमे ॥ २३० ॥
4.230 · p. 66
अनुष्टुप्
तिक्तालाब्वां पुनः स्त्री स्यादिरावांस्त्विरया युते ।भेद्यलिङ्गो नदीमात्रे पुनः स्त्री स्यादिरावती ॥ २३१ ॥
4.231 · p. 66
अनुष्टुप्
बाह्लीकदेशप्रथितनदीभेदेऽप्यथ स्त्रियाम् ।ईषिका हस्तिनो नेत्रकूटे स्याद्भेद्यवत् पुनः ॥ २३२ ॥
4.232 · p. 66
अनुष्टुप्
ईषको गन्तृहिंसित्रोर्द्रष्टरि स्यात् तु मन्मथे ।ईश्वरो ना महादेव स्यात् तथा शण्डगोपतौ ॥ २३३ ॥
4.233 · p. 67
अनुष्टुप्
त्रिस्तु स्वामिनि तत्रापि यदा स्त्र्यर्थस्तदेश्व्वरा ।पार्वत्यां तु स्त्रियां विद्याद् द्वे रूपे ईश्वरीश्वरा ॥ २३४ ॥
4.234 · p. 67
अनुष्टुप्
ईशानो ना महादेवे पार्वत्यां त्वाह यादवः ।ईशानीति स्त्रियां त्रिस्तु प्रभौ तत्र यदा स्त्रियाम् ॥ २३५ ॥
4.235 · p. 67
अनुष्टुप्
ईशानेति तदा भाव्यमिति शाब्दिकनिश्चयः ।उत्सेधो मकुटच्छत्रध्वजोष्णीषतनूषु ना ॥ २३६ ॥
4.236 · p. 67
अनुष्टुप्
'प्रसोमदेव'वर्गस्य चतुर्थे सान्नि चोन्नतौ ।अत्र तूच्छास्त्रमाचष्टे रभसः स्वमनीषया ॥ २३७ ॥
4.237 · p. 67
अनुष्टुप्
नृशण्डलिङ्गमुच्छ्राये शरीरे तु नपुंसकम् ।उत्पलं त्वस्त्रियां केचिद् विदुः कुवलयेऽथ नप् ॥ २३८ ॥
4.238 · p. 67
अनुष्टुप्
कुष्ठाख्यभेषजेऽथ स्यादुपरः पुंसि वारिदे ।यूपस्य त्वक्षते मूले क्ली स्त्री स्यादुपरा दिशि ॥ २३९ ॥
4.239 · p. 67
अनुष्टुप्
उपलस्तु पुमान् मेघे पाषाणे पुंन्नपुंसकम् ।मणौ च शर्करायां तु दृषत्पुत्रेऽपि च स्त्रियाम् ॥ २४० ॥
4.240 · p. 67
अनुष्टुप्